शुक्ल यजुर्वेदः - चतुस्त्रिंशोऽध्यायः



यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति । दूरङ्‍गमं ज्योतिषा ज्योतिरेकं तन्मे मनः शिवसङ्‍कल्पमस्तु ॥ १ ॥ येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः । यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्‍कल्पमस्तु ॥ २ ॥ यत्‍प्रज्ञानमुत चेतो धृतिश्च यज्जोतिरन्तरमृतं प्रजासु । यस्मान्नऽ ऋते किं चन कर्म क्रियते तन्मे मनः शिवसङ्‍कल्पमस्तु ॥ ३ ॥ येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम् । येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्‍कल्पमस्तु ॥ ४ ॥ यस्मिन्नृचः साम यजूँषि यस्मिन्प्रतिष्ठिता रथनाभाविवाराः । यस्मिँश्चित्तँ सर्वमोतं प्रजानां तन्मे मनः शिवसङ्‍कल्पमस्तु ॥ ५ ॥ सुषारथिरश्वानिव यन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिनऽ इव । हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्‍कल्पमस्तु ॥ ६ ॥ पितुं नु स्तोषं महो धर्माणं तविषीम् । यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ॥ ७ ॥ अन्विदनुमते त्वं मन्यासै शं च नस्कृधि । क्रत्वे दक्षाय नो हिनु प्र णऽ आयूँषि तारिषः ॥ ८ ॥ अनु नोऽद्यानुमतियज्ञं देवेषु मन्यताम् । अग्निश्च हव्यवाहनो भवतं दाशुषे मयः ॥ ९ ॥ सिनीवालि पृथुष्टुके या देवानामसि स्वसा । जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥ १० ॥ पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः । सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥ ११ ॥ त्वमग्ने प्रथमोऽ अङ्‍गिराऽ ऋषिर्देवो देवानामभवः शिवः सखा । तव व्रते कवयो विद्मनापसोऽजायन्त मरुतो भ्राजदृष्टयः ॥ १२ ॥ त्वं नोऽ अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य । त्राता तोकस्य तनये गवामस्यनिमेषँ रक्षमाणस्तव व्रते ॥ १३ ॥ उत्तानायामव भरा चिकित्वान्त्सद्यः प्रवीता वृषणं जजान । अरुषस्तूपो रुशदस्य पाजऽ इडायास्पुत्रो वयुनेऽजनिष्ट ॥ १४ ॥ इडायास्त्वा पदे वयं नाभा पृथिव्याऽ अधि । जातवेदो निधीमह्यग्ने हव्याय वोढवे ॥ १५ ॥ प्र मन्महे शवसानाय शूषमाङ्‍गूषं गिर्वणसेऽ अङ्‍गिरस्वत् । सुवृक्तिभि स्तुवतऽ ऋग्मियायार्चामार्कं नरे विश्रुताय ॥ १६ ॥ प्र वो महे महि नमो भरध्वमाङ्‍गूष्यँ शवसानाय साम । येना नः पूर्वे पितरः पदज्ञाऽ अर्चन्तोऽ अङ्‍गिरसो गाऽ अविन्दन् ॥ १७ ॥ इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयाँसि । तितिक्षन्तेऽ अभिशस्तिं जनानामिन्द्र त्वदा कश्चन हि प्रकेतः ॥ १८ ॥ न ते दूरे परमा चिद्रजाँस्या तु प्र याहि हरिवो हरिभ्याम् । स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधानेऽ अग्नौ ॥ १९ ॥ अषाढं युत्सु पृतनासु पप्रिँ स्वर्षामप्सां वृजनस्य गोपाम् । भरेषुजाँ सुक्षितिँ सुश्रवसं जयन्तं त्वामनु मदेम सोम ॥ २० ॥ सोमो धेनुँ सोमोऽ अर्वन्तमाशुँ सोमो वीरं कर्मण्यं ददाति । सादन्यं विदथ्यँ सभेयं पितृश्रवणं यो ददाशदस्मै ॥ २१ ॥ त्वमिमाऽ ओषधीः सोम विश्वास्त्वमपोऽ अजनयस्त्वं गाः । त्वमा ततन्थोर्वन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥ २२ ॥ देवेन नो मनसा देव सोम रायो भागँ सहसावन्नभि युध्य । मा त्वा तनदीशिषे वीर्यस्योभयेभ्यः प्रचिकित्सा गविष्टौ ॥ २३ ॥ अष्टौ व्यख्यत्ककुभः पृथिव्यास्त्री धन्व योजना सप्त सिधून् । हिरण्याक्षः सविता देवऽ आगद्दधद्‍रत्ना दाशुषे वार्याणि ॥ २४ ॥ हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवीऽ अन्तरीयते । अपामीवां बाधते वेति सूर्यमभि कृष्णेन रजसा द्यामृणोति ॥ २५ ॥ हिरण्यहस्तोऽ असुरः सुनीथः सुमृडीकः स्ववा यात्वर्वाङ्‍ । अपसेधन्‍रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः ॥ २६ ॥ ये ते पन्थाः सवितः पूर्व्यासोऽरेणवः सुकृताऽ अन्तरिक्षे । तेभिर्नोऽ अद्य पथिभिः सुगेभी रक्षा च नोऽ अधि च ब्रूहि देव ॥ २७ ॥ उभा पिबतमश्विनोभा नः शर्म यच्छतम् । अविद्रियाभिरूतिभिः ॥ २८ ॥ अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा बृषणा मनीषाम् । अद्यूत्येऽवसे निह्वये वां वृधे च नो भवतं वाजसातौ ॥ २९ ॥ द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवीऽ उत द्यौः ॥ ३० ॥ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥ ३१ ॥ आ रात्री पार्थिवँ रजः पितुरप्रायि धामभिः । दिवः सदाँसि बृहती वि तिष्ठसऽ आ त्वेषं वर्तते तमः ॥ ३२ ॥ उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति । येन तोकं च तनयं च धामहे ॥ ३३ ॥ प्रातरग्निं प्रातरिन्द्रँ हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रँ हुवेम ॥ ३४ ॥ प्रातर्जितं भगमुग्रंँ हुवेम वयं पुत्रमदितेर्यो विधर्ता । आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥ ३५ ॥ भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः । भग प्र नो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥ ३६ ॥ उतेदानीं भगवन्तः स्यामोत प्रपित्वऽ उत मध्येऽ अह्नाम् । उतोदिता मघवन्त्सूर्यस्य वयं देवानाँ सुमतौ स्याम ॥ ३७ ॥ भगऽ एव भगवाँ २ऽ अस्तु देवास्तेन वयं भगवन्तः स्याम । तं त्वा भग सर्वऽ इज्जोहवीति स नो भग पुरऽ एता भवेह ॥ ३८ ॥ समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय । अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिनऽ आ वहन्तु ॥ ३९ ॥ अश्वावतीर्गोमतीर्नऽ उषासो वीरवतीः सदमुच्छन्तु भद्राः । घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥ ४० ॥ पूषन्तव व्रते वयं न रिष्येम कदा चन । स्तोतारस्तऽ इह स्मसि ॥ ४१ ॥ पथस्पथः परिपतिं वचस्या कामेन कृतोऽ अभ्यानडर्कम् । स नो रासच्छुरुधश्चन्द्राग्रा धियं धियँ सीषधाति प्र पूषा ॥ ४२ ॥ त्राणि पदा वि चक्रमे विष्णुर्गोपाऽ अदाभ्यः । अतो धर्माणि धारयन् ॥ ४३ ॥ तद्विप्रासो विपन्यवो जागृवाँसः समिन्धते । विष्णोर्यत्परमं पदम् ॥ ४४ ॥ घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कभितेऽ अजरे भूरिरेतसा ॥ ४५ ॥ ये नः सपत्नाऽ अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहे तान् । वसवो रुद्राऽ आदित्याऽ उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् ॥ ४६ ॥ आ नासत्या त्रिभिरेकादशैरिह देवेभिर्यातं मधुपेयमश्विना । प्रायुस्तारिष्टं नी रपाँसि मृक्षतँ सेधतं द्वेषो भवतँ सचाभुवा ॥ ४७ ॥ एष व स्तोमो मरुतऽ इयं गीर्मान्दार्यस्य मान्यस्य कारोः । एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥ ४८ ॥ सहस्तोमाः सहच्छन्दसऽ आवृतः सहप्रमाऽ ऋषयः सप्त दैव्याः । पूर्वेषां पन्थामनुदृश्य धीराऽ अन्वालेभिरे रथ्यो न रश्मीन् ॥ ४९ ॥ आयुष्यं वर्चस्यँ रायस्पोषमौद्‍भिदम् । इदँ हिरण्यं वर्चस्वज्जैत्रायाविशतादु माम् ॥ ५० ॥ न तद्रक्षाँसि न पिशाचास्तरन्ति देवानामोजः प्रथमजँ ह्येतत् । यो बिभर्ति दाक्षायणँ हिरण्यँ स देवेषु कृणुते दीर्घमायुः स मनुष्येषु कृणुते दीर्घमायुः ॥ ५१ ॥ यदाबध्नन्दाक्षायणा हिरण्यँ शतानीकाय सुमनस्यमानाः । तन्मऽ आ बध्नामि शतशारदायायुष्माञ्जरदष्टिर्यथासम् ॥ ५२ ॥ उत नोऽ हिर्बुध्न्यः श्रुणोत्वजऽ एकपात्पृथिवी समुद्रः । विश्वे देवाऽ ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ताऽ अवन्तु ॥ ५३ ॥ इमा गिरऽ आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि । शृणोतु मित्रोऽ अर्यमा भगो नस्तुविजातो वरुणो दक्षोऽ अँशः ॥ ५४ ॥ सप्तऽ ऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति सदमप्रमादम् । सप्तापः स्वपतो लोकमीयुस्तत्र जागृतोऽ अस्वप्नजौ सत्रसदौ च देवौ ॥ ५५ ॥ उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । उप प्र यन्तु मरुतः सुदानवऽ इन्द्र प्राशूर्भवा सचा ॥ ५६ ॥ प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रोऽ अर्यमा देवाऽ ओकाँसि चक्रिरे ॥ ५७ ॥ ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व । विश्वं तद्‍भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः । यऽ इमा विश्वा विश्वकर्मा यो नः पितान्नपतेऽन्नस्य नो देहि ॥ ५८ ॥ ॥ इति चतुस्त्रिंशोऽध्याय ॥


ॐ तत् सत्



GO TOP