॥ विष्णुपुराणम् ॥

प्रथमः अंशः

॥ द्वितीयोऽध्यायः ॥

पराशर उवाच
अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ १ ॥
नमो हिरण्यगर्भाय हरये शंकराय च ।
वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे ॥ २ ॥
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे ॥ ३ ॥
सर्गस्थितिविनाशानां जगतो यो जगन्मयः ।
मूलभूतो नमस्तस्मै विष्णवे परमात्मने ॥ ४ ॥
आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् ।
प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ ५ ॥
ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः ।
तमेवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम् ॥ ६ ॥
विष्णुं ग्रसिष्णुं विश्वस्य स्थितिसर्गे तथा प्रभुम् ।
प्रणम्य जगताम् ईशमजमक्षयमव्ययम् ॥ ७ ॥
कथयामि यथापूर्वं दक्षाद्यैर्मुनिसत्तमैः ।
पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः ॥ ८ ॥
तैश्चोक्तं पुरुकुत्साय भूभुजे नर्मदातटे ।
सारस्वताय तेनापि मम सारस्वतेन च ॥ ९ ॥
परः पराणां परमः परमात्मात्मसंस्थितः ।
रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥ १० ॥
अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः ।
वर्जितः शक्यते वक्तुं यः सदास्तीति केवलम् ॥ ११ ॥
सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ।
ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥ १२ ॥
तद्‌ब्रह्म परमं नित्यमजमक्षयमव्ययम् ।
एकस्वरूपं च सदा हेयाभावाच्च निर्मलम् ॥ १३ ॥
तदेव सर्वमेवैतद्‌व्यक्ताव्यक्तस्वरूपवत् ।
तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥ १४ ॥
परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज ।
व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथापरम् ॥ १५ ॥
प्रधानपुरुषव्यक्तकालानां परमं हि यत् ।
पश्यन्ति सूरयः शुद्धं तद्‌विष्णोः परमं पदम् ॥ १६ ॥
प्रधानपुरुषव्यक्तकालास्तु प्रविभागशः ।
रूपाणि स्थितिसर्गान्तव्यक्तिसद्‌भावहेतवः ॥ १७ ॥
व्यक्तं विष्णुस्तथाव्यक्तं पुरुषः काल एव च ।
क्री?अतो बालकस्येव चेष्टां तस्य निशामय ॥ १८ ॥
अव्यक्तं कारणं यत्तत्प्रधानमृषिसत्तमैः ।
प्रोच्यते प्रकृतिः सूक्ष्मा नित्या सदसदात्मिका ॥ १९ ॥
अक्षयं नान्यदाधारममेयमजरं ध्रुवम् ।
शब्दस्पर्शविहीनं तद्‌रूपादिभिरसंहितम् ॥ २० ॥
त्रिगुणं तज्जगद्योनिरनादिप्रभवाव्ययम् ।
तेनाग्रे सर्वमेवासीद्‌व्याप्तं वै प्रलयादनु ॥ २१ ॥
वेदवादविदो विद्वन् नियता ब्रह्मवादिनः ।
पठन्ति चैतमेवार्थं प्रधानप्रतिपादकम् ॥ २२ ॥
नाहो न रात्रिर्न नभो न भूमि-
     र्नासीत्तमोज्योतिरभूच्च चान्यत् ।
श्रोत्रादिबुद्ध्यानुपलभ्यमेकं
     प्राधानिकं ब्रह्म पुमांस्तदासीत् ॥ २३ ॥
विष्णोः स्वरूपात्परतो हि ते द्वे
     रूपे प्रधानं पुरुषश्च विप्र ।
तस्यैव तेऽन्येन धृते वियुक्ते
     रूपान्तरं तद्‌द्विज कालसंज्ञम् ॥ २४ ॥
प्रकृतौ च स्थितं व्यक्तमतीतप्रलये तु यत् ।
तस्मात् प्राकृतसंज्ञोऽयमुच्यते प्रतिसञ्चरः ॥ २५ ॥
अनादिर्भगवान्कालो नान्तोऽस्य द्विज विद्यते ।
अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ॥ २६ ॥
गुणसाम्ये ततस्तस्मिन्पृथक्पुंसि व्यवस्थिते ।
कालस्वरूपं तद्‌विष्णोर्मैत्रेय परिवर्तते ॥ २७ ॥
ततस्तत् परमं ब्रह्म परमात्मा जगन्मयः ।
सर्वगः सर्वभूतेशः सर्वात्मा परमेश्वरः ॥ २८ ॥
प्रधानपुरुषौ चापि प्रविश्यात्मेच्छया हरिः ।
क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ ॥ २९ ॥
यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते ।
मनसो नोपकर्तृत्वात्तथासौ परमेश्वरः ॥ ३० ॥
स एव क्षोभको ब्रह्मन् क्षोभ्यश्च पुरुषोत्तमः ।
स सङ्‌कोचविकासाभ्यां प्रधानत्वेऽपि च स्थितः ॥ ३१ ॥
विकासाणुस्वरूपैश्च ब्रह्मरूपादिभिस्तथा ।
व्यक्तस्वरूपश्च तथा विष्णुः सर्वेश्वरेश्वरः ॥ ३२ ॥
गुणसाम्यात्ततस्तस्मात्क्षेत्रज्ञाधिष्ठितान्मुने ।
गुणव्यञ्जनसंभूतिः सर्गकाले द्विजोत्तम ॥ ३३ ॥
प्रधानतत्त्वमुद्‌भूतं महान्तं तत्समावृणोत् ।
सात्त्विको राजसश्चैव तामसश्च त्रिधा महान् ॥ ३४ ॥
प्रधानतत्त्वेन समं त्वचा बीजमिवावृतम् ।
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ॥ ३५ ॥
त्रिविधोऽयमहङ्‌कारो महत्तत्त्वादजायत ।
भूतेन्द्रियाणां हेतुस्स त्रिगुणत्वान्महामुने ।
यथा प्रधानेन महान्महता स तथावृतः ॥ ३६ ॥
भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः ।
ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ॥ ३७ ॥
शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् ।
आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ॥ ३८ ॥
बलवानभवद्‌वायुस्तस्य स्पर्शो गुणो मतः ।
आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत् ॥ ३९ ॥
ततो वायुर्विकुर्वाणो रूपमात्रं ससर्ज ह ।
ज्योतिर् उत्पद्यते वायोस्तद्‌रूपगुणमुच्यते ॥ ४० ॥
स्पर्शमात्रं तु वै वायू रूपमात्रं समावृणोत् ।
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ॥ ४१ ॥
संभवन्ति ततोऽम्भांसि रसाधाराणि तानि च ।
रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत् ॥ ४२ ॥
विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे ।
संघातो जायते तस्मात्तस्य गन्धो गुणो मतः ॥ ४३ ॥
तस्मिंस्तस्मिंस्तु तन्मात्रा तेन तन्मात्रता स्मृता ॥ ४४ ॥
तन्मात्राण्यविशेषाणि अविशेषास्ततो हि ते ॥ ४५ ॥
न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः ।
भूततन्मात्रसर्गोऽयमहङ्‌कारात्तु तामसात् ॥ ४६ ॥
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ।
एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥ ४७ ॥
त्वक् चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पञ्चमम् ।
शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि वै द्विज ॥ ४८ ॥
पायूपस्थौ करौ पादौ वाक् च मैत्रेय पञ्चमी ।
विसर्गशिल्पगत्युक्ति कर्म तेषां च कथ्यते ॥ ४९ ॥
आकाशवायुतेजांसि सलिलं पृथिवी तथा ।
शब्दादिभिर्गुणैर्ब्रह्मन्संयुक्तान्युत्तरोत्तरैः ॥ ५० ॥
शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ॥ ५१ ॥
नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना ।
नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य कृत्स्नशः ॥ ५२ ॥
समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः ।
एकसंघातलक्ष्याश्च सम्प्राप्यैक्यमशेषतः ॥ ५३ ॥
पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ।
महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ ५४ ॥
तत् क्रमेण विवृद्धं तु जलबुद्बुदवत् समम् ।
भूतेभ्योऽण्डं महाबुद्धे बृहत्तदुदकेशयम् ।
प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम् ॥ ५५ ॥
तत्राव्यक्तस्वरूपोऽसौ व्यक्तरूपी जगत्पतिः ।
विष्णुर्ब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः ॥ ५६ ॥
मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः ।
गर्भोदकं समुद्राश्च तस्यासन्सुमहात्मनः ॥ ५७ ॥
साद्रिद्वीपसमुद्राश्च सज्योतिर् लोकसङ्‌ग्रहः ।
तस्मिन्नण्डेऽभवद्‌विप्र सदेवासुरमानुषः ॥ ५८ ॥
वारिवह्न्यनिलाकाशैस्ततो भूतादिना बहिः ।
वृतं दशगुणैरण्डं भूतादिर्महता तथा ॥ ५९ ॥
अव्यक्तेनावृतो ब्रह्मंस्तैः सर्वैः सहितो महान् ।
एभिरावरणैरण्डं सप्तभिः प्राकृतैर् वृतम् ।
नालिकेरफलस्यान्तर्बीजं बाह्यदलैरिव ॥ ६० ॥
जुषन् रजोगुणं तत्र स्वयं विश्वेश्वरो हरिः ।
ब्रह्मा भूत्वास्य जगतो विसृष्टौ सम्प्रवर्तते ॥ ६१ ॥
सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना ।
सत्त्वभृद्‌भगवान्विष्णुरप्रमेयपराक्रमः ॥ ६२ ॥
तमौद्रेकी च कल्पान्ते रुद्ररूपी जनार्दनः ।
मैत्रेयाखिलभूतानि भक्षयत्यतिदारुणः ॥ ६३ ॥
संभक्षयित्वा भूतानि जगत्येकार्णवीकृते ।
नागपर्यङ्‌कशयने शेतेऽसौ परमेश्वरः ॥ ६४ ॥
प्रबुद्धश्च पुनः सृष्टिं करोति ब्रह्मरूपधृक् ॥ ६५ ॥
सृष्टिस्थित्यन्तकरणाद्‌ब्रह्मविष्णुशिवात्मिकाम् ।
स संज्ञां याति भगवानेक एव जनार्दनः ॥ ६६ ॥
स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च ।
उपसंहरते चान्ते संहर्ता च स्वयं प्रभुः ॥ ६७ ॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज्जगत् ॥ ६८ ॥
स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः ।
सर्गादिकं तु तस्यैव भूतस्थमुपकारकम् ॥ ६९ ॥
स एव सृज्यः स च सर्गकर्ता
     स एव पात्यत्ति च पाल्यते च ।
ब्रह्माद्यवस्थाभिरशेषमूर्ति-
     र्विष्णुर्वरिष्ठो वरदो वरेण्यः ॥ ७० ॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे द्वितीयोऽध्यायः



GO TOP