|
शुक्ल यजुर्वेदः - पञ्चत्रिंशोऽध्यायः
अपेतो यन्तु पणयोऽसुम्ना देवपीयवः । अस्य लोकः सुतावतः ।
द्युभिरहोभिरक्तुभिर्व्यक्तं यमो ददात्ववसानमस्मै ॥ १ ॥
सविता ते शरीरेभ्यः पृथिव्याँल्लोकमिच्छतु । तस्मै युज्यन्तामुस्रियाः ॥ २ ॥
वायुः पुनातु सविता पुनात्वग्नेर्भ्राजसा सूर्यस्य वर्चसा । वि मुच्यन्तामुस्रियाः ॥ ३ ॥
अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता । गोभाजऽ इत्किलासथ यत्सनवथ पूरुषम् ॥ ४ ॥
सविता ते शरीराणि मातुरुपस्थऽ आ वपतु । तस्मै पृथिवि शं भव ॥ ५ ॥
प्रजापतौ त्वा देवतायामुपोदके लोके नि दधाम्यसौ । अप नः शोशुचदघम् ॥ ६ ॥
परं मृत्योऽ अनु परेहि पन्थां यस्तेऽ अन्यऽ इतरो देवयानत् ।
चक्षुष्मते श्रुण्वते ते ब्रवीमि मा नः प्रजाँ रीरिषो मोत वीरान् ॥ ७ ॥
शं वातः शँ हि ते घृणिः शं ते भवन्त्विष्टकाः ।
शं ते भवन्त्वग्नयः पार्थिवासो मा त्वाभि शूशुचन् ॥ ८ ॥
कल्पन्तां ते दिशस्तुभ्यमापः शिवतमास्तुभ्यं भवन्तु सिन्धवः । अन्तरिक्षँ शिवं तुभ्यं कल्पन्तां ते दिशः सर्वाः ॥ ९ ॥
अश्मन्वती रीयते सँ रभध्वमुत्तिष्ठत प्र तरता सखायः ।
अत्रा जहीमोऽशिवा येऽ असञ्छिवान्वयमुत्तरेमाभि वाजान् ॥ १० ॥
अपाघमप किल्बिषमप कृत्यामपो रपः । अपामार्ग त्वमस्मदप दुःष्वप्न्यँ सुव ॥ ११ ॥
सुमित्रिया नऽ आपऽ ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु
योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ॥ १२ ॥
अनड्वाहमन्वारभामहे सौरभेयँ स्वस्तये । स नऽ इंद्रऽइव देवेभ्यो वह्निः संतारणो भव ॥ १३ ॥
उद्वयं तमसस्परि स्वः पश्यन्तऽ उत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ १४ ॥
इमं जीवेभ्यं परिधिं दधामि मैषां नु गादपरोऽ अर्थमेतम् ।
शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेन ॥ १५ ॥
अग्नऽ आयुँषि पवसऽ आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥ १६ ॥
आयुष्मानग्ने हविषा वृधानो घृतप्रतीको घृतयोनिरेधि ।
घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभि रक्षतादिमान्त्स्वाहा ॥ १७ ॥
परीमे गामनेषत पर्यग्निमहृषत । देवेष्वक्रत श्रवः कऽ इमाँ २ऽ आ दधर्षति ॥ १८ ॥
क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्यं गच्छतु रिप्रवाहः ।
इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥ १९ ॥
वह वपां जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान्पराके ।
मेदसः कुल्याऽ उप तान्त्स्रवन्तु सत्याऽ एषामाशिषः सं नमन्ताँ स्वाहा ॥ २० ॥
स्योना पृथिवि नो भवनृक्षरा निवेशनी । यच्छा नः शर्म सुप्रथाः अप नः शोशुचदघम् ॥ २१ ॥
अस्मात्त्वमधि जातोऽसि त्वदयं जायतां पुनः । असौ स्वर्गाय लोकाय स्वाहा ॥ २२ ॥
॥ इति पञ्चत्रिंशोऽध्याय ॥
ॐ तत् सत् |