|
॥ विष्णुपुराणम् ॥ प्रथमः अंशः ॥ चतुर्थोऽध्यायः ॥
मैत्रेय उवाचः
ब्रह्मा नारायणाख्योऽसौ कल्पादौ भगवान् यथा । ससर्ज सर्वभूतानि तदाचक्ष्व महामुने ॥ १ ॥ पराशर उवाचः प्रजाः ससर्ज भगवान्ब्रह्मा नारायणात्मकः । प्रजापतिपतिर्देवो यथा तन्मे निशामय ॥ २ ॥ अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः । सत्त्वोद्रिक्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत ॥ ३ ॥ नारायणः परोऽचिन्त्यः परेषामपि स प्रभुः । ब्रह्मस्वरूपी भगवाननादिः सर्वसंभवः ॥ ४ ॥ इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति । ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ॥ ५ ॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ ६ ॥ तोयान्तःस्थां महीं ज्ञात्वा जगत्येकार्णवे प्रभुः । अनुमानात्तदुद्धारं कर्तुकामः प्रजापतिः ॥ ७ ॥ अकरोत्स्वतनूमन्यां कल्पादिषु यथा पुरा । मत्स्यकूर्मादिकां तद्वद्वाराहं वपुरास्थितः ॥ ८ ॥ वेदयज्ञमयं रूपमशेषजगतः स्थितौ । स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः ॥ ९ ॥ जनलोकगतैस्सिद्धैस्सनकाद्यैरभिष्टुतः । प्रविवेश तदा तोयमात्माधारो धराधरः ॥ १० ॥ निरीक्ष्य तं तदा देवी पातालतलमागतम् । तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुंधरा ॥ ११ ॥ पृथिव्युवाचः नमस्ते पुण्डरीकाक्ष शङ्खचक्रगदाधर । मामुद्धरास्मादद्य त्वं त्वत्तोऽहं पूर्वमुत्थिता ॥ १२ ॥ त्वयाहमुद्धृता पूर्वं त्वन्मयाहं जनार्दन । तथान्यानि च भूतानि गगनादीन्यशेषतः ॥ १३ ॥ नमस्ते परमात्मात्मन्पुरुषात्मन्नमोऽस्तु ते । प्रधानव्यक्तभूताय कालभूताय ते नमः ॥ १४ ॥ त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत् । सर्गादिषु प्रभो ब्रह्मविष्णुरुद्रात्मरूपधृक् ॥ १५ ॥ सम्भक्षयित्वा सकलं जगत्येकार्णवीकृते । शेषे त्वमेव गोविन्द चिन्त्यमानो मनीषिभिः ॥ १६ ॥ भवतो यत् परं रूपं तन्न जानाति कश्चन । अवतारेषु यद्रूपं तदर्चन्ति दिवौकसः ॥ १७ ॥ त्वामाराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः । वासुदेवमनाराध्य को मोक्षं समवाप्स्यति ॥ १८ ॥ यत्किञ्चिन्मनसा ग्राह्यं यद्ग्राह्यं चक्षुरादिभिः । बुद्ध्या च यत्परिच्छेद्यं तद्रूपमखिलं तव ॥ १९ ॥ त्वन्मयाहं त्वदाधारा त्वत्सृष्टा त्वामुपाश्रिता । माधवीमिति लोकोऽयमभिधत्ते ततो हि माम् ॥ २० ॥ जयाखिलज्ञानमय जय स्थूलमयाव्यय । जयाऽनन्त जयाव्यक्त जय व्यक्तमय प्रभो ॥ २१ ॥ परापरात्मन्विश्वात्मञ्जय यज्ञपतेऽनघ । त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारस्त्वमग्नयः ॥ २२ ॥ त्वं वेदास्त्वं तदङ्गानि त्वं यज्ञपुरुषो हरे । सूर्यादयो ग्रहास्तारा नक्षत्राण्यखिलं जगत् ॥ २३ ॥ मूर्तामूर्तमदृश्यं च दृश्यं च पुरुषोत्तम । यच्चोक्तं यच्च नैवोक्तं मयात्र परमेश्वर । तत्सर्वं त्वं नमस्तुभ्यं भूयो भूयो नमो नमः ॥ २४ ॥ पराशर उवाचः एवं संस्तूयमानस्तु पृथिव्या पृथिवीधरः । सामस्वरध्वनिः श्रीमाञ्जगर्ज परिघर्घरम् ॥ २५ ॥ ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः । रसातलादुत्पलपत्रसन्निभः समुत्थितो नील इवाचलो महान् ॥ २६ ॥ उत्तिष्ठता तेन मुखानिलाहतं तत्सम्भवाम्भो जनलोकसंश्रयान् । प्रक्षालयामास हि तान्महाद्युतीन् सनन्दनादीनपकल्मषान् मुनीन् ॥ २७ ॥ प्रयान्ति तोयानि खुराग्रविक्षत- रसातलेऽधः कृतशब्दसंततम् । श्वासानिलास्ताः परितः प्रयान्ति सिद्धा जने ये नियतं वसन्ति ॥ २८ ॥ उत्तिष्ठतस्तस्य जलार्द्रकुक्षे- र्महावराहस्य महीं विगृह्य । विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयः स्तुवन्ति ॥ २९ ॥ तं तुष्टुवुस्तोषपरीतचेतसो लोके जने ये निवसन्ति योगिनः । सनन्दनाद्या ह्यतिनम्रकन्धरा धराधरं धीरतरोद्धतेक्षणम् ॥ ३० ॥ जयेश्वराणां परमेश केशव प्रभो गदाशङ्खधरासिचक्रधृक् । प्रसूतिनाशस्थितिहेतुरीश्वर- स्त्वमेव नान्यत्परमं च यत्पदम् ॥ ३१ ॥ पादेषु वेदास्तव यूपदंष्ट्र दन्तेषु यज्ञाश्चितयश्च वक्त्रे । हुताशजिह्वोऽसि तनूरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव ॥ ३२ ॥ विलोचने रात्र्यहनी महात्म- न्सर्वाश्रयं ब्रह्म परं शिरस्ते । सूक्तान्यशेषाणि सटाकलापो घ्राणं समस्तानि हवींषि देव ॥ ३३ ॥ स्रुक्तुण्ड सामस्वरधीरनाद प्राग्वंशकायाखिलसत्रसन्धे । पूर्तेष्टधर्मश्रवणोऽसि देव सनातनात्मन्भगवन्प्रसीद ॥ ३४ ॥ पदक्रमाक्रान्तभुवं भवन्त- मादिस्थितं चाक्षर विश्वमूर्ते । विश्वस्य विद्मः परमेश्वरोऽसि प्रसीद नाथोऽसि चराचरस्य ॥ ३५ ॥ दंष्ट्राग्रविन्यस्तमशेषमेतद्- भूमण्डलं नाथ विभाव्यते ते । विगाहतः पद्मवनं विलग्नं सरोजिनीपत्रमिवोढपङ्कम् ॥ ३६ ॥ द्यावापृथिव्योरतुलप्रभाव यदन्तरं तद्वपुषा तवैव । व्याप्तं जगद्व्याप्तिसमर्थदीप्ते हिताय विश्वस्य विभो भव त्वम् ॥ ३७ ॥ परमार्थस्त्वमेवैको नान्योऽस्ति जगतः पते । तवैष महिमा येन व्याप्तमेतच्चराचरम् ॥ ३८ ॥ यदेतद् दृश्यते मूर्तमेतज्ज्ञानात्मनस्तव । भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपमयोगिनः ॥ ३९ ॥ ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसम्प्लवे ॥ ४० ॥ ये तु ज्ञानविदः शुद्धचेतसस्तेऽखिलं जगत् । ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर ॥ ४१ ॥ प्रसीद सर्वसर्वात्मन्वासाय जगतामिमाम् । उद्धरोर्वीममेयात्मञ्छन्नो देह्यब्जलोचन ॥ ४२ ॥ सत्त्वोद्रिक्तोऽसि भगवन् गोविन्द पृथिवीमिमाम् । समुद्धर भवायेश शं नो देह्यब्जलोचन ॥ ४३ ॥ सर्गप्रवृत्तिर्भवतो जगतामुपकारिणी । भवत्वेषा नमस्तेऽस्तु शन्नो देह्यब्जलोचन ॥ ४४ ॥ पराशर उवाचः एवं संस्तूयमानस्तु परमात्मा महीधरः । उज्जहार क्षितिं क्षिप्रं न्यस्तवांश्च महार्णवे ॥ ४५ ॥ तस्योपरि जलौघस्य महती नौरिव स्थिता । विततत्वात्तु देहस्य न मही याति सम्प्लवम् ॥ ४६ ॥ ततः क्षितिं समां कृत्वा पृथिव्यां सोऽचिनोद्गिरीन् । यथाविभागं भगवाननादिः सर्वसम्भवः ॥ ४७ ॥ प्राक्सर्गदग्धानखिलान्पर्वतान्पृथिवीतले । अमोघेन प्रभावेन ससर्जामोघवाञ्छितः ॥ ४८ ॥ भूविभागं ततः कृत्वा सप्तद्वीपान्यथातथम् । भूराद्यांश्चतुरो लोकान्पूर्ववत्समकल्पयत् ॥ ४९ ॥ ब्रह्मरूपधरो देवस्ततोऽसौ रजसा वृतः । चकार सृष्टिं भगवांश्चतुर्वक्त्रधरो हरिः ॥ ५० ॥ निमित्तमात्रमेवाऽसौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥ ५१ ॥ निमित्तमात्रं मुक्त्वैवं नान्यत्किञ्चिदपेक्ष्यते । नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् ॥ ५२ ॥ इति श्रीविष्णुपुराणे प्रथमेंऽशे चतुर्थोऽध्यायः |