॥ विष्णुपुराणम् ॥

प्रथमः अंशः

॥ प्रथमोऽध्यायः ॥

ॐ पराशरं मुनिवरं कृतपूर्वाह्णिकक्रियम् ।
मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च ॥ १ ॥
त्वत्तो हि वेदाध्ययनमधीतमखिलं गुरो ।
धर्मशास्त्राणि सर्वाणि तथाङ्‌गानि यथाक्रमम् ॥ २ ॥
त्वत्प्रसादान्मुनिश्रेष्ठ मामन्ये नाकृतश्रमम् ।
वक्ष्यन्ति सर्वशास्त्रेषु प्रायशो येऽपि विद्विषः ॥ ३ ॥
सोऽहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् ।
बभूव भूयश्च यथा महाभाग भविष्यति ॥ ४ ॥
यन्मयं च जगद्‌ब्रह्मन्यतश्चैतच्चराचरम् ।
लीनमासीद्यथा यत्र लयमेष्यति यत्र च ॥ ५ ॥
यत्प्रमाणानि भूतानि देवादीनां च संभवम् ।
समुद्रपर्वतानां च संस्थानं च यथा भुवः ॥ ६ ॥
सूर्यादीनां च संस्थानं प्रमाणं मुनिसत्तम ।
देवादीनां तथा वंशान्मनून्मन्वन्तराणि च ॥ ७ ॥
कल्पान् कल्पविकल्पांश्च चतुर्युगविकल्पितान् ।
कल्पान्तस्य स्वरूपं च युगधर्मांश्च कृत्स्नशः ॥ ८ ॥
देवर्षिपार्थिवानां च चरितं यन्महामुने ।
वेदशाखाप्रणयनं यथावद्‌व्यासकर्तृकम् ॥ ९ ॥
धर्मांश्च ब्राह्मणादीनां तथा चाश्रमवासिनाम् ।
श्रोतुमिच्छाम्यहं सर्वं त्वत्तो वासिष्ठनन्दन ॥ १० ॥
ब्रह्मन्प्रसादप्रवणं कुरुष्व मयि मानसम् ।
येनाहमेतज्जानीयां त्वत्प्रसादान्महामुने ॥ ११ ॥
पराशर उवाचः
साधु मैत्रेय धर्मज्ञ स्मारितोऽस्मि पुरातनम् ।
पितुः पिता मे भगवान् वसिष्ठो यदुवाच ह ॥ १२ ॥
विश्वामित्रप्रयुक्तेन रक्षसा भक्षितः मया ।
श्रुतस्तातस्ततः क्रोधो मैत्रेयाभून्ममातुलः ॥ १३ ॥
ततोऽहं रक्षसां सत्रं विनाशाय समारभम् ।
भस्मीकृताश्च शतशस्तस्मिन्सत्रे निशाचराः ॥ १४ ॥
ततः सङ्‍क्षीयमाणेषु तेषु रक्षस्स्वशेषतः ।
मामुवाच महाभागो वसिष्ठो मत्पितामहः ॥ १५ ॥
अलमत्यन्तकोपेन तात मन्युमिमं जहि ।
राक्षसा नापराध्यन्ते पितुस्ते विहितं तथा ॥ १६ ॥
मूढानामेष भवति क्रोधो ज्ञानवतां कुतः ।
हन्यते तात कः केन यतः स्वकृतभुक्पुमान् ॥ १७ ॥
सञ्चितस्यापि महता वत्स क्लेशेन मानवैः ।
यशसस्तपसश्चैव क्रोधो नाशकरः परः ॥ १८ ॥
स्वर्गापवर्गव्यासेधकारणं परमर्षयः ।
वर्जयन्ति सदा क्रोधं तात मा तद्वशो भव ॥ १९ ॥
अलं निशाचरैर्दग्धैर्दीनैरनपराधिभिः ।
सत्रं ते विरमत्वेतत्क्षमासारा हि साधवः ॥ २० ॥
एवं तातेन तेनाहमनुनीतो महात्मना ।
उपसंहृतवान्सत्रं सद्यस्तद्वाक्यगौरवात् ॥ २१ ॥
ततः प्रीतः स भगवान्वसिष्ठो मुनिसत्तमः ।
संप्राप्तश्च तदा तत्र पुलस्त्यो ब्रह्मणः सुतः ॥ २२ ॥
पितामहेन दत्तार्घ्यः कृतासनपरिग्रहः ।
मामुवाच महाभागो मैत्रेय पुलहाग्रजः ॥ २३ ॥
पुलस्त्य उवाचः
वैरे महति यद्‌वाक्याद्‌गुरोरद्याश्रिता क्षमा ।
त्वया तस्मात् समस्तानि भवाञ्छास्त्राणि वेत्स्यति ॥ २४ ॥
संततेर्न ममोच्छेदः क्रुद्धेनापि यतः कृतः ।
त्वया तस्मान्महाभाग ददाम्यन्यं महावरम् ॥ २५ ॥
पुराणसंहिताकर्ता भवान्वत्स भविष्यति ।
देवतापारमार्थ्यं च यथावद्‌वेत्स्यते भवान् ॥ २६ ॥
प्रवृत्ते च निवृत्ते च कर्मण्यस्तमला मतिः ।
मत्प्रसादादसंदिग्धा तव वत्स भविष्यति ॥ २७ ॥
ततश्च प्राह भगवान्वसिष्ठो मे पितामहः ।
पुलस्त्येन यदुक्तं ते सर्वमेतद्‌भविष्यति ॥ २८ ॥
इति पूर्वं वसिष्ठेन पुलस्त्येन च धीमता ।
यद्‌उक्तं तत् स्मृतिं यातं त्वत्प्रश्नादखिलं मम ॥ २९ ॥
सोऽहं वदाम्यशेषं ते मैत्रेय परिपृच्छते ।
पुराणसंहितां सम्यक् तां निबोध यथातथम् ॥ ३० ॥
विष्णोः सकाशादुद्भूतं जगत् तत्रैव च स्थितम् ।
स्थितिसंयमकर्तासौ जगतोऽस्य जगच् च सः ॥ ३१ ॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे प्रथमोऽध्यायः




GO TOP