॥ विष्णुपुराणम् ॥

प्रथमः अंशः

॥ अष्टमोऽध्यायः ॥

पराशर उवाचः
कथितस्तामसः सर्गो ब्रह्मणस्ते महामुने ।
रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ १ ॥
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः ।
प्रादुरासीत्प्रभोरङ्‌के कुमारो नीललोहितः ॥ २ ॥
रुरोद वै सुस्वरं सोऽथ प्राद्रवद्‌द्विजसत्तम ।
किं त्वं रोदिषि तं ब्रह्मा रुदन्तं प्रत्युवाच ह ॥ ३ ॥
नाम देहीति तं सोऽथ प्रत्युवाच प्रजापतिः ।
रुद्रस्त्वं देव नाम्नासि मा रोदीर्धैर्यमावह ।
एवमुक्तः पुनः सोऽथ सप्तकृत्वो रुरोद वै ॥ ४ ॥
ततोऽन्यानि ददौ तस्मै सप्त नामानि स प्रभुः ।
स्थानानि चैषामष्टानां पत्नीः पुत्रांश्च स विभुः ॥ ५ ॥
भवं शर्वमथेशानं तथा पशुपतिं द्विज ।
भीममुग्रं महादेवमुवाच स पितामहः ॥ ६ ॥
चक्रे नामान्यथैतानि स्थानान्येषां चकार सः ।
सूर्यो जलं मही वायुर्वह्निराकाशमेव च ।
दीक्षितो ब्राह्मणः सोम इत्येतास्तनवः क्रमात् ॥ ७ ॥
सुवर्चला तथैवोषा विकेशी चापरा शिवा ।
स्वाहा दिशस्तथा दीक्षा रोहिणी च यथाक्रमम् ॥ ८ ॥
सूर्यादीनां नरश्रेष्ठ रुद्राद्यैर्नामभिः सह ।
पत्न्यः स्मृता महाभाग तदपत्यानि मे शृणु ॥ ९ ॥
येषां सूतिप्रसूतिभ्यामिदमापूरितं जगत् ॥ १० ॥
शनैश्चरस्तथा शुक्रो लोहिताङ्‌गो मनोजवः ।
स्कन्दः स्वर्गोऽथ सन्तानो बुधश्चानुक्रमात्सुताः ॥ ११ ॥
एवंप्रकारो रुद्रोऽसौ सतीं भार्यामविन्दिताम् ।
उपयेमे दुहितरं दक्षस्यैव प्रजापतेः ॥ १२ ॥
दक्षकोपाच्च तत्याज सा सती स्वं कलेवरम् ।
हिमवद्दुहिता साभून्मेनायां द्विजसत्तम ॥ १३ ॥
उपयेमे पुनश्चोमामनन्यां भगवान्हरः ॥ १४ ॥
देवौ धातृविधातारौ भृगोः ख्यातिरसूयत ।
श्रियं च देवदेवस्य पत्नी नारायणस्य या ॥ १५ ॥
मैत्रेय उवाचः
क्षीराब्धौ श्रीः समुत्पन्ना श्रूयतेऽमृतमन्थने ।
भृगोः ख्यात्यां समुत्पन्नेत्येतदाह कथं भवान् ॥ १६ ॥
पराशर उवाचः
नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी ।
यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम ॥ १७ ॥
अर्थो विष्णुरियं वाणी नीतिरेषा नयो हरिः ।
बोधो विष्णुरियं बुद्धिर्धर्मोऽसौ सत्क्रिया त्वियम् ॥ १७ ॥
स्रष्टा विष्णुरियं सृष्टिः श्रीभूमिर्भूधरो हरिः ।
संतोषो भगवाँल्लक्ष्मीस्तुष्टिर्मैत्रेय शाश्वती ॥ १९ ॥
इच्छा श्रीर्भगवान्कामो यज्ञोऽसौ दक्षिणा तु सा ।
आज्याहुतिरसौ देवी पुरोडाशो जनार्दनः ॥ २० ॥
पत्नीशाला मुने लक्ष्मीः प्राग्वंशो मधुसूदनः ।
चितिर्लक्ष्मीर्हरिर्यूप इध्मा श्रीर्भगवान्कुशः ॥ २१ ॥
सामस्वरूपी भगवानुद्‌गीतिः कमलालया ।
स्वाहा लक्ष्मीर्जगन्नाथो वासुदेवो हुताशनः ॥ २२ ॥
शङ्‌करो भगवाञ्छौरिर्गौरी लक्ष्मीर्द्विजोत्तम ।
मैत्रेय केशवः सूर्यस्तत्प्रभा कमलालया ॥ २३ ॥
विष्णुः पितृगणः पद्मा स्वधा शाश्वतपुष्टिदा ।
द्यौः श्रीः सर्वात्मको विष्णुरवकाशोऽतिविस्तरः ॥ २४ ॥
शशाङ्‌कः श्रीधरः कान्तिः श्रीस्तस्यैवानपायिनी ।
धृतिर्लक्ष्मीर्जगच्चेष्टा वायुः सर्वत्रगो हरिः ॥ २५ ॥
जलधिर्द्विज गोविन्दस्तद्वेला श्रीर्महामते ।
लक्ष्मीस्वरूपमिन्द्राणी देवेन्द्रो मधुसूदनः ॥ २६ ॥
यमश्चक्रधरः साक्षाद्‌धूमोर्णा कमलालया ।
ऋद्धिः श्रीः श्रीधरो देवः स्वयमेव धनेश्वरः ॥ २७ ॥
गौरी लक्ष्मीर्महाभागा केशवो वरुणः स्वयम् ।
श्रीर्देवसेना विप्रेन्द्र देवसेनापतिर्हरिः ॥ २८ ॥
अवष्टम्भो गदापाणिः शक्तिर्लक्ष्मीर्द्विजोत्तम ।
काष्ठा लक्ष्मीर्निमेषोऽसौ मुहूर्तोऽसौ कला तु सा ॥ २९ ॥
ज्योत्स्ना लक्ष्मीः प्रदीपोऽसौ सर्वः सर्वेश्वरो हरिः ।
लताभूता जगन्माता श्रीर्विष्णुर्द्रुमसंज्ञितः ॥ ३० ॥
विभावरी श्रीर्दिवसो देवश्चक्रगदाधरः ।
वरप्रदो वरो विष्णुर्वधूः पद्मवनालया ॥ ३१ ॥
नदस्वरूपी भगवाञ्छ्रीर्नदीरूपसंस्थिता ।
ध्वजश्च पुण्डरीकाक्षः पताका कमलालया ॥ ३२ ॥
तृष्णा लक्ष्मीर्जगन्नाथो लोभो नारायणः परः ।
रतिरागश्च मैत्रेय लक्ष्मीर्गोविन्द एव च ॥ ३३ ॥
किं चाति बहुनोक्तेन सङ्‍क्षेपेणेदमुच्यते ॥ ३४ ॥
देवतिर्यङ्‌मनुष्येषु पुन्नामा भगवान्हरिः ।
स्त्रीनाम्नी श्रीश्च विज्ञेया नानयोर्विद्यते परम् ॥ ३५ ॥
इति श्रीविष्णुपुराणे प्रथमेंऽशेऽष्टमोऽध्यायः



GO TOP