|
शुक्ल यजुर्वेदः - द्वात्रिंशोऽध्यायः
तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः ।
तदेव शुक्रं तद्ब्रह्म ताऽ आपः स प्रजापतिः ॥ १ ॥
सर्वे निमेषाजज्ञिरे विद्युतः पुरुषादधि ।
नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परि जग्रभत् ॥ २ ॥
न तस्य प्रतिमाऽ अस्ति यस्य नाम महद्यशः ।
हिरण्यगर्भऽ इत्येष मा मा हिँसीदित्येषा यस्मान्न जातऽ इत्येषः ॥ ३ ॥
एषो ह देवः प्रदिशोऽनु सर्वाः पूर्वो ह जातः सऽ उ गर्भेऽ अन्तः ।
सऽ एव जातः स जनिष्यमाणः प्रत्यङ् जनास्तिष्ठति सर्वातोमुखः ॥ ४ ॥
यस्माज्जातं न पुरा किं चनैव य आबभूव भुवनानि विश्वा ।
प्रजापतिः प्रजया सँरराणस्त्रीणि ज्योतिँषि सचते स षोडशी ॥ ५ ॥
येन द्यौरुग्रा पृथिवी च दृढा येन स्व स्तभितं येन नाकः ।
योऽ अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥ ६ ॥
यं क्रन्दसीऽ अवसा तस्तभानेऽ अभ्यैक्षेतां मनसा रेजमाने ।
यत्राधि सूरऽ उदितो विभाति कस्मै देवाय हविषा विधेम ।
आपो ह यद्बृहतीर्यश्चिदापः ॥ ७ ॥
वेनस्तत्पश्यन्निहितं गुहा सद्यत्र विश्वं भवत्येकनीडम् ।
तस्मिन्निदँ सं च वि चैति सर्वं सऽ ओतः प्रोतश्च विभूः प्रजासु ॥ ८ ॥
प्र तद्वोचेदमृतं नु विद्वान्गन्धर्वो धाम विभृतं गुहा सत् ।
त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुः पितासत् ॥ ९ ॥
स नो बन्धुर्जनिता स विधाता धामानि वेद भुवनानि विश्वा ।
यत्र देवाऽ अमृतमानशानास्तृतीये धामन्नध्यैरयन्त ॥ १० ॥
परीत्य भूतानि परीत्य लोकान्परीत्य सर्वाः प्रदिशो दिशश्च ।
उपस्थाय प्रथमजामृतस्यात्मनात्मानमभि सं विवेश ॥ ११ ॥
परि द्यावापृथिवी सद्यऽ इत्वा परि लोकान्परि दिशः परि स्वः ।
ऋतस्य तन्तुं विततं विचृत्य तदपश्यत्तदभवत्तदासीत् ॥ १२ ॥
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् ।
सनिं मेधामयासिषँ स्वाहा ॥ १३ ॥
यां मेधां देवगणाः पितरश्चोपासते ।
तया मामद्य मेधयाग्ने मेधाविनं कुरु स्वाहा ॥ १४ ॥
मेधां मे वरुणो ददातु मेधामग्निः प्रजापतिः ।
मेधामिन्द्रश्च वायुश्च मेधां धाता ददातु मे स्वाहा ॥ १५ ॥
इदं मे ब्रह्म च क्षत्रं चोभे श्रियमश्नुताम् ।
मयि देवा दधतु श्रियमुत्तमां तस्यै ते स्वाहा ॥ १६ ॥
॥ इति द्वात्रिंशोऽध्याय ॥
ॐ तत् सत् |