|
शुक्ल यजुर्वेदः - सप्तविंशोऽध्यायः
समास्त्वाग्नऽ ऋतवो वर्धयन्तु संवत्सराऽ ऋषयो यानि सत्या ।
सं दिव्येन दीदिहि रोचनेन विश्वाऽ आ भाहि प्रदिशश्चतस्रः ॥ १ ॥
सं चेध्यस्वाग्ने प्र च बोधयैनमुच्च तिष्ठ महते सौभगाय ।
मा च रिषदुपसत्ता तेऽ अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये ॥ २ ॥
त्वामग्ने वृणते ब्राह्मणाऽ इमे शिवोऽ अग्ने संवरणे भवा नः ।
सपत्नहा नोऽ अभिमातिजिच्च स्वे गये जागृह्यप्रयुच्छन् ॥ ३ ॥
इहैवाग्नेऽ अधि धारया रयिं मा त्वा नि क्रन्पूर्वचितो निकारिणः ।
क्षत्रमग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां तेऽ अनिष्टृतः ॥ ४ ॥
क्षत्रेणाग्ने स्वायुः सँ रभस्व मित्रेणाग्ने मित्रधेये यतस्व ।
सजातानां मध्यमस्थाऽ एधि राज्ञयामग्ने विहव्यो दीदिहीह ॥ ५ ॥
अति निहोऽ अति स्रिधोऽत्यचित्तिमत्यरातिमग्ने ।
विश्वा ह्यग्ने दुरिता सहस्वाथास्मभ्यँ सहवीराँ रयिं दाः ॥ ६ ॥
अनाधृष्यो जातवेदाऽ अनिष्टृतो विराडग्ने क्षत्रभृद्दीदिहीह ।
विश्वाऽ आशाः प्रमुञ्चन्मानुषीर्भियः शिवेभिरद्य परि पाहि नो वृधे ॥ ७ ॥
बृहस्पते सवितर्योधयैनँ सँशितं चित्सन्तराँ सँ शिशाधि ।
वर्धयैनं महते सौभगाय विश्वऽ एनमनु मदन्तु देवा ॥ ८ ॥
अमुत्रभूयादध यद्यमस्य बृहस्पतेऽ अभिशस्तेरमुञ्चः ।
प्रत्यौहतामश्विना मृत्युमस्माद्देवानामग्ने भिषजा शचीभिः ॥ ९ ॥
उद्वयन्तमसस्परि स्वः पश्यन्तऽ उत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ १० ॥
ऊर्ध्वाऽ अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचीँष्यग्नेः ।
द्युमत्तमा सुप्रतीकस्य सूनोः ॥ ११ ॥
तनूनपादसुरो विश्ववेदा देवो देवेषु देवः । पथो अनक्तु मध्वा घृतेन ॥ १२ ॥
मध्वा यज्ञं नक्षसे प्रीणानो नराशँसोऽ अग्ने । सुकृद्देवः सविता विश्ववारः ॥ १३ ॥
अच्छायमेति शवसा घृतेनेडानो वह्निर्नमसा । अग्निँ स्रुचोऽ अध्वरेषु प्रयत्सु ॥ १४ ॥
स यक्षदस्य महिमानमग्नेः सऽ ईं मन्द्रा सुप्रयसः । वसुश्चेतिष्ठो वसुधातमश्च ॥ १५ ॥
द्वारो देवीरन्वस्य विश्वे व्रता ददन्तेऽ अग्नेः । उरुव्यचसो धाम्ना पत्यमानाः ॥ १६ ॥
तेऽ अस्य योषणे दिव्ये न योनाऽ उषासानक्ता । इमं यज्ञमवतामध्वरं नः ॥ १७ ॥
दैव्या होताराऽ ऊर्ध्वमध्वरं नोऽग्नेर्जिह्वामभि गृणीतम् । कृणुतं नः स्विष्टिम् ॥ १८ ॥
तिस्रो देवीर्बर्हिरेदँ सदन्त्विडा सरस्वती भारती । मही गृणाना ॥ १९ ॥
तन्नस्तुरीपमद्भुतं पुरुक्षु त्वष्टा सुवीर्यम् । रायस्पोषं वि ष्यतु नाभिमस्मे ॥ २० ॥
वनस्पतेऽव सृजा रराणस्त्मना देवेषु अग्निर्हव्यँ शमिता सूदयाति ॥ २१ ॥
अग्ने स्वाहा कृणुहि जातवेदऽ इन्द्राय हव्यम् । विश्वे देवा हविरिदं जुषन्ताम् ॥ २२ ॥
पीवोऽ अन्ना रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः ।
ते वायवे समनसो वि तस्थुर्विश्वेन्नरः स्वपत्यानि चक्रुः ॥ २३ ॥
राये नु यं जज्ञतु रोदसीमे राये देवी धिषणा धाति देवम् ।
अध वायुं नियुतः सश्चत स्वाऽ उत श्वेतं वसुधितिं निरेके ॥ २४ ॥
आपो ह यद्बृहतीर्विश्वमायन्गर्भं दधाना जनयन्तीरग्निम् ।
ततो देवानाँ समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥ २५ ॥
यश्चिदापो महिना पर्यपश्यद्दक्षं दधाना जनयन्तीर्यज्ञम् ।
यो देवेष्वधि देवऽ एकऽ आसीत्कस्मै देवाय हविषा विधेम ॥ २६॥
प्र याभिर्यासि दाश्वाँसमच्छा नियुद्भिर्वायविष्टये दुरोणे ।
नि नो रयिँ सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः ॥ २७ ॥
आ नो नियुद्भिः शतिनीभिरध्वरँ सहस्रिणीभिरुप याहि यज्ञम् ।
वायोऽ अस्मिन्त्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥ २८ ॥
नियुत्वान्वायवा गह्ययँ शुक्रोऽ अयामि ते । गन्तासि सुन्वतो गृहम् ॥ २९ ॥
वायो शुक्रोऽ अयामि ते मध्वोऽ अग्रं दिविष्टिषु ।
आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥ ३० ॥
वायुरग्रेगा यज्ञप्रीः साकं गन्मनसा यज्ञम् । शिवो नियुद्भिः शिवाभिः ॥ ३१ ॥
वायो ये ते सहस्रिणो रथासस्तेभिरा गहि । नियुत्वान्त्सोमपीतये ॥ ३२ ॥
एकया च दशभिश्च स्वभूते द्वाभ्यामिष्टये विँशती च ।
तिसृभिश्च वहसे त्रिँशता च नियुद्भिर्वायविह ता वि मुञ्च ॥३३ ॥
तव वायवृतस्पते त्वष्टुर्जामातरद्भुत । अवाँस्या वृणीमहे ॥ ३४ ॥
अभि त्वा शूर नोनुमोऽदुग्धाऽ इव धेनवः ।
ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥ ३५ ॥
न त्वावाँ २ऽ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥ ३६ ॥
त्वामिद्धि हवामहे सातौ वाजस्य कारवः ।
त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥ ३७ ॥
स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानोऽ अद्रिवः ।
गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥ ३८ ॥
कया नश्चित्रऽ आ भुवदूती सदावृधः सखा । कया शचिष्ठया वृता ॥ ३९ ॥
कस्त्वा सत्यो मदानां मँहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु ॥ ४० ॥
अभि षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतये ॥ ४१ ॥
यज्ञा यज्ञा वोऽ अग्नये गिरा गिरा च दक्षसे ।
प्र प्र वयममृतं जातवेदसं प्रियं मित्रं न शँसिषम् ॥ ४२ ॥
पाहि नोऽ अग्नऽ एकया पाह्युत द्वितीयया ।
पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥ ४३ ॥
ऊर्जो नपातँ स हिनायमस्मयुर्दाशेम हव्यदातये ।
भुवद्वाजेष्वविता भुवद्वृधऽ उत त्राता तनूनाम् ॥ ४४ ॥
संवत्सरोऽसि परिवत्सरोऽसीदावत्सरोऽसीद्वत्सरोऽसि वत्सरोऽसि । उषसस्ते कल्पन्तामहोरात्रास्ते कल्पन्तामर्धमासास्ते कल्पन्तां मासास्ते कल्पन्तामृतवस्ते कल्पन्ताँ संवत्सरस्ते कल्पन्ताम् । प्रेत्याऽ एत्यै सं चाञ्च प्र च सारय । सुपर्णचिदसि तया देवतयाङ्गिरस्वद् ध्रुवः सीद ॥ ४५ ॥
॥ इति सप्तविंशोध्याऽयः ॥
ॐ तत् सत् |