|
शुक्ल यजुर्वेदः - चत्वारिंशोऽध्यायः
ई॒शावा॒स्यमि॒दँ सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग्॑अत् ।
तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म् ॥ १ ॥
कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तँ समाः॑ ।
ए॒वं त्वयि॒ नान्यथे॒तो॒ऽस्ति॒ न कर्म॑ न लिप्यते॒ नरे॑ ॥ २ ॥
अ॒सुर्या नाम॒ ते लो॒काऽ अ॒न्धेन॒ तम॒सावृ॑ताः ।
ताँस्ते प्रेत्यापि॑ गच्छन्ति॒ ये के चा॑त्म॒हनो॒ जनाः॑ ॥ ३ ॥
अने॑ज॒देकं॒ मन॑सो॒ जवी॑यो॒ नैन॑द्दे॒वाऽ आ॑प्नुव॒न्पूर्व॒मर्श॑त् ।
तद्धाव॑तो॒ऽन्यानत्ये॑ति॒ तिष्ठ॒त्तस्मि॑न्न॒पो मा॑त॒रिश्वा॑ दधाति ॥ ४ ॥
तदे॑जति॒ तन्नैज॑ति॒ तद्दू॒रे तद्व॑न्ति॒के ।
तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु सर्व॑स्यास्य बाह्य॒तः ॥ ५ ॥
यस्तु सर्वा॑णि भू॒तान्या॒त्मन्ने॒वानु॒पश्य॑ति ।
स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न वि चि॑कित्सति ॥ ६ ॥
यस्मि॒न्सर्वा॑णि भू॒तान्या॒त्मैवाभू॑द्विजान॒तः ।
तत्र॒ को मोहः॒ कः शोक॑ऽ एक॒त्वमनु॒पश्य॑तः ॥ ७ ॥
स पर्य॑गाच्छु॒क्रम॑का॒यम॑व्र॒णम॑स्नावि॒रँ शु॒द्धमपा॑पविद्धम् ।
क॒विर्म॑नी॒षी प॑रिभूः स्व॑य॒म्भूर्या॑थातथ्य॒तोऽर्था॒न्व्य॒दधाच्छाश्व॒तीभ्यः॒ समा॑भ्यः ॥ ८ ॥
अ॒न्धं तमः॒ प्रवि॑शन्ति॒ येऽसं॑भूतिमु॒पास॑ते ।
ततो॒ भूय॑ऽ इव॒ ते तमो॒ यऽ उ॒ संभू॑त्याँ र॒ताः ॥ ९ ॥
अ॒न्यदे॒वाहुः स॑म्भ॒वाद॒न्यदा॑हु॒रस॑म्भवात् ।
इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥ १० ॥
सम्भू॑तिं च विना॒शं च॒ यस्तद्वेदो॒भयँ॑ स॒ह ।
वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा सम्भू॑त्या॒मृत॑मश्नुते ॥ ११ ॥
अ॒न्धं तमः॒ प्र वि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते ।
ततो॒ भूय॑ऽ इव॒ ते तमो॒ यऽ उ॑ वि॒द्यायाँ॑ र॒ताः ॥ १२ ॥
अ॒न्यदे॒वाहुर्वि॒द्याया॑ऽ अ॒न्यदा॑हु॒रवि॑द्यायाः ।
इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥ १३ ॥
वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भयँ॑ स॒ह ।
अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्याया॒मृत॑मश्नुते ॥ १४ ॥
वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्तँ॒ शरी॑रम् ।
ओ ३म् क्रतो॑ स्मर । क्लि॒बे स्म॑र । कृ॒तँ स्म॑र ॥ १५ ॥
अग्ने॒ नय॑ सु॒पथा॑ रा॒येऽ अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्यस्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ऽ उक्तिं विधेम ॥ १६ ॥
हि॒र॒ण्मये॑न॒ पात्रे॑ण स॒त्यस्यापि॑हितं॒ मुख॑म् ।
यो॒ऽसावा॑दि॒त्ये पुरु॑षः॒ सोऽसाव॒हम् ।
ओ३म् खं ब्रह्म ॥ १७ ॥
॥ इति चत्वारिंशोऽध्याय ॥
ॐ तत् सत् |