शुक्ल यजुर्वेदः - षट्‌त्रिंशोऽध्यायः



ऋचं वाचं प्र पद्ये मनो यजुः प्र पद्ये साम प्राणं प्र पद्ये चक्षुः श्रोत्रं प्र पद्ये । वागोजः सहौजो मयि प्राणापानौ ॥ १ ॥ यन्मे छिद्रं चक्षुषो हृदयस्य मनसो वातितृण्णं बृहस्पतिर्मे तद्दधातु । शं नो भवतु भुवनस्य यस्पतिः ॥ २ ॥ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ ३ ॥ कया नश्चित्रऽ आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता ॥ ४ ॥ कस्त्वा सत्यो मदानां मँहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु ॥ ५ ॥ अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिः ॥ ६ ॥ कया त्वं न ऊत्याभि प्र मन्दसे वृषन् । कया स्तोतृभ्यऽ आ भर ॥ ७ ॥ इन्द्रो विश्वस्य राजति । शं नोऽ अस्तु द्विपदे शं चतुष्पदे ॥ ८ ॥ शं नो मित्रं शं वरुणः शं नो भवत्यर्यमा । शं नऽ इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥ ९ ॥ शं नो वातः पवताँ शं नस्तपतु सूर्यः । शं नः कनिक्रदद्देवः पर्जन्योऽ अभि वर्षतु ॥ १० ॥ अहानि शं भवन्तु नः शँ रात्रीः प्रति धीयताम् । शं नऽ इन्द्राग्नी भवतामवोभिः शं नऽ इन्द्रावरुणा रातहव्या । शं नऽ इन्द्रापूषणा वाजसातौ शमिन्द्रासोमा सुविताय शं योः ॥ ११ ॥ शं नो देवीरभिष्टयऽ आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः ॥ १२ ॥ स्योना पृथिवि नो भवानृक्षरा निवेशनी यच्छा नः शर्म सप्रथाः ॥ १३ ॥ आपो हि ष्ठा मयोभुवस्ता नऽ ऊर्जे दधातन । महे रणाय चक्षसे ॥ १४ ॥ यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ १५ ॥ तस्माऽ अरं गमाम वो यस्य क्षमाय जिन्वथ । आपो जनयथा च नः ॥ १६ ॥ द्यौः शान्तिरन्तरिक्षँ शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्वँ शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥ १७ ॥ दृते दृँह मा मित्रस्य मा चक्षुषा सर्वाणि भूतानि समीक्षन्ताम् । मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे । मित्रस्य चक्षुषा समीक्षामहे ॥ १८ ॥ दृते दृँह मा । ज्योक्ते सन्दृशि जीव्यासं ज्योक्ते सन्दृशि जीव्यासम् ॥ १९ ॥ नमस्ते हरसे शोचिषे नमस्तेऽ अस्त्वर्चिषे । अन्याँस्तेऽ अस्मत्तपन्तु हेतयः पावकोऽ अस्मभ्यँ शिवो भव ॥ २० ॥ नमस्तेऽ अस्तु विद्युते नमस्ते स्तनयित्नवे । नमस्ते भगवन्नस्तु यतः स्वः समीहसे ॥ २१ ॥ यतो यतः समीहसे ततो नोऽ अभयं कुरु । शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥ २२ ॥ सुमित्रिया नऽ आपऽ ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ॥ २३ ॥ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदः जीवेम शरदः शतँ शृणुयाम शरदः शतं प्र ब्रवाम शरदः शतमदीनाः स्याम शरदः शतं भूयश्च शरदः शतात् ॥ २४ ॥ ॥ इति षट्‍त्रिंशोऽध्याय ॥


ॐ तत् सत्



GO TOP