सत्संगधारा - विष्णुपुराण - प्रथमः अंशः - तृतीयोऽध्यायः



॥ विष्णुपुराणम् ॥

प्रथमः अंशः

॥ तृतीयोऽध्यायः ॥

मैत्रेय उवाचः
निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः ।
कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते ॥ १ ॥
पराशर उवाचः
शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः ।
यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ।
भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ॥ २ ॥
तन् निबोध यथा सर्गे भगवान्सम्प्रवर्तते ।
नारायणाख्यो भगवान्ब्रह्मा लोकपितामहः ॥ ३ ॥
उत्पन्नः प्रोच्यते विद्वन्नित्यमेवोपचारतः ॥ ४ ॥
निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् ।
तत् पराख्यं तदर्द्धं च परार्द्धमभिधीयते ॥ ५ ॥
कालस्वरूपं विष्णोश्च यन्मयोक्तं तवानघ ।
तेन तस्य निबोध त्वं परिमाणोपपादनम् ॥ ६ ॥
अन्येषां चैव जन्तूनां चराणामचराश्च ये ।
भूभूभृत्सागरादीनामशेषाणां च सत्तम ॥ ७ ॥
काष्ठा पञ्चदशाख्याता निमेषा मुनिसत्तम ।
काष्ठा त्रिंशत्कला त्रिंशत्कला मौहूर्तिको विधिः ॥ ८ ॥
तावत्संख्यैरहोरात्रं मुहूर्तैर्मानुषं स्मृतम् ।
अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ॥ ९ ॥
तैः षड्भिरयनं वर्षं द्वेऽयने दक्षिणोत्तरे ।
अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ॥ १० ॥
दिव्यैर्वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितम् ।
चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे ॥ ११ ॥
चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् ।
दिव्याब्दानां सहस्राणि युगेष्वाहुः पुराविदः ॥ १२ ॥
तत्प्रमाणैः शतैः संध्या पूर्वा तत्राभिधीयते ।
संध्यांशकश्च तत्तुल्यो युगस्यानन्तरो हि सः ॥ १३ ॥
संध्यासंध्यांशयोरन्तर्यः कालो मुनिसत्तम ।
युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञितः ॥ १४ ॥
कृतं त्रेता द्वापरश्च कलिश्चैव चतुर्युगम् ।
प्रोच्यते तत्सहस्रं च ब्रह्मणो दिवसं मुने ॥ १५ ॥
ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्दश ।
भवन्ति परिमाणं च तेषां कालकृतं शृणु ॥ १६ ॥
सप्तर्षयः सुराः शक्रो मनुस्तत्सूनवो नृपाः ।
एककाले हि सृज्यन्ते संह्रियन्ते च पूर्ववत् ॥ १७ ॥
चतुर्युगाणां संख्याता साधिका ह्येकसप्ततिः ।
मन्वन्तरं मनोः कालः सुरादीनां च सत्तम ॥ १८ ॥
अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतम् ।
द्वापञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु ॥ १९ ॥
त्रिंशत्कोट्यस्तु सम्पूर्णाः संख्याताः संख्यया द्विज ।
सप्तषष्टिस्तथान्यानि नियुतानि महामुने ॥ २० ॥
विंशतिश्च सहस्राणि कालोऽयमधिकं विना ।
मन्वन्तरस्य सङ्‌ख्येयं मानुषैर्वत्सरैर्द्विज ॥ २१ ॥
चतुर्दशगुणो ह्येष कालो ब्राह्ममहः स्मृतम् ।
ब्राह्मो नैमित्तिको नाम तस्यान्ते प्रतिसञ्चरः ॥ २२ ॥
तदा हि दह्यते सर्वं त्रैलोक्यं भूर्भुवादिकम् ।
जनं प्रयान्ति तापार्ता महर्लोकनिवासिनः ॥ २३ ॥
एकार्णवे तु त्रैलोक्ये ब्रह्मा नारायणात्मकः ।
भोगिशय्यां गतः शेते त्रैलोक्यग्रासबृंहितः ॥ २४ ॥
जनस्थैर्योगिभिर्देवश्चिन्त्यमानोऽब्जसम्भवः ।
तत्प्रमाणां हि तां रात्रिं तदन्ते सृजते पुनः ॥ २५ ॥
एवं तु ब्रह्मणो वर्षमेवं वर्षशतं च यत् ।
शतं हि तस्य वर्षाणां परमायुर्महात्मनः ॥ २६ ॥
एकमस्य व्यतीतं तु परार्द्धं ब्रह्मणोऽनघ ।
तस्यान्तेऽभून्महाकल्पः पाद्म इत्यभिविश्रुतः ॥ २७ ॥
द्वितीयस्य परार्द्धस्य वर्तमानस्य वै द्विज ।
वाराह इति कल्पोऽयं प्रथमः परिकीर्तितः ॥ २८ ॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे तृतीयोऽध्यायः



GO TOP