|
शुक्ल यजुर्वेदः - एकोनत्रिंशोऽध्यायः
समिद्धोऽ अञ्जन्कृदरं मतीनां घृतमग्ने मधुमत्पिन्वमानः ।
वाजी वहन्वाजिनं जातवेदो देवानां वक्षि प्रियमा सधस्थम् ॥ १ ॥
घृतेनाञ्जन्त्सं पथो देवयानान्प्रजानन्वाज्यप्येतु देवान् ।
अनु त्वा सप्ते प्रदिशः सचन्ताँ स्वधामस्मै यजमानाय धेहि ॥ २ ॥
ईड्यश्चासि वन्द्यश्च वाजिन्नाशुश्चासि मेध्यश्च सप्ते ।
अग्निष्ट्वा देवैर्वसुभिः सजोषाः प्रीतम् वह्निं वहतु जातवेदाः ॥ ३ ॥
स्तीर्णं बर्हिः सुष्टरीमा जुषाणोरु पृथु प्रथमानं पृथिव्याम् ।
देवेभिर्युक्तमदितिः सजोषाः स्योनं कृण्वाना सुविते दधतु ॥ ४ ॥
एताऽ उ वः सुभगा विश्वरूपा वि पक्षोभिः श्रयमाणाऽ उदातैः ।
ऋष्वाः सतीः कवषः शुम्भमाना द्वारो देवीः सुप्रायणा भवन्तु ॥ ५ ॥
अंतरा मित्रावरुणा चरंती मुखं यज्ञानामभि संविदाने ।
उषासा वाँ सुहिरण्ये सुशिल्पेऽ ऋतस्य योनाविह सादयामि ॥ ६ ॥
प्रथमा वाँ सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा ।
अपिप्रयं चोदना वां मिमाना होतारा ज्योतिः प्रदिशा दिशंता ॥ ७ ॥
आदित्यैर्नो भारती वष्टु यज्ञँ सरस्वती सह रुद्रैर्नऽ आवीत् ।
इडोपहूता वसुभिः सजोषा यज्ञं नो देवीरमृतेषु धत्त ॥ ८ ॥
त्वष्टा वीरं देवकामं जजान त्वष्टुरर्वा जायतऽ आशुरश्वः ।
त्वष्टेदं विश्वं भुवनं जजान बहोः कर्तारमिह यक्षि होतः ॥ ९ ॥
अश्वो घृतेन त्मन्या समक्तऽ उप देवाँ २ऽऽ ऋतुशः पाथऽ एतु ।
वनस्पतिर्देवलोकं प्रजानन्नग्निना हव्या स्वदितानि वक्षत् ॥ १० ॥
प्रजापतेस्तपसा वावृधानः सद्यो जातो दधिषे यज्ञमग्ने ।
स्वाहाकृतेन हविषा पुरोगा याहि साध्या हविरदन्तु देवाः ॥ ११ ॥
यदक्रन्दः प्रथमं जायमानऽ उद्यन्त्समुद्रादुत वा पुरीषात् ।
श्येनस्य पक्षा हरिणस्य बाहूऽ उपस्तुत्यं महि जातं तेऽ अर्वन् ॥ १२ ॥
यमेन दत्तं त्रितऽ एनमायुनगिन्द्रऽ एणं प्रथमोऽ अध्यतिष्टत् ।
गंधर्वोऽ अस्य रशनामगृभ्णात्सूरादश्वं वसवो निरतष्ट ॥ १३ ॥
असि यमोऽ अस्यादित्योऽ अर्वन्नसि त्रितो गुह्येन व्रतेन ।
असि सोमेन समया विपृक्तऽ आहुस्ते त्रीणि दिवि बंधनानि ॥१४ ॥
त्रीणि तऽ आहुर्दिवि बंधनानि त्रीण्यप्सु त्रीण्यन्तः समुद्रे ।
उतेव मे वरुणश्छन्त्स्यर्वन्यत्रा तऽ आहुः परमं जनित्रम् ॥ १५ ॥
इमा ते वाजिन्नवमार्जनानीमा शफानाँ सनितुर्निधाना ।
अत्रा ते भद्रा रशनाऽ अपश्यमृतस्य याऽ अभिरक्षन्ति गोपाः ॥ १६ ॥
आत्मानं ते मनसारादजानामवो दिवा पतयंतं पतङ्गम् ।
शिरोऽ अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि ॥ १७ ॥
अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिषऽ आ पदे गोः ।
यदा ते मर्त्तोऽ अनु भोगमानडादिद् ग्रसिष्ठऽ ओषधीरजीगः ॥ १८ ॥
अनु त्वा रथोऽ अनु मर्योऽ अर्वन्ननु गावोऽनु भगः कनीनाम् ।
अनु व्रातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते ॥ १९ ॥
हिरण्यशृङ्गोऽयोऽ अस्य पादा मनोजवाऽ अवरऽ इन्द्रऽ आसीत् ।
देवाऽ इदस्य हविरद्यमायन्योऽ अर्वन्तं प्रथमोऽ अध्यतिष्टत् ॥ २० ॥
ईर्मान्तासः शिलिकमध्यमासः सँ शूरणासो दिव्यासोऽ अत्याः ।
हँसाऽ इव श्रेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः ॥ २१ ॥
तव शरीरं पतयिष्ण्वर्वन्तव चित्तं वातऽ इव ध्रजीमान् ।
तव श्रृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥ २२ ॥
उप प्रागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः ।
अजः पुरो नीयते नाभिरस्यानु पश्चात्कवयो यन्ति रेभाः ॥ २३ ॥
उप प्रागात्परमं यत्सधस्थमर्वाँ २ऽ अच्छा पितरं मातरं च ।
अद्या देवाञ्जुष्टतमो हि गम्याऽ अथा शास्ते दाशुषे वार्याणि ॥ २४ ॥
समिद्धोऽ अद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः ।
आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः ॥ २५ ॥
तनूनपात्पथऽ ऋतस्य यानान्मध्वा समञ्जन्त्स्वदया सुजिह्व ।
मन्मानि धीभिरुत यज्ञमृन्धन्देवत्रा च कृणुह्यध्वरं नः ॥ २६ ॥
नराशँसस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैः ।
ये सुक्रतवः शुचयो धियन्धाः स्वदन्ति देवाऽ उभयानि हव्या ॥ २७ ॥
आजुह्वानऽ ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः ।
त्वं देवानामसि यह्व होता सऽ एनान्यक्षीषितो यजीयान् ॥ २८ ॥
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यतेऽ अग्रेऽ अह्नाम् ।
व्यु प्रथते वितरं वरीयो देवेभ्योऽ अदितये स्योनम् ॥ २९ ॥
व्यचस्वतीरुर्विया वि श्रयन्तां पथिभ्यो न जनयः शुम्भमानाः ।
देवीर्द्वारो बृहतीर्विश्वामिन्वा देवेभ्यो भवत सुप्रायणाः ॥ ३० ॥
आ सुष्वयन्ती यजतेऽ उपाकेऽ उषासानक्ता सदतां नि योनौ ।
दिव्ये योषणे बृहती सुरुक्मेऽ अधि श्रियँ शुक्रपिशं दधाने ॥ ३१ ॥
दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।
प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशंता ॥ ३२ ॥
आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयंती ।
तिस्रो देवीर्बर्हिरेदँ स्योनँ सरस्वती स्वपसः सदन्तु ॥ ३३ ॥
यऽ इमे द्यावापृथिवी जनित्री रूपैरषिँशद्भुवनानि विश्वा ।
तमद्य होतरिषितो यजीयान्देवं त्वष्टारमिह यक्षि विद्वान् ॥ ३४ ॥
उपावसृज त्मन्या समञ्जन्देवानां पाथऽ ऋतुथा हवीँषि ।
वनस्पतिः शमिता देवोऽ अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥ ३५ ॥
सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः ।
अस्य होतुः प्रदिश्यृतस्य वाचि स्वाहाकृतँ हविवरदन्तु देवाः ॥ ३६ ॥
केतुं कृण्वन्नकेतवे पेशो मर्याऽ अपेशसे । समुषद्भिरजायथाः ॥ ३७ ॥
जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदामुपस्थे ।
अनाविद्धया तन्वा जय त्वँ स त्वा वर्मणो महिमा पिपर्तु ॥ ३८ ॥
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम ।
धनुः शत्रोरपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥ ३९ ॥
वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना ।
योषेव शिङ्क्ते वितताधि धन्वञ्ज्या इयँ समने पारयन्ती ॥ ४० ॥
तऽ आचरंती समनेव योषा मातेव पुत्रं विभृतामुपस्थे ।
अप शत्रून्विध्यताँ संविदानेऽ आर्त्नीऽ इमे विष्फुरंतीऽ अमित्रान् ॥ ४१ ॥
वह्नीनां पिता बहुरस्य पुत्रश्चिश्चा कृणोति समनावगत्य ।
इषुधिः सङ्का पृतनाश्च सर्वाः पृष्टे निनद्धो जयति प्रसूतः ॥ ४२ ॥
रथे तिष्ठन्नयति वाजिनः पुरो यत्र यत्र कामयते सुषारथिः ।
अभीशूनां महिमानं पनायत मनः पश्चादनु यच्छन्ति रश्मयः ॥ ४३ ॥
तीव्रान्घोषान्कृण्वते वृषपाणयोऽश्वा रथेभिः सह वाजयन्तः ।
अवक्रामंतः प्रपदैरमित्रान्क्षिणन्ति शत्रँ १ऽ रनपव्ययन्तः ॥ ४४ ॥
रथवाहणं हविरस्य नाम यत्रायुधं निहितमस्य वर्म ।
तत्रा रथमुप शग्मँ सदेम विश्वाहा वयँ सुमनस्यमानाः ॥ ४५ ॥
स्वादुषँसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तिवन्तो गभीराः ।
चित्रसेनाऽ इषुबलाऽ अमृध्राः सतोवीराऽ उरवो व्रातसाहाः ॥ ४६ ॥
ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवीऽ अनेहसा ।
पूषा नः पातु दुरितादृतावृधो रक्षा माकिर्नोऽ अघशँसऽ ईशत ॥ ४७ ॥
सुपर्णं वस्ते मृगोऽ अस्या दन्तो गोभिः सन्नद्धा पतति प्रसूता ।
यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यमिषवः शर्म यँसन् ॥ ४८ ॥
ऋजीते परि वृङ्धि नोऽश्मा भवतु नस्तनूः ।
सोमोऽ अधि ब्रवीतु नोऽदितिः शर्म यच्छतु ॥ ४९ ॥
आ जङ्घन्ति सान्वेषां जघनाँ२ऽ उप जिघ्नते ।
अश्वाजनि प्रचेतसोऽश्वान्त्समत्सु चोदय ॥ ५० ॥
अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिवाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान्पुमाँसं परि पातु विश्वतः ॥ ५१ ॥
वनस्पते वीड्वङ्गो हि भूयाऽ अस्मत्सखा प्रतरणः सुवीरः ।
गोभिः सन्नद्धोऽ असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥ ५२ ॥
दिवः पृथिव्याः पर्योजऽ उद्भूतं वनस्पतिभ्यः पर्याभृतँ सहः ।
अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रँ हविषा रथं यज ॥ ५३ ॥
इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥ ५४ ॥
उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।
स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयोऽ अप सेध शत्रून् ॥ ५५ ॥
आ क्रन्दय बलमोजो नऽ आधा निष्टनिहि दुरिता बाधमानः ।
अप प्रोथ दुन्दुभे दुच्छुनाऽ इतऽ इन्द्रस्य मुष्टिरसि वीडयस्व ॥ ५६ ॥
आमूरज प्रत्यावर्तयेमाः केतुमद्दुदुभिर्वावदीति ।
समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥ ५७ ॥
आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौम्यः पौष्णः श्यामः शितिपृष्ठो बार्हस्पत्यः शिल्पो वैश्वदेवऽ
ऐन्द्रोऽरुणो मारुतः कल्माषऽ ऐन्द्राग्नः सँहितोऽधोरामः सावित्रो वारुणः कृष्णऽ एकशितिपात्पेत्वः ॥ ५८ ॥
अग्नयेऽनीकवते रोहिताञ्जिरनड्वानधोरामौ सावित्रौ पौष्णौ रजतनाभी वैश्वदेवौ पिशङ्गौ
तूपरौ मारुतः कल्माषऽ आग्नेयः कृष्णोऽजः सारस्वती मेषी वारुणः पेत्वः ॥ ५९ ॥
अग्नय गायत्राय त्रिवृते राथन्तरायाष्टाकपालऽ इन्द्राय त्रैष्टुभाय पञ्चदशाय बार्हतायैकादशकपालो विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो द्वादशकपालो मित्रावरुणाभ्यामानुष्टुभाभ्यामेकविँशाभ्यां वैराजाभ्यां पयस्या बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय चरुः सवित्रऽ औष्णिहाय त्रयस्त्रिँशाय रैवताय द्वादशकपालः प्राजापत्यश्चरुरादित्यै विष्णुपत्न्यै चरुरग्नये वैश्वानराय द्वादशकपालोऽनुमत्याऽ अष्टाकपालः ॥ ६० ॥
॥ इति एकोनविंशोऽध्यायः ॥
ॐ तत् सत् |