॥ विष्णुपुराणम् ॥

प्रथमः अंशः

॥ नवमोऽध्यायः ॥

पराशर उवाचः
इदं च शृणु मैत्रेय यत्पृष्टोऽहमिह त्वया ।
श्रीसम्बन्धं मयाप्येतच्छ्रुतमासीन्मरीचितः ॥ १ ॥
दुर्वासाः शङ्‌करस्यांशश्चचार पृथिवीमिमाम् ।
स ददर्श स्रजं दिव्यामृषिर्विद्याधरीकरे ॥ २ ॥
संतानकानामखिलं यस्या गन्धेन वासितम् ।
अतिसेव्यमभूद्‌ब्रह्मन् तद्‌वनं वनचारिणाम् ॥ ३ ॥
उन्मत्तव्रतधृग्विप्रः स दृष्ट्‍वा शोभनां स्रजम् ।
तां ययाचे वरारोहां विद्याधरवधूं ततः ॥ ४ ॥
याचिता तेन तन्वङ्‌गी मालां विद्याधराङ्‌गना ।
ददौ तस्मै विशालाक्षी सादरं प्रणिपत्य तम् ॥ ५ ॥
तामादायात्मनो मूर्ध्नि स्रजमुन्मत्तरूपधृक् ।
कृत्वा स विप्रो मैत्रेय परिबभ्राम मेदिनीम् ॥ ६ ॥
स ददर्श समायान्तमुन्मत्तैरावते स्थितम् ।
त्रैलोक्याधिपतिं देवं सह देवैः शचीपतिम् ॥ ७ ॥
तामात्मनः स शिरसः स्रजमुन्मत्तषट्पदाम् ।
आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः ॥ ८ ॥
गृहीत्वाऽमरराजेन स्रगैरावतमूर्धनि ।
न्यस्ता रराज कैलासशिखरे जाह्नवी यथा ॥ ९ ॥
मदान्धकारिताक्षोऽसौ गन्धाकृष्टेन वारणः ।
करेणाघ्राय चिक्षेप तां स्रजं धरणीतले ॥ १० ॥
ततश्चुक्रोध भगवान्दुर्वासा मुनिसत्तमः ।
मैत्रेय देवराजानं क्रुद्धश्चैतदुवाच ह ॥ ११ ॥
दुर्वासा उवाचः
ऐश्वर्यमददुष्टात्मन्नतिस्तब्धोऽसि वासव ।
श्रियो धाम स्रजं यस्त्वं मद्दत्तां नाभिनन्दसि ॥ १२ ॥
प्रसाद इति नोक्तं ते प्रणिपातपुरःसरम् ।
हर्षोत्फुल्लकपोलेन न चापि शिरसा धृता ॥ १३ ॥
मया दत्तामिमां मालां यस्मान्न बहु मन्यसे ।
त्रैलोक्यश्रीरतो मूढ विनाशमुपयास्यति ॥ १४ ॥
मां मन्यसे त्वं सदृशं नूनं शक्रेतरद्विजैः ।
अतोऽवमानमस्मासु मानिना भवता कृतम् ॥ १५ ॥
मद्दत्ता भवता यस्मात्क्षिप्ता माला महीतले ।
तस्मात्प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति ॥ १६ ॥
यस्य सञ्जातकोपस्य भयमेति चराचरम् ।
तं त्वं मामतिगर्वेण देवराजावमन्यसे ॥ १७ ॥
पराशर उवाचः
महेन्द्रो वारणस्कन्धादवतीर्य त्वरान्वितः ।
प्रसादयामास मुनिं दुर्वाससमकल्मषम् ॥ १८ ॥
प्रसाद्यमानः स तदा प्रणिपातपुरःसरम् ।
प्रत्युवाच सहस्राक्षं दुर्वासा मुनिसत्तमः ॥ १९ ॥
दुर्वासा उवाचः
नाहं कृपालुहृदयो न च मां भजते क्षमा ।
अन्ये ते मुनयः शक्र दुर्वाससमवेहि माम् ॥ २० ॥
गौतमादिभिरन्यैस्त्वं गर्वमारोपितो मुधा ।
अक्षान्तिसारसर्वस्वं दुर्वाससमवेहि माम् ॥ २१ ॥
वसिष्ठाद्यैर्दयासारैस्स्तोत्रं कुर्वद्‌भिरुच्चकैः ।
गर्वं गतोऽसि येनैवं मामप्यद्यावमन्यसे ॥ २२ ॥
ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम् ।
निरीक्ष्य कस्त्रिभुवने मम यो न गतो भयम् ॥ २३ ॥
नाहं क्षमिष्ये बहुना किमुक्तेन शतक्रतो ।
विडम्बनामिमां भूयः करोष्यनुनयात्मिकाम् ॥ २४ ॥
पराशर उवाचः
इत्युक्त्वा प्रययौ विप्रो देवराजोऽपि तं पुनः ।
आरुह्यैरावतं ब्रह्मन् प्रययावमरावतीम् ॥ २५ ॥
ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयम् ।
मैत्रेयासीदपध्वस्तं सङ्‍क्षीणौषधिवीरुधम् ॥ २६ ॥
न यज्ञाः समवर्तन्त न तपस्यन्ति तापसाः ।
न च दानादिधर्मेषु मनश्चक्रे तदा जनः ॥ २७ ॥
निःसत्त्वाः सकला लोका लोभाद्युपहतेन्द्रियाः ।
स्वल्पेऽपि हि बभूवुस्ते साभिलाषा द्विजोत्तम ॥ २८ ॥
यतः सत्त्वं ततो लक्ष्मीः सत्त्वं भूत्यनुसारि च ।
निःश्रीकाणां कुतः सत्त्वं विना तेन गुणाः कुतः ॥ २९ ॥
बलशौर्याद्यभावश्च पुरुषाणां गुणैर्विना ।
लङ्‌घनीयः समस्तस्य बलशौर्यविवर्जितः ॥ ३० ॥
भवत्यपध्वस्तमतिर्लङ्‌घितः प्रथितः पुमान् ॥ ३१ ॥
एवमत्यन्तनिःश्रीके त्रैलोक्ये सत्त्ववर्जिते ।
देवान् प्रति बलोद्योगं चक्रुर्दैतेयदानवाः ॥ ३२ ॥
लोभाभिभूता निःश्रीका दैत्याः सत्त्वविवर्जिताः ।
श्रिया विहीनैर्निःसत्त्वैर्देवैश्चक्रुस्ततो रणम् ॥ ३३ ॥
विजितास्त्रिदशा दैत्यैरिन्द्राद्याः शरणं ययुः ।
पितामहं महाभागं हुताशनपुरोगमाः ॥ ३४ ॥
यथावत् कथितो देवैर्ब्रह्मा प्राह ततः सुरान् ।
परावरेशं शरणं व्रजध्वमसुरार्दनम् ॥ ३५ ॥
उत्पत्तिस्थितिनाशानामहेतुं हेतुमीश्वरम् ।
प्रजापतिपतिं विष्णुमनन्तमपराजितम् ॥ ३६ ॥
प्रधानपुंसोरजयोः कारणं कार्यभूतयोः ।
प्रणतार्तिहरं विष्णुं स वः श्रेयो विधास्यति ॥ ३७ ॥
पराशर उवाचः
एवमुक्त्वा सुरान्सर्वान् ब्रह्मा लोकपितामहः ।
क्षीरोदस्योत्तरं तीरं तैरेव सहितो ययौ ॥ ३८ ॥
स गत्वा त्रिदशैः सर्वैः समवेतः पितामहः ।
तुष्टाव वाग्भिरिष्टाभिः परावरपतिं हरिम् ॥ ३९ ॥
ब्रह्मोवाचः
नमामि सर्वं सर्वेशमनन्तमजमव्ययम् ।
लोकधाम धराधारमप्रकाशमभेदिनम् ॥ ४० ॥
नारायणमणीयांसमशेषाणामणीयसाम् ।
समस्तानां गरिष्ठं च भूरादीनां गरीयसाम् ॥ ४१ ॥
यत्र सर्वं यतः सर्वमुत्पन्नं मत्पुरःसरम् ।
सर्वभूतश्च यो देवः पराणामपि यः परः ॥ ४२ ॥
परः परस्मात्पुरुषात्परमात्मस्वरूपधृक् ।
योगिभिश्चिन्त्यते योऽसौ मुक्तिहेतोर्मुमुक्षुभिः ॥ ४३ ॥
सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः ।
स शुद्धः सर्वशुद्धेभ्यः पुमानाद्यः प्रसीदतु ॥ ४४ ॥
कलाकाष्ठामुहूर्तादिकालसूत्रस्य गोचरे ।
यस्य शक्तिर्न शुद्धस्य स नो विष्णुः प्रसीदतु ॥ ४५ ॥
प्रोच्यते परमेशो हि यः शुद्धोऽप्युपचारतः ।
प्रसीदतु स नो विष्णुरात्मा यः सर्वदेहिनाम् ॥ ४६ ॥
यः कारणं च कार्यं च कारणस्यापि कारणम् ।
कार्यस्यापि च यः कार्यं प्रसीदतु स नो हरिः ॥ ४७ ॥
कार्यकार्यस्य यत्कार्यं तत्कार्यस्यापि यः स्वयम् ।
तत्कार्यकार्यभूतो यस्ततश्च प्रणताः स्म तम् ॥ ४८ ॥
कारणं कारणस्यापि तस्य कारणकारणम् ।
तत्कारणानां हेतुं तं प्रणताः स्म परेश्वरम् ॥ ४९ ॥
भोक्तारं भोग्यभूतं च स्रष्टारं सृज्यमेव च ।
कार्यकर्तृस्वरूपं तं प्रणताः स्म परं पदम् ॥ ५० ॥
विशुद्धबोधवन्नित्यमजमक्षयमव्ययम् ।
अव्यक्तमविकारं यत्तद्‌विष्णोः परमं पदम् ॥ ५१ ॥
न स्थूलं न च सूक्ष्मं यन्न विशेषणगोचरम् ।
तत् पदं परमं विष्णोः प्रणमामि सदामलम् ॥ ५२ ॥
यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता ।
परब्रह्मस्वरूपं यत्प्रणमामस्तमव्ययम् ॥ ५३ ॥
यद्योगिनः सदोद्युक्ता पुण्यपापक्षयेऽक्षयम् ।
पश्यन्ति प्रणवे चिन्त्यं तद्विष्णोः परमं पदम् ॥ ५४ ॥
यन्न देवा न मुनयो न चाहं न च शङ्‌करः ।
जानन्ति परमेशस्य तद्‌विष्णोः परमं पदम् ॥ ५५ ॥
शक्तयो यस्य देवस्य ब्रह्मविष्णुशिवात्मिकाः ।
भवन्त्यभूतपूर्वस्य तद्‌विष्णोः परमं पदम् ॥ ५६ ॥
सर्वेश सर्वभूतात्मन्सर्व सर्वाश्रयाच्युत ।
प्रसीद विष्णो भक्तानां व्रज नो दृष्टिगोचरम् ॥ ५६ ॥
पराशर उवाचः
इत्युदीरितमाकर्ण्य ब्रह्मणस्त्रिदशास्ततः ।
प्रणम्योचुः प्रसीदेति व्रज नो दृष्टिगोचरम् ॥ ५८ ॥
यन्नायं भगवान् ब्रह्मा जानाति परमं पदम् ।
तं नताः स्मो जगद्धाम तव सर्वगताच्युत ॥ ५९ ॥
इत्यन्ते वचसस्तेषां देवानां ब्रह्मणस्तथा ।
ऊचुर्देवर्षयस्सर्वे बृहस्पतिपुरोगमाः ॥ ६० ॥
आद्यो यज्ञः पुमानीड्यो यः पूर्वेषां च पूर्वजः ।
तं नताः स्मो जगत्स्रष्टुः स्रष्टारमविशेषणम् ॥ ६१ ॥
भगवन्भूतभव्येश यज्ञमूर्तिधराव्यय ।
प्रसीद प्रणतानां त्वं सर्वेषां देहि दर्शनम् ॥ ६२ ॥
एष ब्रह्मा सहास्माभिः सहरुद्रैस्त्रिलोचनः ।
सर्वादित्यैः समं पूषा पावकोऽयं सहाग्निभिः ॥ ६३ ॥
अश्विनौ वसवश्चेमे सर्वे चैते मरुद्‌गणाः ।
साध्या विश्वे तथा देवा देवेन्द्रश्चायमीश्वरः ॥ ६४ ॥
प्रणामप्रवणा नाथ दैत्यसैन्यपराजिताः ।
शरणं त्वामनुप्राप्ताः समस्ता देवतागणाः ॥ ६५ ॥
पराशर उवाचः
एवं संस्तूयमानस्तु भगवाञ्छङ्‌खचक्रधृक् ।
जगाम दर्शनं तेषां मैत्रेय परमेश्वरः ॥ ६६ ॥
तं दृष्ट्‍वा ते तदा देवाः शङ्‌खचक्रगदाधरम् ।
अपूर्वरूपसंस्थानं तेजसां राशिमूर्जितम् ॥ ६७ ॥
प्रणम्य प्रणताः पूर्वं सङ्‍क्षोभस्तिमितेक्षणाः ।
तुष्टुवुः पुण्डरीकाक्षं पितामहपुरोगमाः ॥ ६८ ॥
देवा ऊचुः
नमो नमोऽविश्वेशस्त्वं ब्रह्मा त्वं पिनाकधृक् ।
इन्द्रस्त्वमग्निः पवनो वरुणः सविता यमः ।
वसवो मरुतः साध्या विश्वेदेवगणा भवान् ॥ ६९ ॥
योऽयं तवाग्रतो देव समीपं देवतागणः ।
स त्वमेव जगत्स्रष्टा यतः सर्वगतो भवान् ॥ ७० ॥
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्‌कारः प्रजापतिः ।
वेत्ता वेद्यं च सर्वात्मंस्त्वन्मयं चाखिलं जगत् ॥ ७१ ॥
त्वामार्ताः शरणं विष्णो प्रयाता दैत्यनिर्जिताः ।
वयं प्रसीद सर्वात्मंस्तेजसाप्याययस्व नः ॥ ७२ ॥
तावदार्तिस्तथा वाञ्छा तावन्मोहस्तथासुखम् ।
यावन्न याति शरणं त्वामशेषाघनाशनम् ॥ ७३ ॥
त्वं प्रसादं प्रसन्नात्मन् प्रपन्नानां कुरुष्व नः ।
तेजसां नाथ सर्वेषां स्वशक्त्याप्यायनं कुरु ॥ ७४ ॥
पराशर उवाचः
एवं संस्तूयमानस्तु प्रणतैरमरैर्हरिः ।
प्रसन्नदृष्टिर्भगवानिदमाह स विश्वकृत् ॥ ७५ ॥
तेजसो भवतां देवाः करिष्याम्युपबृंहणम् ।
वदाम्यहं यत्क्रियतां भवद्‌भिस्तदिदं सुराः ॥ ७६ ॥
आनीय सहिता दैत्यैः क्षीराब्धौ सकलौषधीः ।
प्रक्षिप्यात्रामृतार्थं ताः सकला ऐत्यदानव्वैः
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ ७७ ॥
मथ्यताममृतं देवाः सहाये मय्यवस्थिते ॥ ७८ ॥
सामपूर्वं च दैतेयास्तत्र साहाय्यकर्मणि ।
सामान्यफलभोक्तारो यूयं वाच्या भविष्यथ ॥ ७९ ॥
मथ्यमाने च तत्राब्धौ यत्समुत्पद्यतेऽमृतम् ।
तत्पानाद्‌बलिनो यूयममराश्च भविष्यथ ॥ ८० ॥
तथा चाहं करिष्यामि ते यथा त्रिदशद्विषः ।
न प्राप्स्यन्त्यमृतं देवाः केवलं क्लेशभागिनः ॥ ८१ ॥
पराशर उवाचः
इत्युक्ता देवदेवेन सर्व एव ततः सुराः ।
संधानमसुरैः कृत्वा यत्नवन्तोऽमृतेऽभवन् ॥ ८२ ॥
नानौषधीः समानीय देवदैतेयदानवाः ।
क्षिप्त्वा क्षीराब्धिपयसि शरदभ्रामलत्विषि ॥ ८३ ॥
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् ।
ततो मथितुमारब्धा मैत्रेय तरसामृतम् ॥ ८४ ॥
विबुधाः सहिताः सर्वे यतः पुच्छं ततः कृताः ।
कृष्णेन वासुकेर्दैत्याः पूर्वकाये निवेशिताः ॥ ८५ ॥
ते तस्य मुखनिश्वासवह्निनापहतत्विषः ।
निस्तेजसोऽसुराः सर्वे बभूवुरमितौजसः ॥ ८६ ॥
तेनैव मुखनिश्वासवायुनास्तबलाहकैः ।
पुच्छप्रदेशे वर्षद्‌भिस्तदा चाप्यायिताः सुराः ॥ ८७ ॥
क्षीरोदमध्ये भगवान्कूर्मरूपी स्वयं हरिः ।
मन्दराद्रेरधिष्ठानं भ्रमतोऽभून्महामुने ॥ ८८ ॥
रूपेणान्येन देवानां मध्ये चक्रगदाधरः ।
चकर्ष नागराजानं दैत्यमध्येऽपरेण च ॥ ८९ ॥
उपर्याक्रान्तवाञ्छैलं बृहद्‌रूपेण केशवः ।
तथापरेण मैत्रेय यन्न दृष्टं सुरासुरैः ॥ ९० ॥
तेजसा नागराजानं तथाप्यायितवान्हरिः ।
अन्येन तेजसा देवानुपबृंहितवान्प्रभुः ॥ ९१ ॥
मथ्यमाने ततस्तस्मिन्क्षीराब्धौ देवदानवैः ।
हविर्धामाभवत्पूर्वं सुरभिः सुरपूजिता ॥ ९२ ॥
जग्मुर्मुदं ततो देवा दानवाश्च महामुने ।
व्याक्षिप्तचेतसश्चैव बभूवुः स्तिमितेक्षणाः ॥ ९३ ॥
किमेतदिति सिद्धानां दिवि चिन्तयतां ततः ।
बभूव वारुणी देवी मदाघूर्णितलोचना ॥ ९४ ॥
कृतावर्तात्ततस्तस्मात्क्षीरोदाद्‌वासयञ्जगत् ।
गन्धेन पारिजातोऽभूद्‌देवस्त्रीनन्दनस्तरुः ॥ ९५ ॥
रूपौदार्यगुणोपेतस्तथा चाप्सरसां गणः ।
क्षीरोदधेः समुत्पन्नो मैत्रेय परमाद्‌भुतः ॥ ९६ ॥
ततः शीतांशुरभवज्जगृहे तं महेश्वरः ।
जगृहुश्च विषं नागाः क्षीरोदाब्धिसमुत्थितम् ॥ ९७ ॥
ततो धन्वन्तरिर्देवः श्वेताम्बरधरस्स्वयम् ।
बिभ्रत्कमण्डलुं पूर्णममृतस्य समुत्थितः ॥ ९८ ॥
ततः स्वस्थमनस्कास्ते सर्वे दैतेयदानवाः ।
बभूवुर्मुदिताः सर्वे मैत्रेय मुनिभिः सह ॥ ९९ ॥
ततः स्फुरत्कान्तिमती विकासिकमले स्थिता ।
श्रीर्देवी पयसस्तस्मादुद्‌भूता धृतपङ्‌कजा ॥ १०० ॥
तां तुष्टुवुर्मुदा युक्ताः श्रीसूक्तेन महर्षयः ॥ १०१ ॥
विश्वावसुमुखास्तस्या गन्धर्वाः पुरतो जगुः ।
घृताचीप्रमुखास्तत्र ननृतुश्चाप्सरोगणाः ॥ १०२ ॥
गङ्‌गाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरे ।
दिग्गजा हेमपात्रस्थमादाय विमलं जलम् ।
स्नापयाञ्चक्रिरे देवीं सर्वलोकमहेश्वरीम् ॥ १०३ ॥
क्षीरोदो रूपधृक्तस्यै मालामम्लानपङ्‌कजाम् ।
ददौ विभूषणान्यङ्‌गे विश्वकर्मा चकार ह ॥ १०४ ॥
दिव्यमाल्याम्बरधरा स्नाता भूषणभूषिता ।
पश्यतां सर्वदेवानां ययौ वक्षःस्थलं हरेः ॥ १०५ ॥
तया विलोकिता देवा हरिवक्षःस्थलस्थया ।
लक्ष्म्या मैत्रेय सहसा परां निर्वृतिमागताः ॥ १०६ ॥
उद्वेगं परमं जग्मुर्दैत्या विष्णुपराङ्‌मुखाः ।
त्यक्ता लक्ष्म्या महाभाग विप्रचित्तिपुरोगमाः ॥ १०७ ॥
ततस्ते जगृहुर्दैत्या धन्वन्तरिकरस्थितम् ।
कमण्डलुं महावीर्या यत्रास्तेऽमृतमृतम् ॥ १०८ ॥
मायया मोहयित्वा तान्विष्णुः स्त्रीरूपमास्थितः ।
दानवेभ्यस्तदादाय देवेभ्यः प्रददौ विभुः ॥ १०९ ॥
ततः पपुः सुरगणाः शक्राद्यास्तत्तदाऽमृतम् ।
उद्यतायुधनिस्त्रिंशा दैत्यास्तांश्च समभ्ययुः ॥ ११० ॥
पीतेऽमृते च बलिभिर्देवैर्दैत्यचमूस्तदा ।
बध्यमाना दिशो भेजे पातालं च विवेश वै ॥ १११ ॥
ततो देवा मुदा युक्ताः शङ्‌खचक्रगदाभृतम् ।
प्रणिपत्य यथापूर्वमाशासत्तत्त्रिविष्टपम् ॥ ११२ ॥
ततः प्रसन्नभाः सूर्यः प्रययौ स्वेन वर्त्मना ।
ज्योतींषि च यथामार्गं प्रययुर्मुनिसत्तम ॥ ११३ ॥
जज्वाल भगवांश्चोच्चैश्चारुदीप्तिर्विभावसुः ।
धर्मे च सर्वभूतानां तदा मतिरजायत ॥ ११४ ॥
त्रैलोक्यं च श्रिया जुष्टं च बभूव द्विजसत्तम ।
शक्रश्च त्रिदशश्रेष्ठः पुनः श्रीमानजायत ॥ ११५ ॥
सिंहासनगतः शक्रः सम्प्राप्य त्रिदिवं पुनः ।
देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥ ११६ ॥
इन्द्र उवाचः
नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् ।
श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥ ११७ ॥
पद्मालयां पद्मकरां पमपत्रनिभेक्षणाम् ।
वन्दे पद्ममुखीं देवीं पद्मनाभप्रियामहम् ॥ ११८ ॥
त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी ।
संध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ ११९ ॥
यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ १२० ॥
आन्वीक्षिकी त्रयीवार्ता दण्डनीतिस्त्वमेव च ।
सौम्यासौम्यैर्जगद्‌रूपैस्त्वयैतद्‌देवि पूरितम् ॥ १२१ ॥
का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः ।
अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ॥ १२२ ॥
त्वया देवि परित्यक्तं सकलं भुवनत्रयम् ।
विनष्टप्रायमभवत्त्वयेदानीं समेधितम् ॥ १२३ ॥
दाराः पुत्रास्तथागारसुहृद्धान्यधनादिकम् ।
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् ॥ १२४ ॥
शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम् ।
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥ १२५ ॥
त्वं माता सर्वभूतानां देवदेवो हरिः पिता ।
त्वयैतद्‌विष्णुना चाम्ब जगद्‌व्याप्तं चराचरम् ॥ १२६ ॥
मा नः कोशं तथा गोष्ठं मा गृहं मा परिच्छदम् ।
मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥ १२७ ॥
मा पुत्रान्मा सुहृद्वर्गं मा पशून्मा विभूषणम् ।
त्यजेथा मम देवस्य विष्णोर्वक्षः स्थलालये ॥ १२८ ॥
सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः ।
त्यज्यन्ते ते नराः सद्यः संत्यक्ता ये त्वयामले ॥ १२९ ॥
त्वयावलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः ।
कुलैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥ १३० ॥
स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।
स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥ १३१ ॥
सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ।
पराङ्‌मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥ १३२ ॥
न ते वर्णयितुं शक्ता गुणाञ्जिह्वापि वेधसः ।
प्रसीद देवि पद्माक्षि मास्मांस्त्याक्षीः कदाचन ॥ १३३ ॥
पराशर उवाचः
एवं श्रीः संस्तुता सम्यक् प्राह हृष्टा शतक्रतुम् ।
शृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज ॥ १३४ ॥
श्रीरुवाचः
परितुष्टास्मि देवेश स्तोत्रेणानेन ते हरे ।
वरं वृणीष्व यस्त्विष्टो वरदाहं तवागता ॥ १३५ ॥
इन्द्र उवाचः
वरदा यदि मे देवि वरार्हो यदि चाप्यहम् ।
त्रैलोक्यं न त्वया त्याज्यमेष मेऽस्तु वरः परः ॥ १३६ ॥
स्तोत्रेण यस्तथैतेन त्वां स्तोष्यत्यब्धिसम्भवे ।
स त्वया न परित्याज्यो द्वितीयोऽस्तु वरो मम ॥ १३७ ॥
श्रीरुवाचः
त्रैलोक्यं त्रिदशश्रेष्ठ न संत्यक्ष्यामि वासव ।
दत्तो वरो मया यस्ते स्तोत्राराधनतुष्टया ॥ १३८ ॥
यश्च सायं तथा प्रातः स्तोत्रेणानेन मानवः ।
मां स्तोष्यति न तस्याहं भविष्यामि पराङ्‌मुखी ॥ १३९ ॥
पराशर उवाचः
एवं ददौ वरौ देवी देवराजाय वै पुरा ।
मैत्रेय श्रीर्महाभागा स्तोत्राराधनतोषिता ॥ १४० ॥
भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वमुदधेः पुनः ।
देवदानवयत्नेन प्रसूतामृतमन्थने ॥ १४१ ॥
एवं यदा जगत्स्वामी देवदेवो जनार्दनः ।
अवतारं करोत्येषा तदा श्रीस्तत्सहायिनी ॥ १४२ ॥
पुनश्च पद्मा सम्भूता आदित्योऽभूद्‌यदा हरिः ।
यदा तु भार्गवो रामस्तदाभूद्‌धरणी त्वियम् ॥ १४३ ॥
राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि ।
अन्येषु चावतारेषु विष्णोरेषानपायिनी ॥ १४४ ॥
देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।
विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ॥ १४५ ॥
यश्चैतच्छृणुयाज्जन्म लक्ष्म्या यश्च पठेन्नरः ।
श्रियो न विच्युतिस्तस्य गृहे यावत्कुलत्रयम् ॥ १४६ ॥
पठ्यते येषु चैवेयं गृहेषु श्रीस्तुतिर्मुने ।
अलक्ष्मीः कलहाधारा न तेष्वास्ते कदाचन ॥ १४७ ॥
एतत्ते कथितं ब्रह्मन्यन्मां त्वं परिपृच्छसि ।
क्षीराब्धौ श्रीर्यथा जाता पूर्वं भृगुसुता सती ॥ १४८ ॥
इति सकलविभूत्यवाप्तिहेतुः
     स्तुतिरियमिन्द्रमुखोद्गता हि लक्ष्म्याः ।
अनुदिनमिह पठ्यते नृभिर्यै-
     र्वसति न तेषु कदाचिदप्यलक्ष्मीः ॥ १४९ ॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे नवमोऽध्यायः



GO TOP