शुक्ल यजुर्वेदः - त्रिंशोऽध्यायः

शुक्ल यजुर्वेदः - त्रिंशोऽध्यायः



देव सवितः देव प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय । दिव्यो गंधर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाचं नः स्वदतु ॥ १ ॥ तत्सतुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ २ ॥ विश्वानि देव सवितर्दुरितानि परा सुव । यद्‍भद्रं तन्नऽ आ सुव ॥ ३ ॥ विभक्तारँ हवामहे वसोश्चित्रस्य राधसः । सवितारं नृचक्षसम् ॥ ४ ॥ ब्रह्मणे ब्राह्मणं क्षत्राय राजन्यं मरुद्‍भ्यो वैश्यं तपसे शूद्रं तमसे तस्करं नारकाय वीरहणं पाप्मने क्लीबमाक्रयायाऽ अयोगूं कामाय पुँश्चलूमतिक्रुष्टाय मागधम् ॥ ५ ॥ नृत्ताय सूतं गीताय शैलूषं धर्माय सभाचरं नरिष्ठायै भीमलं नर्माय रेभँ हसाय कारिमानन्दाय स्त्रीपखं प्रमदे कुमारीपुत्रं मेधायै रथकारं धैर्याय तक्षाणम् ॥ ६ ॥ तपसे कौलालं मायायै कर्मारँ रूपाय मणिकारँ शुभे वपँ शरव्यायाऽ इषुकारँ हेत्यै धनुष्कारं कर्मणे ज्याकारं दिष्टाय रज्जुसर्जं मृत्यवे मृगयुमन्तकाय श्वनिनम् ॥ ७ ॥ नदीभ्यं पौञ्जिष्ठमृक्षीकाभ्यो नैषादं पुरुषव्याघ्राय दुर्मदं गंधर्वाप्सरोभ्यो व्रात्यं प्रयुरभ्यऽ उन्मत्तँ सर्पदेवजनेभ्योऽप्रतिपदमयेभ्यः कितवमीर्यतायाऽ अकितवं पिशाचेभ्यो विदलकारीं यातुधानेभ्यः कण्टकीकारीम् ॥ ८ ॥ सन्धये जारं गेहायोपपतिमार्त्यै परिवित्तं निर्‍ऋत्यै परिविविदानमराध्याऽ एदिधिषुः पतिं निष्कृत्यै पेशस्कारीँ संज्ञानाय स्मरकारीं प्रकामोद्यायोपसदं वर्णायानुरुधं बलायोपदाम् ॥ ९ ॥ उत्सादेभ्यः कुब्जं प्रमुदे वामनं द्वार्भ्यः स्रामँ स्वप्नायान्धमधर्माय बधिरं पवित्राय भिषजं प्रज्ञानाय नक्षत्रदर्शमाशिक्षायै प्रश्निनमुपशिक्षायाऽ अभिप्रश्निनं मर्यादायै प्रश्नविवाकम् ॥ १० ॥ अर्मेभ्यो हस्तिपं जवायाश्वपं पुष्ट्यै गोपालं वीर्यायाविपालं तेजसेऽजपालमिरायै कीनाशं कीलालाय सुराकारं भद्राय गृहषँ श्रेयसे वित्तधमाध्यक्ष्यायानुक्षत्तारम् ॥ ११ ॥ भायै दार्वाहारं प्रभायाऽ अग्न्येधं बध्नस्य विष्टपायाभिषेक्तारं वर्षिष्ठाय नाकाय परिवेष्टारं देवलोकाय पेशितारं मनुष्यलोकाय प्रकरितारं सर्वेभ्यो लोकेभ्यऽ उपसेक्तारमवऽ ऋत्यै वधायोपमन्थितारं मेधाय वासःपल्पूलीं प्रकामाय रजयित्रीम् ॥ १२ ॥ ऋतये स्तेनहृदयं वैरहत्याय पिशुनं विविक्त्यै क्षत्तारमौपद्रष्ट्र्यायानुक्षत्तारं बलायानुचरं भूम्ने परिष्कन्दं प्रियाय प्रियवादिनमरिष्ट्याऽ अश्वसादँ स्वर्गाय लोकाय भागदुघं वर्षिष्ठाय नाकाय परिवेष्टारम् ॥ १३ ॥ मन्यवेऽयस्तापं क्रोधाय निसरं योगाय योक्तारं शोकायाभिसर्तारं क्षेमाय विमोक्तारमुत्कूलनिकूलेभ्यस्त्रिष्ठिनं वपुषे मानस्कृतं शीलायाञ्जनीकारीं निर्‍ऋत्यै कोशकारीं यमायासूम् ॥ १४ ॥ यमाय यमसूमथर्वभ्योऽवतोकाँ संवत्सराय पर्यायिणि परिवत्सरायाविजातामिदावत्सरायातीत्वरीमिद्वत्सरायातिष्कद्वरीं वत्सराय विजर्जराँ संवत्सराय पलिक्नीमृभुभ्योऽजिनसन्धँ साध्येभ्यश्चर्मम्नम् ॥ १५ ॥ मरोभ्यो धैवरमुपस्थावराभ्यो दाशं वैशन्ताभ्यो बैन्दं नड्वलाभ्यः शौष्कलं पाराय मार्गारमवाराय केवर्त तीर्थेभ्यऽ आंदं विषमेभ्यो मैनालं स्वनेभ्यः पर्णकं गुहाभ्यः किरातँ सानुभ्यो जम्भकं पर्वतेभ्यः किम्पूरुषम् ॥ १६ ॥ बीभत्सायै पौल्कसं वर्णाय हिरण्यकारं तुलायै वाणिजं पश्चादोषाय ग्लाविनं विश्वेभ्यो भूतेभ्यः सिध्मलं जागरणमभूत्यै स्वपनमार्त्यै जनवादिनं वृद्ध्याऽ अपगल्भँ सँशराय प्रच्छिदम् ॥ १७ ॥ अक्षराजाय कितवं कृतायादिनवदर्शं त्रेतायै कल्पिनं द्वापरायाधिकल्पिनमास्कन्दाय सभास्थाणुं मृत्यवे गोव्यच्छमन्तकाय गोघातं क्षुधे यो गां विकृन्तन्तं भिक्षमाणऽ उपतिष्ठति दुष्कृताय चरकाचार्यं पाप्मने सैलगम् ॥ १८ ॥ प्रतिश्रुत्कायाऽ अर्तनं घोषाय भषमन्ताय बहुवादिनमनन्ताय मूकँ शब्दायाडम्बराघातं महसे वीणावादं क्रोशाय तूणवध्ममवरस्पराय शङ्‍खध्मं वनाय वनपमन्यतोरण्याय दावपम् ॥ १९ ॥ नर्माय पुँश्चलूँ हसाय कारिं यादसे शाबल्यां ग्रामण्यं गणकमभिक्रोशकं तान्महसे वीणावादं पाणिघ्नं तूणवध्मं तान्नृत्तायानन्दाय तलवम् ॥ २० ॥ अग्नये पीवानं पृथिव्यै पीठसर्पिणं वायवे चाण्डालमन्तरिक्षाय वँशनर्तिनं दिवे खलतिँ सूर्याय हर्यक्षं नक्षत्रेभ्यः किर्मिरं चंद्रमसे किलासमह्ने शुक्लं पिङ्‍गाक्षँ रात्र्यै कृष्णं पिङ्‍गाक्षम् ॥ २१ ॥ अथैतानष्टौ विरूपाना लभतेऽतिदीर्घं चातिह्रस्वं चातिस्थूलं चातिकृशं चातिशुक्लं चातिकृष्णं चातिकुल्वं चातिलोमशं च । अशूद्राऽ अब्राह्मणास्ते प्राजापत्याः । मागधः पुँश्चली कितवः क्लीबोऽशूद्राऽ अब्राह्मणास्ते प्राजापत्याः ॥ २२ ॥ ॥ इति त्रिंशोऽध्याय ॥


ॐ तत् सत्



GO TOP