सत्संगधारा - विष्णुपुराण - प्रथमः अंशः - पञ्चमोऽध्यायः



॥ विष्णुपुराणम् ॥

प्रथमः अंशः

॥ पञ्चमोऽध्यायः ॥

मैत्रेय उवाचः
यथा ससर्ज देवोऽसौ देवर्षिपितृदानवान् ।
मनुष्यतिर्यग्वृक्षादीन्भूव्योमसलिलौकसः ॥ १ ॥
यद्गुणं यत्स्वभावं च यद्‌रूपं च जगद्‌द्विज ।
सर्गादौ सृष्टवान्ब्रह्मा तन्ममाचक्ष्व विस्तरात् ॥ २ ॥
पराशर उवाचः
मैत्रेय कथयाम्येतच्छ्रुणुष्व सुसमाहितः ।
यथा ससर्ज देवोऽसौ देवादीनखिलान्विभुः ॥ ३ ॥
सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा ।
अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ॥ ४ ॥
तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥ ५ ॥
पञ्चधावस्थितः सर्गो ध्यायतोऽप्रतिबोधवान् ।
बहिरन्तोऽप्रकाशश्च संवृतात्मा नगात्मकः ॥ ६ ॥
मुख्या नगा यतश्चोक्ता मुख्यसर्गस्ततस्त्वयम् ॥ ७ ॥
तं दृष्ट्‍वाऽसाधकं सर्गममन्यदपरं पुनः ॥ ८ ॥
तस्याभिध्यायतः सर्गं तिर्यक्स्रोताभ्यवर्तत ।
यस्मात्तिर्यक्प्रवृत्तिस्स तिर्यक्स्रोतास्ततः स्मृतः ॥ ९ ॥
पश्वादयस्ते विख्यातास्तमः प्राया ह्यवेदिनः ।
उत्पथग्राहिणश्चैव तेऽज्ञाने ज्ञानमानिनः ॥ १० ॥
अहङ्‌कृता अहम्माना अष्टाविंशद्वधात्मकाः ।
अन्तःप्रकाशास्ते सर्वे आवृताश्च परस्परम् ॥ ११ ॥
तमप्यसाधकं मत्वा ध्यायतोऽन्यस्ततोऽभवत् ।
ऊर्ध्वस्रोतस्तृतीयस्तु सात्त्विकोर्ध्वमवर्तत ॥ १२ ॥
ते सुखप्रीतिबहुला बहिरन्तस्त्वनावृताः ।
प्रकाशा बहिरन्तश्च ऊर्ध्वस्रोतोद्‌भवाः स्मृताः ॥ १३ ॥
तुष्ट्यात्मनस्तृतीयस्तु देवसर्गस्तु स स्मृतः ।
तस्मिन्सर्गेऽभवत्प्रीतिर्निष्पन्ने ब्रह्मणस्तथा ॥ १४ ॥
ततोऽन्यं स तदा दध्यौ साधकं सर्गमुत्तमम् ।
असाधकांस्तु ताञ्ज्ञात्वा मुख्यसर्गादिसम्भवान् ॥ १५ ॥
तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः ।
प्रादुर्भूतस्तदाव्यक्तादर्वाक्स्रोतास्तु साधकः ॥ १६ ॥
यस्मादर्वाग्व्यवर्तन्त ततोऽर्वाक्स्रोतसस्तु ते ।
ते च प्रकाशबहुलास्तमौद्रिक्ता रजोऽधिकाः ॥ १७ ॥
तस्मात्ते दुःखबहुला भूयो भूयश्च कारिणः ।
प्रकाशा बहिरन्तश्च मनुष्याः साधकास्तु ते ॥ १८ ॥
इत्येते कथिताः सर्गाः षडत्र मुनिसत्तम ।
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ॥ १९ ॥
तन्मात्राणां द्वितीयश्च भूतसर्गस्तु स स्मृतः ।
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥ २० ॥
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः ।
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥ २१ ॥
तिर्यक्स्रोतास्तु यः प्रोक्तस्तैर्यग्योन्यः स उच्यते ।
तदूर्ध्वस्रोतसां षष्ठो देवसर्गस्तु संस्मृतः ॥ २२ ॥
ततोऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ॥ २३ ॥
अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः ।
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः ॥ २४ ॥
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ।
इत्येते वै समाख्याता नव सर्गाः प्रजापतेः ॥ २५ ॥
प्राकृता वैकृताश्चैव जगतो मूलहेतवः ।
सृजतो जगदीशस्य किमन्यच्छ्रोतुमिच्छसि ॥ २६ ॥
मैत्रेय उवाचः
सङ्‍क्षेपात्कथितः सर्गो देवादीनां मुने त्वया ।
विस्तराच्छ्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम ॥ २७ ॥
पराशर उवाचः
कर्मभिर्भाविताः पूर्वैः कुशलाकुशलैस्तु ताः ।
ख्यात्या तया ह्यनिर्मुक्ताः संहारे ह्युपसंहृताः ॥ २८ ॥
स्थावरान्ताः सुराद्यास्तु प्रजा ब्रह्मंश्चतुर्विधाः ।
ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसास्तु ताः ॥ २९ ॥
ततो देवासुरपितॄन्मनुष्यांश्च चतुष्टयम् ।
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ॥ ३० ॥
युक्तात्मनस्तमोमात्रा ह्युद्रिक्ताभूत्प्रजापतेः ।
सिसृक्षोर्जघनात्पूर्वमसुरा जज्ञिरे ततः ॥ ३१ ॥
उत्ससर्ज ततस्तां तु तमोमात्रात्मिकां तनुम् ।
सा तु त्यक्ता ततस्तेन मैत्रेयाभूद्‌विभावरी ॥ ३२ ॥
सिसृक्षुरन्यदेहस्थः प्रीतिमाप ततः सुराः ।
सत्त्वोद्रिक्ताः समुद्‌भूता मुखतो ब्रह्मणो द्विज ॥ ३३ ॥
त्यक्ता सापि तनुस्तेन सत्त्वप्रायमभूद्‌दिनम् ।
ततो हि बलिनो रात्रावसुरा देवता दिवा ॥ ३४ ॥
सत्त्वमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् ।
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे ॥ ३५ ॥
उत्ससर्ज ततस्तां तु सृष्ट‍्वा ततस्तामपि स प्रभुः ।
सा चोत्सृष्टाभवत्संध्या दिननक्तान्तरस्थिता ॥ ३६ ॥
रजोमात्रात्मिकामन्यां जगृहे स तनुं ततः ।
रजोमात्रोत्कटा जाता मनुष्या द्विजसत्तम ॥ ३७ ॥
तामप्य् आशु स तत्याज तनुं सद्यः प्रजापतिः ।
ज्योत्स्ना समभवत्सापि प्राक्संध्या याऽभिधीयते ॥ ३८ ॥
ज्योत्स्नागमे तु बलिनो मनुष्याः पितरस्तथा ।
मैत्रेय संध्यासमये तस्मादेते भवन्ति वै ॥ ३९ ॥
ज्योत्स्ना रात्र्यहनी संध्या चत्वार्येतानि वै विभोः ।
ब्रह्मणस्तु शरीराणि त्रिगुणोपाश्रयाणि तु ॥ ४० ॥
रजोमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् ।
ततः क्षुद्‌ब्रह्मणो जाता जज्ञे कामस्तया ततः ॥ ४१ ॥
क्षुत्क्षामानन्धकारेऽथ सोऽसृजद्‌भगवांस्ततः ।
विरूपाः श्मश्रुला जातास्तेऽभ्यधावंस्ततः प्रभुम् ॥ ४२ ॥
मैवं भो रक्ष्यतामेष यैरुक्तं राक्षसास्तु ते ।
ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु जक्षणात् ॥ ४३ ॥
अप्रियेण तु तान्दृष्ट्‍वा केशाः शीर्यन्त वेधसः ।
हीनाश्च शिरसो भूयः समारोहन्त तच्छिरः ॥ ४४ ॥
सर्पणात्तेऽभवन् सर्पा हीनत्वादहयः स्मृताः ।
ततः क्रुद्धो जगत्स्रष्टा क्रोधात्मानो विनिर्ममे ।
वर्णेन कपिशेनोग्रभूतास्ते पिशिताशनाः ॥ ४५ ॥
गायतोऽङ्‌गात्समुत्पन्ना गन्धर्वास्तस्य तत्क्षणात् ।
पिबन्तो जज्ञिरे वाचं गन्धर्वास्तेन ते द्विज ॥ ४६ ॥
एतानि सृष्ट्‍वा भगवान् ब्रह्मा तच्छक्तिचोदितः ।
ततः स्वच्छन्दतोऽन्यानि वयांसि वयसोऽसृजत् ॥ ४७ ॥
अवयो वक्षसश्चक्रे मुखतोऽजाः स सृष्टवान् ।
सृष्टवानुदराद्‌गाश्च पार्श्वाभ्यां च प्रजापतिः ॥ ४८ ॥
पद्‌भ्यां चाश्वान्समातङ्‌गान्‍रासभान्गवयान्मृगान् ।
उष्ट्रानश्वतरांश्चैव न्यङ्‌कूनन्याश्च जातयः ॥ ४९ ॥
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ।
त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ द्विजोत्तम ।
सृष्ट्‍वा पश्वोषधीः सम्यग्युयोज स तदाध्वरे ॥ ५० ॥
गौरजः पुरुषो मेषश्चाश्वाश्वतरगर्दभाः ।
एतान्ग्राम्यान्पशूनाहुरारण्यांश्च निबोध मे ॥ ५१ ॥
श्वापदो द्विखुरो हस्ती वानरः पक्षिपञ्चमाः ।
औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ॥ ५२ ॥
गायत्रं च ऋचश्चैव त्रिवृत्साम रथन्तरम् ।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ ५३ ॥
यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा ।
बृहत् साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥ ५४ ॥
सामानि जगतीछन्दः स्तोमं सप्तदशं तथा ।
वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ॥ ५५ ॥
एकविंशमथर्वाणमाप्तोर्यामाणमेव च ।
अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात् ॥ ५६ ॥
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ।
देवासुरपितॄन् सृष्ट्‍वा मनुष्यांश्च प्रजापतिः ॥ ५७ ॥
ततः पुनः ससर्जादौ सङ्‍कल्पस्य पितामहः ।
यक्षान् पिशाचान्गन्धर्वान् तथैवाप्सरसां गणान् ॥ ५८ ॥
नरकिंनररक्षांसि वयःपशुमृगोरगान् ।
अव्ययं च व्ययं चैव यदिदं स्थाणुजङ्‌गमम् ॥ ५९ ॥
तत् ससर्ज तदा ब्रह्मा भगवानादिकृत्प्रभुः ।
तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे ।
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ६० ॥
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
तद्‌भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ६१ ॥
इन्द्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः ।
नानात्वं विनियोगं च धातैवं व्यसृजत्स्वयम् ॥ ६२ ॥
नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ देवादीनां चकार सः ॥ ६३ ॥
ऋषीणां नामधेयानि यथा वेदश्रुतानि वै ।
यथा नियोगयोग्यानि सर्वेषामपि सोऽकरोत् ॥ ६४ ॥
यथर्तुष्वृतुलिङ्‌गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ६५ ॥
करोत्येवंविधां सृष्टिं कल्पादौ स पुनः पुनः ।
सिसृक्षाशक्तियुक्तोऽसौ सृज्यशक्तिप्रचोदितः ॥ ६६ ॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे पञ्चमोऽध्यायः



GO TOP