सत्संगधारा - विष्णुपुराण - प्रथमः अंशः - षष्ठोऽध्यायः



॥ विष्णुपुराणम् ॥

प्रथमः अंशः

॥ षष्ठोऽध्यायः ॥

मैत्रेय उवाचः
अर्वाक्स्रोतस्तु कथितो भवता यस्तु मानुषः ।
ब्रह्मन् विस्तरतो ब्रूहि ब्रह्मा तमसृजद्‌यथा ॥ १ ॥
यथा च वर्णानसृजद्‌यद्गुणांश्च महामुने ।
यच्च तेषां स्मृतं कर्म विप्रादीनां तदुच्यताम् ॥ २ ॥
पराशर उवाचः
सत्याभिध्यायिनः पूर्वं सिसृक्षोर्ब्रह्मणो जगत् ।
अजायन्त द्विजश्रेष्ठ सत्त्वोद्रिक्ता मुखात्प्रजाः ॥ ३ ॥
वक्षसो रजसोद्रिक्तास्तथा वै ब्रह्मणोऽभवन् ।
रजसा तमसा चैव समुद्रिक्तास्तथोरुतः ॥ ४ ॥
पद्‌भ्यामन्याः प्रजा ब्रह्मा ससर्ज द्विजसत्तम ।
तमःप्रधानास्ताः सर्वाश्चातुर्वर्ण्यमिदं ततः ॥ ५ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम ।
पादोरुवक्षःस्थलतो मुखतश्च समुद्‌गताः ॥ ६ ॥
यज्ञनिष्पत्तये सर्वमेतद्‌ब्रह्मा चकार वै ।
चातुर्वर्ण्यं महाभाग यज्ञसाधनमुत्तमम् ॥ ७ ॥
यज्ञैराप्यायिता देवा वृष्ट्युत्सर्गेण वै प्रजाः ।
आप्याययन्ते धर्मज्ञ यज्ञाः कल्याणहेतवः ॥ ८ ॥
निष्पाद्यन्ते नरैस्तैस्तु स्वकर्माभिरतैस्सदा ।
विशुद्धाचरणोपेतैः सद्‌भिः सन्मार्गगामिभिः ॥ ९ ॥
स्वर्गापवर्गौ मानुष्यात्प्राप्नुवन्ति नरा मुने ।
यच्चाभिरुचितं स्थानं तद्‌यान्ति मनुजा द्विज ॥ १० ॥
प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्वर्ण्यव्यवस्थिताः ।
सम्यक्छ्रद्धाः समाचारप्रवणा मुनिसत्तम ॥ ११ ॥
यथेच्छावासनिरताः सर्वबाधाविवर्जिताः ।
शुद्धान्तःकरणाः शुद्धाः कर्मानुष्ठाननिर्मलाः ॥ १२ ॥
शुद्धे च तासां मनसि शुद्धेऽन्तः संस्थिते हरौ ।
शुद्धज्ञानं प्रपश्यन्ति विष्ण्वाख्यं येन तत्पदम् ॥ १३ ॥
ततः कालात्मको योऽसौ स चांशः कथितो हरेः ।
स पातयत्यघं घोरमल्पमल्पाल्पसारवत् ॥ १४ ॥
अधर्मबीजमुद्‌भूतं तमोलोभसमुद्‌भवम् ।
प्रजासु तासु मैत्रेय रागादिकमसाधकम् ॥ १५ ॥
ततः सा सहजा सिद्धिस्तासां नातीव जायते ।
रसोल्लासादयश्चान्याः सिद्धयोऽष्टौ भवन्ति याः ॥ १६ ॥
तासु क्षीणास्वशेषासु वर्धमाने च पातके ।
द्वन्द्वाभिभवदुःखार्तास्ता भवन्ति ततः प्रजाः ॥ १७ ॥
ततो दुर्गाणि ताश्चक्रुर्धान्वं पार्वतमौदकम् ।
कृत्रिमं च तथा दुर्गं पुरखर्वटकादिकम् ॥ १८ ॥
गृहाणि च यथान्यायं तेषु चक्रुः पुरादिषु ।
शीतातपादिबाधानां प्रशमाय महामते ॥ १९ ॥
प्रतीकारमिमं कृत्वा शीतादेस्ताः प्रजाः पुनः ।
वार्तोपायं ततश्चक्रुर्हस्तसिद्धिं च कर्मजाम् ॥ २० ॥
व्रीहयश्च यवाश्चैव गोधूमाश्चाणवस्तिलाः ।
प्रियङ्‌गवो ह्युदाराश्च कोरदूषाः सतीनकाः ॥ २१ ॥
माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः ।
आढक्यश्चणकाश्चैव शणाः सप्तदश स्मृताः ॥ २२ ॥
इत्येता ओषधीनां तु ग्राम्यानां जातयो मुने ।
ओषध्यो यज्ञियाश्चैव ग्राम्यारण्याश्चतुर्दश ॥ २३ ॥
व्रीहयस्सयवा माषा गोधूमाश्चाणवस्तिलाः ।
प्रियङ्‌गुसप्तमा ह्येता अष्टमास्तु कुलत्थकाः ॥ २४ ॥
श्यामाकास्त्वथ नीवारा जर्तिलाः सगवेधुकाः ।
तथा वेणुयवाः प्रोक्तास्तद्वन्मर्कटका मुने ॥ २५ ॥
ग्राम्यारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्दश ।
यज्ञनिष्पत्तये यज्ञस्तथासां हेतुरुत्तमः ॥ २६ ॥
एताश्च सह यज्ञेन प्रजानां कारणं परम् ।
परावरविदः प्राज्ञास्ततो यज्ञान्वितन्वते ॥ २७ ॥
अहन्यहन्यनुष्ठानं यज्ञानां मुनिसत्तम ।
उपकारकरं पुंसां क्रियमाणाघशान्तिदम् ॥ २८ ॥
येषां तु कालसृष्टोऽसौ पापबिन्दुर्महामते ।
चेतःसु ववृधे चक्रुस्ते न यज्ञेषु मानसम् ॥ २९ ॥
वेदवादांस्तथा वेदान्यज्ञकर्मादिकं च यत् ।
तत् सर्वं निन्दमानासुर्यज्ञव्यासेधकारिणः ॥ ३० ॥
प्रवृत्तिमार्गव्युच्छित्तिकारिणो वेदनिन्दकाः ।
दुरात्मानो दुराचारा बभूवुः कुटिलाशयाः ॥ ३१ ॥
संसिद्धायां तु वार्तायां प्रजाः सृष्टा प्रजापतिः ।
मर्यादां स्थापयामास यथास्थानं यथागुणम् ॥ ३२ ॥
वर्णानामाश्रमाणां च धर्मान्धर्मभृतां वर ।
लोकांश्च सर्ववर्णानां सम्यग्धर्मानुपालिनाम् ॥ ३३ ॥
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ।
स्थानमैन्द्रं क्षत्रियाणां सङ्‌ग्रामेष्वनिवर्तिनाम् ॥ ३४ ॥
वैश्यानां मारुतं स्थानं स्वधर्मनिरतात्मनाम् ।
गान्धर्वं शूद्रजातीनां परिचर्यानुवर्तिनाम् ॥ ३५ ॥
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ।
स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥ ३६ ॥
सप्तर्षीणां तु यत्स्थानं स्मृतं तद्वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां ब्राह्मं संन्यासिनां स्मृतम् ॥ ३७ ॥
योगिनाममृतं स्थानं स्वात्मसन्तोषकारिणाम् ॥ ३८ ॥
एकान्तिनः सदा ब्रह्मध्यायिनो योगिनश्च ये ।
तेषां तु परमं स्थानं यत्तत्पश्यन्ति सूरयः ॥ ३९ ॥
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥ ४० ॥
तामिस्रमन्धतामिस्रं महारौरवरौरवौ ।
असिपत्रवनं घोरं कालसूत्रमवीचिकम् ॥ ४१ ॥
विनिन्दकानां वेदस्य यज्ञव्यासेधकारिणाम् ।
स्थानमेतत्समाख्यातं स्वधर्मत्यागिनश्च ये ॥ ४२ ॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे षष्ठोऽध्यायः



GO TOP