शुक्ल यजुर्वेदः - एकोनचत्वारिंशोऽध्यायः



स्वाहा॑ प्रा॒णेभ्यः॒ साधि॑पतिकेभ्यः । पृ॒थिव्यै स्वा॒हाग्नये॒ स्वाहा॒न्तरि॑क्षाय॒ स्वाहा॑ वा॒यवे॒ स्वाहा॑ । दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ ॥ १ ॥ दि॒ग्भ्यः स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ नक्ष॑त्रेभ्यः॒ स्वाहा॒द्‍भ्यः स्वाहा॒ वरु॑णाय॒ स्वाहा॑ । नाभ्यै॒ स्वाहा॑ पू॒ताय॒ स्वाहा॑ ॥ २ ॥ वा॒चे स्वाहा॑ प्रा॒णाय॒ स्वाहा॑ प्रा॒णाय॒ स्वाहा॑ । चक्षु॑षे॒ स्वाहा॒ चक्षु॑षे॒ स्वाहा॒ । श्रोत्रा॑य॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा॑ ॥ ३ ॥ मन॑सः॒ काम॒माकू॑तिं वा॒चः स॒त्यम॑शीय । प॒शूनाँ रू॒पमन्न॑स्य॒ रसो॒ यशः॒ श्रीः श्र॑यतां॒ मयि॒ स्वाहा॑ ॥ ४ ॥ प्र॒जाप॑तिः सम्भ्रि॒यमा॑णः स॒म्राट् सम्भृ॑तो वैश्वदे॒वः सँ॑स॒न्नो घ॒र्मः प्रवृ॑क्त॒तेज॒ऽ उद्य॑तऽ आश्वि॒नः पय॑स्यानी॒यमा॑ने पौ॒ष्णो वि॑ष्य॒न्दमा॑ने मारु॒तः क्लथ॑न् । मै॒त्रः शर॑सि सन्ता॒य्यमा॑ने वाय॒व्यो॒ ह्रि॒यमा॑णऽ आग्ने॒यो हू॒यमा॑नो॒ वाग्घु॒तः ॥ ५ ॥ स॒वि॒ता प्र॑थ॒मेऽह॑न्न॒ग्निर्‍द्वि॒तीये॑ वा॒युस्तृ॒तीय॑ऽ आदि॒त्यश्च॑तु॒र्थे च॒न्द्रमाः॑ पञ्च॒मऽ ऋ॒तुः ष॒ष्ठे म॒रुतः॑ सप्त॒मे बृह॒स्पति॑रष्ट॒मे । मि॒त्रो न॑वमे॒ वरु॑णो दश॒मऽ इन्द्र॑ऽ एकाद॒शे विश्वे॑ दे॒वा द्वा॑द॒शे ॥ ६ ॥ उ॒ग्रश्च॑ भी॒मश्च॒ ध्वा॒न्तश्च॒ धु॒नि॑श्च । सा॒स॒ह्वाँश्चा॑भियु॒ग्वा च॑ वि॒क्षिपः॒ स्वाहा॑ ॥ ७ ॥ अ॒ग्निँ हृद॑येना॒शनिँ हृदया॒ग्रेण॑ पशु॒पतिं॑ कृत्स्न॒हृद॑येन भ॒वं य॒क्ना । श॒र्वं मत॑स्नाभ्या॒मीशा॑नं म॒न्युना॑ महादे॒वम॑न्तः पर्श॒व्येनो॒ग्रं दे॒वं व॑नि॒ष्ठुना॑ वसिष्ठ॒हनुः॒ शिङ्‍गी॑नि को॒श्याभ्या॑म् ॥ ८ ॥ उ॒ग्रँल्लोहि॑तेन मि॒त्रँ सौव्र॑त्येन रु॒द्रं दौर्व्र॑त्ये॒नेन्द्रं॑ प्रक्री॒डेन॑ म॒रुतो॒ बले॑न सा॒ध्यान्प्र॒मुदा॑ । भ॒वस्य॒ कण्ठ्यँ॑ रु॒द्रस्या॑न्तः पा॒र्श्व्यं म॑हादे॒वस्य॒ यकृ॑च्छ॒र्वस्य॑ वनि॒ष्ठुः प॑शु॒पतेः॑ पुरी॒तत् ॥ ९ ॥ लोम॑भ्यः॒ स्वाहा॒ लोम॑भ्यः॒ स्वाहा॑ त्व॒चे स्वाहा॑ त्व॒चे स्वाहा लोहि॑ताय॒ स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ मेदो॑भ्यः॒ स्वाहा॒ मेदो॑भ्यः॒ स्वाहा॑ । माँ॒सेभ्यः॒ स्वाहा॑ मा@ंसेभ्यः॒ स्वाहा॒ स्ना॒व॑भ्यः॒ स्वाहा॒ स्ना॒व॑भ्यः॒ स्वाहा॒स्थभ्यः॒ स्वाहा॒स्थभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा॑ । रेत॑से॒ स्वाहा॑ पा॒यवे॒ स्वाहा॑ ॥ १० ॥ आ॒या॒साय॒ स्वाहा॑ प्राया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑ । शु॒चे स्वाहा॒ शोच॑ते॒ स्वाहा॒ शोच॑मानाय॒ स्वाहा॒ शोका॑य॒ स्वाहा॑ ॥ ११ ॥ तप॑से॒ स्वाहा॒ तप्य॑ते॒ स्वाहा॒ तप्य॑मानाय॒ स्वाहा॑ त॒प्ताय॒ स्वाहा॑ घर्माय॒ स्वाहा॑ । निष्कृ॑त्यै॒ स्वाहा॒ प्राय॑श्चित्यै॒ स्वाहा॑ भेष॒जाय॒ स्वाहा॑ ॥ १२ ॥ य॒माय॒ स्वाहान्त॑काय॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॑ । ब्रह्मणे॒ स्वाहा॑ ब्रह्मह॒त्यायै॒ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्यः॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्याँ॒ स्वाहा॑ ॥ १३ ॥ ॥ इति एकोनचत्वारिंशोऽध्याय ॥


ॐ तत् सत्



GO TOP