|
शुक्ल यजुर्वेदः - अष्टाविंशोऽध्यायः
होता यक्षत्समिधेन्द्रमिडस्पदे नभा पृथिव्याऽ अधि ।
दिवो वर्ष्मन्त्समिध्यतऽ ओजिष्ठश्चर्षणीसहां वेत्वाज्यस्य होतर्यज ॥ १ ॥
होता यक्षत्तनूनपातमूतिभिर्जेतारमपराजितम् ।
इंद्रं देवँ स्वर्विदं पथिभिर्मधुमत्तमैर्नराशँसेन तेजसा वेत्वाज्यस्य होतर्यज ॥ २ ॥
होता यक्षदिडाभिरिंद्रमीडितमाजुह्वानममर्त्यम् ।
देवो देवैः सवीर्यो वज्रहस्तः पुरंदरो वेत्वाज्यस्य होतर्यज ॥ ३ ॥
होता यक्षद्बर्हिषीन्द्रं निषद्वरं वृषभं नर्यापसम् ।
वसुभी रुद्रैरादित्यैः सयुग्भिर्बर्हिरासदद्वेत्वाज्यस्य होतर्यज ॥ ४ ॥
होता यक्षदोजो न वीर्यँ सहो द्वारऽइंद्रमवर्धयन् ।
सुप्रायणाऽ अस्मिन्यज्ञे वि श्रयन्तामृतावृधो द्वारऽ इंद्राय मीढुषे व्यन्त्वाज्यस्य होतर्यज ॥ ५ ॥
होता यक्षदुषेऽ इंद्रस्य धेनू सुदुधे मातरा मही ।
सवातरौ न तेजसा वत्समिन्द्रमवर्धतां वीतामाज्यस्य होतर्यज ॥६ ॥
होता यक्षद्दैव्या होतारा भिषजा सखाया हविषेन्द्रं भिषज्यतः ।
कवी देवौ प्रचेतसाविन्द्राय धत्तऽ इंद्रियं वीतामाज्यस्य होतर्यज ॥ ७ ॥
होता यक्षत्तिस्रो देवीर्न भेषजं त्रयस्त्रिधातवोऽपसऽ इडा सरस्वती भारती महीः ।
इंद्रपत्नीर्हविष्मतीर्व्यन्त्वाज्यस्य होतर्यज ॥ ८ ॥
होता यक्षत्त्वष्टारमिंद्रं देवं भिषजँ सुयजं घृतश्रियम् ।
पुरुरूपँ सुरेतसं मघोनमिंद्राय त्वष्टा दधदिंद्रियाणि वेत्वाज्यस्य होतर्यज ॥ ९ ॥
होता यक्षद्वनस्पतिँ शमितारँ शतक्रतुं धियो जोष्टारमिंद्रियम् ।
मध्वा समञ्जन्पथिभिः सुगेभिः स्वदाति यज्ञं मधुना घृतेन वेत्वाज्यस्य होतर्यज ॥ १० ॥
होता यक्षदिंद्रँ स्वाहाजस्य स्वाहा मेदसः स्वाहा स्तोकानाँ स्वाहा स्वाहाकृतीनाँ स्वाहा हव्यसूक्तीनाम् ।
स्वाहा देवाऽ आज्यपा जुषाणाऽ इंद्रऽ आज्यस्य व्यन्तु होतर्यज ॥ ११ ॥
देवं बर्हिरिंद्रँ सुदेवं देवैर्वीरवत्स्तीर्णं वेद्यामवर्धयत् ।
वस्तोर्वृतं प्राक्तोर्भृतँ राया बर्हिष्मतोऽत्यगाद्वसुवने वसुधेयस्य वेतु यज ॥ १२ ॥
देवीर्द्वारऽ इंद्रँ सङ्घाते वीड्वीर्यामन्नवर्धयन् ।
आ वत्सेन तरुणेन कुमारेण च मीवतापार्वाणँ रेणुककाटं नुदन्तां वसुवने वसुधेयस्य व्यन्तु यज ॥ १३ ॥
देवी उषासानक्तेन्द्रं यज्ञे प्रयत्यह्वेताम् ।
दैवीर्विशः प्रायासिष्टाँ सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज ॥ १४ ॥
देवी जोष्ट्री वसुधिती देवमिन्द्रमवर्धताम् ।
अयाव्यन्याघा द्वेषाँस्यान्या वक्षद्वसु वार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीतां यज ॥ १५ ॥
देवीऽ ऊर्जाहुती दुघे सुदुघे पयसेंद्रमवर्धताम् ।
इषमूर्जमन्या वक्षत्सग्धिँ सपीतिमन्या नवेन पूर्वं दयमाने पुराणेन नवमधातामूर्जमूर्जाहुतीऽ ऊर्जयमाने
वसु वार्याणि यजमानाय शिक्षिते वसुवने वसुधेयस्य वीतां यज ॥ १६ ॥
देवा दैव्या होतारा देवमिंद्रमवर्धताम् ।
हुताघशँसावाभार्ष्टां वसु वार्याणि यजमानाय शिक्षितौ वसुवने वसुधेयस्य वीतां यज ॥ १७ ॥
देवीस्तिस्रस्तिस्रो देवीः पतिमिंद्रमवर्धयन् ।
अस्पृक्षद्भारती दिवँ रुद्रैर्यज्ञँ सरस्वतीडा वसुमती गृहान्वसुवने वसुधेयस्य व्यन्तु यज ॥ १८ ॥
देवऽ इंद्रो नराशँसस्त्रिवरूथस्त्रिबन्धुरो देवमिंद्रमवर्धयत् ।
शतेन शितिपृष्ठानामाहितः सहस्रेण प्र वर्तते मित्रावरुणेदस्य होत्रमर्हतो बृहस्पति
स्तोत्रमश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज ॥ १९ ॥
देवो देवैर्वनस्पतिर्हिरण्यपर्णो मधुशाखः सुपिप्पलो देवमिन्द्रमर्धयत् ।
दिवमग्रेणास्पृक्षदान्तरिक्षं पृथिवीमदृँहीद्वसुवने वसुधेयस्य वेतु यज ॥ २० ॥
देवं बर्हिर्वारितीनां देवमिंद्रमवर्धयत् ।
स्वासस्थमिंद्रेणासन्नमन्या बर्हिँष्यभ्यभूद्वसुवने वसुधेयस्य वेतु यज ॥२१ ॥
देवोऽ अग्निः स्विष्टकृद्देवमिंद्रमवर्धयत् ।
स्विष्टं कुर्वन्त्स्विष्टकृत्स्विष्टमद्य करोतु नो द्वसुवने वसुधेयस्य वेतु यज ॥ २२ ॥
अग्निमद्य होतारमवृणीतायं यजमानः पचन्पक्तीः पचन्पुरोडाशं बध्नन्निन्द्राय छागम् ।
सूपस्थाऽ अद्य देवो वनस्पतिरभवदिंद्राय छागेन ।
अघत्तं मेदस्तः प्रति पचताग्रभीदवीवृधत्पुरोडाशेन । त्वामद्यऽ ऋषे ॥ २३ ॥
होता यक्षत्समिधानं महद्यशः सुसमिद्धं वरेण्यमग्निमिंद्रं वयोधसम् ।
गायत्रीं छन्द्रऽइद्रियं त्र्यविं गां वयो दधद्वेत्वाज्यस्य होतर्यज ॥ २४ ॥
होता यक्षत्तनूनपातमुद्भिदं यं गर्भमदितिर्दधे शुचिमिंद्रं वयोधसम् ।
उष्णिहं छन्दऽ इंद्रियं दित्यवाहं गां वयो दधद्वेत्वाज्यस्य होतर्यज ॥२५ ॥
होता यक्षदीडेन्यमीडितं वृत्रहन्तममिडाभिरीड्यँ सहः सोममिंद्रं वयोधसम् ।
अनुष्टुभं छन्दऽ इंद्रियं पञ्चाविं गां वयो दधद्वेत्वाज्यस्य होतर्यज ॥ २६ ॥
होता यक्षत्सुबर्हिषं पूषण्वन्तममर्त्यँ सीदन्तं बर्हिषि प्रियेऽमृतेन्द्रं वयोधसम् ।
बृहतीं छन्दऽ इन्द्रियं त्रिवत्सं गां वयो दधद्वेत्वाज्यस्य होतर्यज ॥ २७ ॥
होता यक्षद्व्यचस्पतिः सुप्रायणाऽ ऋतोवृधो द्वारो देवीर्हिरण्ययीर्ब्रह्माणमिंद्रं वयोधसम् ।
पंक्तिं छन्दऽ इहेन्द्रियं तुर्यवाहं गां वयो दधद्व्यन्त्वाज्यस्य होतर्यज ॥ २८ ॥
होता यक्षत्सुपेशसा सुशिल्पे बृहतीऽ उभे नक्तोषासा न दर्शते विश्वमिंद्रं वयोधसम् ।
त्रिष्टुभं छन्दऽ इहेन्द्रियं पष्ठवाहं गां वयो दधद्वीतामाज्यस्य होतर्यज ॥ २९ ॥
होता यक्षत्प्रचेतसा देवानामुत्तमं यशो होतारा दैव्या कवी सयुजेन्द्रं वयोधसम् ।
जगतीं छन्दऽ इंद्रियमनड्वाहं गां वयो दधद्वीतामाज्यस्य होतर्यज ॥ ३० ॥
होता यक्षत्पेशस्वतीस्तिस्रो देवीर्हिरण्ययीर्भारतीर्बृहतीर्महीः पतिमिन्द्रं वयोधसम् ।
विराजं छन्दऽ इहेन्द्रियं धेनुं गां न वयो दधद्व्यन्त्वाज्यस्य होतर्यज ॥ ३१ ॥
होता यक्षत्सुरेतसं त्वष्टारं पुष्टिवर्धनं रूपाणि बिभ्रतं पृथक् पुष्टिमिन्द्रं वयोधसम् ।
द्विपदं छन्दऽ इन्द्रियमुक्षाणं गां न वयो दधद्वेत्वाज्यस्य होतर्यज ॥ ३२ ॥
होता यक्षत्वनस्पतिँ शमितारँ शतक्रतुँ हिरण्यपर्णमुक्थिनँ रशनां बिभ्रतं वशिं भगमिन्द्रं वयोधसम् ।
ककुभं छन्दऽ इहेन्द्रियं वशां वेहतं गां वयो दधद्वेत्वाज्यस्य होतर्यज ॥ ३३ ॥
होता यक्षत्स्वाहाकृतीरग्निं गृहपतिं पृथग्वरुणं भेषजं कविं क्षत्रमिन्द्रं वयोधसम् ।
अतिच्छन्दसं छन्दऽ इन्द्रियं बृहदृषभं गां वयो दधद्व्यन्त्वाज्यस्य होतर्यज ॥ ३४ ॥
देवं बर्हिर्वयोधसं देवमिंद्रमवर्धयत् ।
गायत्र्या छन्दसेन्द्रियं चक्षुरिन्द्रे वयो दधद्वसुवने वसुधेयस्य वेतु यज ॥ ३५ ॥
देवीर्द्वारो वयोधसँ शुचिभिन्द्रमवर्धयन् ।
उष्णिहा छन्दसेन्द्रियं प्राणमिन्द्रे वयो दधद्वसुवने वसुधेयस्य व्यन्तु यज ॥ ३६ ॥
देवीऽ उषासानक्ता देवमिन्द्रं वयोधसं देवी देवमवर्धताम् ।
अनुष्टुभा छन्दसेन्द्रियं बलमिन्द्रे वयो दधद्वसुवने वसुधेयस्य वीतां यज ॥ ३७ ॥
देवी जोष्ट्री वसुधिती देवमिन्द्रं वयोधसं देवी देवमवर्धताम् ।
बृहत्या छन्दसेन्द्रियँ श्रोत्रमिन्द्रे वयो दधद्वसुवने वसुधेयस्य वीतां यज ॥ ३८ ॥
देवीऽ ऊर्जाहुती दुघे सुदुघे पयसेन्द्रं वयोधसं देवी देवमवर्धताम् ।
पङ्क्त्या छन्दसेन्द्रियँ शुक्रमिन्द्रे वयो दधद्वसुवने वसुधेयस्य वीतां यज ॥ ३९ ॥
देवा दैव्या होतारा देवमिन्द्रं वयोधसं देवौ देवमवर्धताम् ।
त्रिष्टुभा छन्दसेन्द्रियं त्विषिमिन्द्रे वयो दधद्वसुवने वसुधेयस्य वीतां यज ॥ ४० ॥
देवीस्तिस्रस्तिस्रो देवीर्वयोधसं पतिमिन्द्रमवर्धयन् ।
जगत्या छन्दसेन्द्रियँ शूषमिन्द्रे वयो दधद्वसुवने वसुधेयस्य व्यन्तु यज ॥ ४१ ॥
देवो नराशँसो देवमिन्द्रं वयोधसं देवो देवमवर्धयत् ।
विराजा छन्दसेन्द्रियँ रूपमिन्द्रे वयो दधद्वसुवने वसुधेयस्य वेतु यज ॥ ४२ ॥
देवो वनस्पतिर्देवमिन्द्रं वयोधसं देवो देवमवर्धयत् ।
द्विपदा छन्दसेन्द्रियँ भगमिन्द्रे वयो दधद्वसुवने वसुधेयस्य वेतु यज ॥ ४३ ॥
देवं बर्हिर्वारितीनां देवमिन्द्रं वयोधसं देवं देवमवर्धयत् ।
ककुभा छन्दसेन्द्रियँ यशऽ इन्द्रे वयो दधद्वसुवने वसुधेयस्य वेतु यज ॥ ४४ ॥
देवोऽ अग्निः स्विष्टकृद्देवमिन्द्रं वयोधसं देवो देवमवर्धयत् ।
अतिछन्दसा छन्दसेन्द्रियँ क्षत्रमिन्द्रे वयो दधद्वसुवने वसुधेयस्य वेतु यज ॥ ४५ ॥
अग्निमद्य होतारमवृणीतायं यजमानः पचन्पक्तिः पचन्पुरोडाशं बध्नन्निन्द्राय वयोधसे छागम् ।
सूपस्थाऽ अद्य देवो वनस्पतिरभवदिन्द्राय वयोधसे छागेन ।
अघत्तं मेदस्तः प्रतिपचताग्रभीदवीवृधत्पुरोडाशेन । त्वामद्यऽ ऋषे ॥ ४६ ॥
॥ इति अष्टाविंशोध्याऽयः ॥
ॐ तत् सत् |