|
शुक्ल यजुर्वेदः - अष्टात्रिंशोऽध्यायः
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । आ ददेऽदित्यै रास्नासि ॥ १ ॥
इडऽ एह्यदितऽ एहि सरस्वत्येहि । असावेह्यसावेह्यसावेहि ॥ २ ॥
अदित्यै रास्नासीन्द्राण्याऽ उष्णीषः । पूषासि घर्माय दीष्व ॥ ३ ॥
अश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्वेन्द्राय पिन्वस्व । स्वाहेन्द्रवत्स्वाहेन्द्रवत्स्वाहेन्द्रवत् ॥ ४ ॥
यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः ।
येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवेऽकः । उर्वन्तरिक्षमन्वेमि ॥ ५ ॥
गायत्रं छन्दोऽसि त्रैष्टुभं छन्दोऽसि द्यावापृथिवीभ्यां त्वा परि गृह्णाम्यन्तरिक्षेणोप यच्छामि ।
इन्द्राश्विना मधुनः सारघस्य घर्मं पात वसवो यजत् वाट् । स्वाहा सूर्यस्य रश्मये वृष्टिवनये ॥ ६ ॥
समुद्राय त्वा वाताय स्वाहा सरिताय त्वा वाताय स्वाहा ।
अनाधृष्याय त्वा वाताय स्वाहा प्रतिधृष्याय त्वा वाताय स्वाहा ।
अवस्यवे त्वा वाताय स्वाहा शिमिदाय त्वा वाताय स्वाहा ॥ ७ ॥
इन्द्राय त्वा वसुमते रुद्रवते स्वाहेन्द्राय त्वादित्यवते स्वाहेन्द्राय स्वाभिमातिघ्ने स्वाहा ।
सवित्र त्वऽ ऋभुमते विभुमते वाजवते स्वाहा बृहस्पतये त्वा विश्वदेव्यावते स्वाहा ॥ ८ ॥
यमाय त्वाङ्गिरस्वते पितृमते स्वाहा । स्वाहा घर्माय स्वाहा घर्मः पित्रे ॥ ९ ॥
विश्वाऽ आशा दक्षिणसद्विश्वान्देवानयाडिह ।
स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विना ॥ १० ॥
दिवि धाऽ इमं यज्ञमिमं यज्ञं दिवि धाः । स्वाहाग्नये यज्ञियाय शं यजुर्भ्यः ॥ ११ ॥
अश्विना घर्मं पातँ हार्द्वानमहर्दिवाभिरुतिभिः ।
तन्त्रायिणे नमो द्यावापृथिवीभ्याम् ॥ १२ ॥
अपातामश्विना घर्ममनु द्यावापृथिवीऽ अमँसाताम् । इहैव रातयः सन्तु ॥ १३ ॥
इषे पिन्वस्वोर्जे पिन्वस्व ब्रह्मणे पिन्वस्व क्षत्राय पिन्वस्व द्यावापृथिवीभ्यां पिन्वस्व ।
धर्मासि सुधर्मामेन्यस्मे नृम्णानि धारय ब्रह्म धारय क्षत्रं धारय विशं धारय ॥ १४ ॥
स्वाहा पूष्णे शरसे स्वाहा ग्रावभ्यः स्वाहा प्रतिरवेभ्यः । स्वाहा पितृभ्यऽ ऊर्ध्वबर्हिर्भ्यो घर्मपावभ्यः
स्वाहा द्यावापृथिवीभ्याँ स्वाहा विश्वेभ्यो देवेभ्यः ॥ १५ ॥
स्वाहा रुद्राय रुद्रहूतये स्वाहा सं ज्योतिषा ज्योतिः । अहः केतुना जुषताँ
सुज्योतिर्ज्योतिषा स्वाहा । रात्रिः केतुना जुषताँ सुज्योतिर्ज्योतिषा स्वाहा ।
मधु हुतमिन्द्रतमेऽ अग्नावश्याम ते देव घर्म नमस्तेऽ अस्तु मा मा हिँसीः ॥ १६ ॥
अभीमं महिमा दिवं विप्रो बभूव सप्रथाः ।
उत श्रवसा पृथिवीँ सँ सीदस्व महाँ २ऽ असि रोचस्व देववीतमः ।
वि धूममग्नेऽ अरुषं मियेध्य सृज प्रशस्त दर्शतम् ॥ १७ ॥
या ते घर्म दिव्या शुग्या गायत्र्याँ हविर्धाने ।
सा तऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ।
या ते घर्मान्तरिक्षे शुग्या त्रिष्टुब्भ्याग्नीध्रे ।
सा तऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ।
या ते घर्म पृथिव्यां शुग्या जगत्याँ सदस्या ।
सा तऽ आ प्यायतां निष्ट्यायतां तस्यै ते स्वाहा ॥ १८ ॥
क्षत्रस्य त्वा परस्पाय ब्रह्मणस्तन्वं पाहि ।
विशस्त्वा धर्मणा वयमनु क्रामाम सुविताय नव्यसे ॥ १९ ॥
चतुःस्रक्तिर्नाभिर्ऋतस्य सप्रथाः स नो विश्वायुः सप्रथाः
स नः सर्वायुः सप्रथाः । अप द्वेषोऽ अप ह्वरोऽन्यव्रतस्य सश्चिम ॥ २० ॥
घर्मैतत्ते पुरीषं तेन वर्धस्य चा च प्यायस्व । वर्धिषीमहि च वयमा च प्यासिषीमहि ॥ २१ ॥
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सँ सूर्येण दिद्युतदुदधिर्निधिः ॥ २२ ॥
सुमित्रिया नऽ आपऽ ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ॥ २३ ॥
उद्वयन्तमसस्परि स्वः पश्यन्तऽ उत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ २४ ॥
एधोऽस्येधिषीमहि समिदसि तेजोऽसि तेजो मयि धेहि ॥ २५ ॥
यावती द्यावापृथिवी यावच्च सप्त सिन्धवो वितस्थिरे ।
तावन्तमिन्द्र ते ग्रहमूर्जा गृह्णाम्यक्षितं मयि गृह्णाम्यक्षितम् ॥ २६ ॥
मयि त्यदिन्द्रियं बृहन्मयि दक्षो मयि क्रतुः ।
घर्मस्त्रिशुग्वि राजति विराजा ज्योतिषा सह ब्रह्मणा तेजसा सह ॥ २७ ॥
पयसो रेतऽ आभृतं तस्य दोहमशीमह्युत्तरामुत्तराँ समाम् ।
त्विषः संवृक् क्रत्वे दक्षस्य ते सुषुम्णस्य ते सुषुम्णाग्निहुतः ।
इन्द्रपीतस्य प्रजापतिभक्षितस्य मधुमतऽ उपहूतऽ उपहूतस्य भक्षयामि ॥ २८ ॥
॥ इति अष्टात्रिंशोऽध्याय ॥
ॐ तत् सत् |