|
शुक्ल यजुर्वेदः - त्रयस्त्रिंशोऽध्यायः
अस्याजरासो दमामरित्राऽ अर्चद्धूमासोऽ अग्नयः पावकाः ।
श्वितीचयः स्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥ १ ॥
हरयो धूमकेतवो वातजूताऽ उप द्यवि । यतन्ते वृथगग्नयः ॥ २ ॥
यजा नो मित्रावरुणा यजा देवाँ २ऽ ऋतं बृहत् । अग्ने यक्षि स्वं दमम् ॥ ३ ॥
युक्ष्वा हि देवहूतमाँ २ऽ अश्वाँ २ऽ अग्ने रथीरिव । नि होता पूर्व्यः सदः ॥ ४ ॥
द्वे विरूपे चरतः स्वर्थेऽ अन्यान्या वत्समुप धापयेते ।
हरिरन्यस्यां भवति स्वधावाञ्छुक्रोऽ अन्यस्यां ददृशे सुवर्चाः ॥ ५ ॥
अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठोऽ अध्वरेष्वीड्यः ।
यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशे विशे ॥ ६ ॥
त्रीणि शता त्री सहस्राण्यग्निं त्रिँशच्च देवा नव चासपर्यन् ।
औक्षन्घृतैरस्तृणन्बर्हिरस्माऽ आदिद्धोतारं न्यसादयन्त ॥ ७ ॥
मूर्धानं दिवोऽ अरतिं पृथिव्या वैश्वानरमृतऽ आ जातमग्निम् ।
कविँ सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥ ८ ॥
अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । समिद्धः शुक्रऽ आहुतः ॥ ९ ॥
विश्वेभिः सोम्यं मध्वग्नऽ इन्द्रेण वायुना । पिबा मित्रस्य धामभिः ॥ १० ॥
आ यदिषे नृपतिं तेजऽ आनट् शुचि रेतो निषिक्तं द्यौरभीके ।
अग्निः शर्धमनवद्यं युवानँ स्वाध्यं जनयत्सूदयच्च ॥ ११ ॥
अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु ।
सं जास्पत्यँ सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महाँसि ॥ १२ ॥
त्वाँ हि मन्द्रतममर्कशोकैर्ववृमहे महि नः श्रोष्यग्ने ।
इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः ॥ १३ ॥
त्वेऽ अग्ने स्वाहुत प्रियासः सन्तु सूरयः ।
यन्तारो ये मघवानो जनानामूर्वान्दयन्त गोनाम् ॥ १४ ॥
श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः ।
आ सीदन्तु बर्हिषि मित्रोऽ अर्यमा प्रातर्यावाणोऽ अध्वरम् ॥ १५ ॥
विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम् ।
अग्निर्देवानामवऽ आवृणानः सुमृडीको भवतु जातवेदाः ॥ १६ ॥
महोऽ अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणे स्वस्तये ।
श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानामवोऽ अद्या वृणीमहे ॥ १७ ॥
आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्तऽ इन्द्र ।
याहि वायुर्न नियुतो नोऽ अच्छा त्वँ हि धीभिर्दयसे वि वाजान् ॥ १८ ॥
गावऽ उपावतावतं मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥ १९ ॥
यदद्य सूरऽ उदितेऽनागा मित्रोऽ अर्यमा । सुवाति सविता भगः ॥ २० ॥
आ सुते सिञ्चत श्रियँ रोदस्योरभिश्रियम् ।
रसा दधीत वृषभम् । तं प्रत्नथायं वेनः ॥ २१ ॥
आतिष्ठन्तं परि विश्वेऽ अभूषञ्च्छ्रियो वसानश्चरति स्वरोचिः ।
महत्तद्वृष्णोऽ असुरस्य नामा विश्वरूपोऽ अमृतानि तस्थौ ॥ २२ ॥
प्र वो महे मन्दमानायान्धसोऽर्चा विश्वानराय विश्वाभुवे ।
इन्द्रस्य यस्य सुमखँ सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥ २३ ॥
बृहन्निदिध्मऽ एषां भूरि शस्तं पृथुः स्वरुः । येषामिन्द्रो युवा सखा ॥ २४ ॥
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः । महाँ २ऽ अभिष्टिरोजसा ॥ २५ ॥
इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्षणीतिः ।
अहन्व्यँसमुशधग्वनेष्वाविर्धेनाऽ अकृणोद्राम्याणाम् ॥ २६ ॥
कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं तऽ इत्था ।
सं पृच्छसे समराणः शुभानैर्वोचेस्तन्नो हरिवो यत्तेऽ अस्मे ।
महाँ २ऽ इन्द्रो यऽ ओजसा कदा चन स्तरीरसि कदा चन प्रयुच्छसि ॥ २७ ॥
आ तत्तऽ इन्द्रायवः पनन्ताभि यऽ ऊर्वं गोमन्तं तितृत्सान् ।
सकृत्स्वं ये पुरुपुत्रां महीँ सहस्रधारां बृहतीं दुदुक्षन् ॥ २८ ॥
इमां ते धियं प्र भरे महो महीमस्य स्तोत्रे धिषणा यत्तऽ आनजे ।
तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु ॥ २९ ॥
विभ्राड् बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् ।
वातजूतो योऽ अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥ ३० ॥
उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ ३१ ॥
येना पावक चक्षसा भुरण्यन्तं जनाँ २ऽ अनु । त्वं वरुण पश्यसि ॥ ३२ ॥
दैव्यावध्वर्यूऽ आ गतँ रथेन सूर्यत्वचा ।
मध्वा यज्ञँ समञ्जाथे । तं प्रत्नथायं वेनश्चित्रं देवानाम् ॥ ३३ ॥
आ नऽ इडाभिर्विदथे सुशस्ति विश्वानरः सविता देवऽ एतु ।
अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ॥ ३४ ॥
यदद्य कच्च वृत्रहन्नुदगाऽ अभि सूर्य । सर्वं तदिन्द्र ते वशे ॥ ३५ ॥
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमा भासि रोचनम् ॥ ३६ ॥
तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततँ सं जभार ।
यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥ ३७ ॥
तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।
अनंतमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति ॥ ३८ ॥
बण्महाँ २ऽ असि सूर्य बडादित्य महाँ २ऽ असि ।
महस्ते सतो महिमा पनस्यतेऽद्धा देव महाँ२ऽ असि ॥ ३९ ॥
बट् सूर्य श्रवसा महाँ२ऽ असि सत्रा देव महाँ२ऽ असि ।
मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥ ४० ॥
श्रायन्तऽ इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
वसूनि जाते जनमानऽ ओजसा प्रति भागं न दीधिम ॥ ४१ ॥
अद्या देवाऽ उदिता सूर्यस्य निरँहसः पिपृता निरवद्यात् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवीऽ उत द्यौः ॥ ४२ ॥
आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥ ४३ ॥
प्र वावृजे सुप्रया बर्हिरेषामा विश्पतीव बीरिटऽ इयाते ।
विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥ ४४ ॥
इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् । आदित्यान्मारुतं गणम् ॥ ४५ ॥
वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः । करतां नः सुराधसः ॥ ४६ ॥
अधि न इन्द्रैषां विष्णो सजात्यानाम् । इता मरुतोऽ अश्विना । तं प्रत्नथायं
वेनो ये देवासऽ आ नऽ इडाभिर्विश्वेभिः सोम्यं मध्वोमासश्चर्षणीधृतः ॥ ४७ ॥
अग्नऽ इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो ।
उभा नासत्या रुद्रोऽ अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥ ४८ ॥
इन्द्राग्नी मित्रावरुणादितिँ स्वः पृथिवीं द्यां मरुतः पर्वताँ२ऽ अपः ।
हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शँसँ सवितारमूतये ॥ ४९ ॥
अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः ।
यः शँसते स्तुवते धायि पज्रऽ इन्द्रज्येष्ठाऽ अस्माँ२ऽ अवन्तु देवाः ॥ ५० ॥
अर्वाञ्चोऽ अद्या भवता यजत्राऽ आ वो हार्दि भयमानो व्ययेयम् ।
त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः ॥ ५१ ॥
विश्वेऽ अद्य मरुतो विश्वऽ उती विश्वे भवन्त्वग्नयः समिद्धाः ।
विश्वे नो देवाऽ अवसा गमन्तु विश्वमस्तु द्रविणं वाजोऽ अस्मे ॥ ५२ ॥
विश्वे देवाः श्रृणुतेमँ हवं मे येऽ अन्तरिक्षे यऽ उप द्यवि ष्ठ ।
येऽ अग्निजिह्वाऽ उत वा यजत्राऽ आसद्यास्मिन्बर्हिषि मादयध्वम् ॥ ५३ ॥
देवेभ्यो हि प्रथमं यज्ञियेभ्योऽमृतत्वँ सुवसि भागमुत्तमम् ।
आदिद्दामानँ सवितर्व्यूर्णुषेऽनूचीना जीविता मानुषेभ्यः ॥ ५४ ॥
प्र वायुमच्छा बृहती मनीषा बृहद्रयिं विश्ववारँ रथप्राम् ।
द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो ॥ ५५ ॥
इन्द्रवायुऽ इमे सुताऽ उप प्रयोभिरा गतम् । इन्दवो वामुशन्ति हि ॥ ५६ ॥
मित्रँ हुवे पूतदक्षं वरुणं च रिशादसम् । धियं घृताचीँ साधन्ता ॥ ५७ ॥
दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः । आ यातँ रुद्रवर्त्तनी । तं प्रत्नथायं वेनः ॥ ५८ ॥
विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यँ सध्र्यक्कः ।
अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात् ॥ ५९ ॥
नहि स्पशमविदन्नन्यमस्माद्वैश्वानरापुरऽ एतारमग्नेः ।
एमेनमवृधन्नमृताऽ अमर्त्यं वैश्वानरं क्षैत्रजित्याय देवाः ॥ ६० ॥
उग्रा विघनिना मृधऽ इन्द्राग्नी हवामहे । ता नो मृडातऽ ईदृशे ॥ ६१ ॥
उपास्मै गायता नरः पवमानायेन्दवे । अभि देवाँ २ऽ इयक्षते ॥ ६२ ॥
ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्ठौ ।
ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमँ सगणो मरुद्भिः ॥ ६३ ॥
जनिष्ठाऽ उग्रः सहसे तुराय मन्द्रऽ ओजिष्ठो बहुलाभिमानः ।
अवर्धन्निन्द्रं मरुतश्चिदत्र माता यद्वीरं दधनद्धनिष्ठा ॥ ६४ ॥
आ तू नऽ इन्द्र वृत्रहन्नस्माकमर्धमा गहि । महान्महीभिरूतिभिः ॥ ६५ ॥
त्वमिन्द्र प्रतूर्तिष्वभि विश्वाऽ असि स्पृधः ।
अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥ ६६ ॥
अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा ।
विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥ ६७ ॥
यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः ।
आ वोऽर्वाची सुमतिर्ववृत्यादँहोश्चिद्या वरिवोवित्तरासत् ॥ ६८ ॥
अदब्धेभि सवितः पायुभिष्ट्वँ शिवेभिरद्य परि पाहि नो गयम् ।
हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नोऽ अघशँसऽ ईशत ॥ ६९ ॥
प्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः ।
वह वायो नियुतो याह्यच्छा पिबा सुतस्यान्धसो मदाय ॥ ७० ॥
गावऽ उपावतावतं मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥ ७१ ॥
काव्ययोराजानेषु क्रत्वा दक्षस्य दुरोणे । रिशादसा सधस्थऽ आ ॥ ७२ ॥
दैव्यावध्वर्यू आ गतँ रथेन सूर्यत्वचा ।
मध्वा यज्ञँ समञ्जाथे । तं प्रत्नथायं वेनः ॥ ७३ ॥
तिरश्चीनो विततो रश्मिरेषामधः स्विदासी३दुपरि स्विदासी३त् ।
रेतोधाऽ आसन्महिमानऽ आसन्त्स्वधाऽ अवस्तात्प्रयतिः परस्तात् ॥ ७४ ॥
आ रोदसीऽ अपृणदा स्वर्महज्जातं यदेनमपसोऽ अधारयन् ।
सोऽ अध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः ॥ ७५ ॥
उक्थेभिर्वृत्रहन्तमा या मन्दाना चिदा गिरा । आङ्गूषैराविवासतः ॥ ७६ ॥
उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये । सुमृडीका भवन्तु नः ॥ ७७ ॥
ब्रह्माणि मे मतयः शँ सुतासः शुष्मऽ इयर्ति प्रभृतो मेऽ अद्रिः ।
आ शासते प्रति हर्यन्त्युक्थेमा हरी वहतस्ता नोऽ अच्छ ॥ ७८ ॥
अनुत्तमा ते मघवन्नकिर्नु न त्वावाँ २ऽ अस्ति देवता विदानः ।
न जायमानो मशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥ ७९ ॥
तदिदास भुवनेषु ज्येष्ठं यतो जज्ञऽ उग्रस्त्वेषनृम्णः ।
सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥ ८० ॥
इमाऽ उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥ ८१ ॥
यस्यायं विश्वऽ आर्यो दासः शेवधिपाऽ अरिः ।
तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सोऽ अज्यते रयिः ॥ ८२ ॥
अयँ सहस्रमृषिभिः सहस्कृतः समुद्रऽ इव पप्रथे ।
सत्यः सोऽ अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ ८३ ॥
अदब्धेभिः सवितः पायुभिष्ट्वँ शिवेभिरद्य परि पाहि नो गयम् ।
हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नोऽ अघशँसऽ ईयत ॥ ८४ ॥
आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः ।
अन्तः पवित्रऽ उपरि श्रीणानोऽयँ शुक्रोऽ अयामि ते ॥ ८५ ॥
इन्द्रवायू सुसन्दृशा सुहवेह हवामहे ।
यथा नः सर्वऽ इज्जनोऽनमीवः सङ्गमे सुमनाऽ असत् ॥ ८६ ॥
ऋधगित्था स मर्त्यः शशमे देवतातये ।
यो नूनं मित्रावरुणावभिष्टयऽ आचक्रे हव्यदातये ॥ ८७ ॥
आ यातमुप भूषतं मध्वः पिबतमश्विना ।
दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टमा गतम् ॥ ८८ ॥
प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता ।
अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥ ८९ ॥
चन्द्रमाऽ अप्स्वन्तरा सुपर्णो धावते दिवि ।
रयिं पिशङ्गं बहुलं पुरुस्पृहँ हरिरेति कनिक्रदत् ॥ ९० ॥
देवं देवं वोऽवसे देवं देवमभिष्टये ।
देवं देवँ हुवेम वाजसातये गृणन्तो देव्या धिया ॥ ९१ ॥
दिवि पृष्टोऽ अरोचताग्निर्वैश्वानरो बृहन् ।
क्ष्मया वृधानऽ ओजसा चनोहितो ज्योतिषा बाधते तमः ॥ ९२ ॥
इन्द्राग्नीऽ अपादियं पूर्वागात्पद्वतीभ्यः ।
हित्वी शिरो जिह्वया वावदच्चरत्त्रिँशत्पदा न्यक्रमीत् ॥ ९३ ॥
देवासो हि ष्मा मनवे समन्यवो विश्वे साकँ सरातयः ।
ते नोऽ अद्य तेऽ अपरं तुचे तु नो भवन्तु वरिवोविदः ॥ ९४ ॥
अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत् ।
देवास्तऽ इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥ ९५ ॥
प्र वऽ इन्द्राय बृहते मरुतो ब्रह्मार्चत ।
वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ॥ ९६ ॥
अस्येदिन्द्रो वावृधे वृष्ण्यँ शवो मदे सुतस्य विष्णवि ।
अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ।
इमाऽ उ त्वा यस्यायमयँ सहस्रमूर्ध्वऽ ऊ षु णः ॥ ९७ ॥
॥ इति त्रयस्त्रिंशोऽध्याय ॥
ॐ तत् सत् |