![]()  | 
|  
 शुक्ल यजुर्वेदः - षड्विंशोऽध्यायः 
अग्निश्च पृथिवी च सन्नते ते मे सं नमतामदो वायुश्चाऽन्तरिक्षं च सन्नते ते मे सं नमतामदऽ आदित्यश्च द्यौश्च सन्नते ते मे सं नमतामदऽ आपश्च वरुणश्च सन्नते ते मे सं नमतामदः । सप्त सँसदोऽ अष्टमी भूतसाधनी सकामाँ २ऽ अध्वनस्कुरु संज्ञानमस्तु मेऽमुना ॥ १ ॥ 
यथेमां वाचं कल्याणीमावदानि जनेभ्यः । ब्रह्मराजन्याभ्याँ शूद्राय चार्याय च स्वाय चारणाय च । प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृध्यतामुप मादो नमतु ॥ २ ॥ 
बृहस्पतेऽ अति यदर्योऽ अर्हाद् द्युमद्विभाति ऋतुमज्जनेषु । यद्दिदयच्छवसऽ ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् । उपयामगृहितोऽसि बृहस्पतये त्वैष ते योनिर्बृहस्पतये त्वा ॥ ३ ॥ 
इंद्र गोमन्निहा याहि पिबा सोमँ शतक्रतो । विद्यद्भिर्ग्रावभिः सुतम् । उपयामगृहीतोऽसीन्द्राय त्वा गोमतऽ एष ते योनिरिन्द्राय त्वा गोमते ॥ ४ ॥ 
इन्द्रा याहि वृत्रहन्पिबा सोमँ शतक्रतो । गोमद्भिर्ग्रावभिः सुतम् । 
उपयामगृहीतोऽसीन्द्राय त्वा गोमतऽ एष ते योनिरिन्द्राय त्वा गोमते ॥ ५ ॥ 
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । अजस्रं घर्ममीमहे । 
उपयामगृहीतोऽसि वैश्वानराय त्वैष ते योनिर्वैश्वानराय त्वा ॥ ६ ॥ 
वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः । 
इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण । 
उपयामगृहीतोऽसि वैश्वानराय त्वैष ते योनिर्वैश्वानराय त्वा ॥ ७ ॥ 
वैश्वानरो नऽ ऊतयऽ आ प्र यातु परावतः । अग्निरुक्थेन वाहसा । 
उपयामगृहीतोऽसि वैश्वानराय त्वैष ते योनिर्वैश्वानराय त्वा ॥ ८ ॥ 
अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयम् । 
उपयामगृहीतोऽस्यग्नये त्वा वर्चसऽ एष ते योनिरग्नये त्वा वर्चसे ॥ ९ ॥ 
महाँ २ऽ इन्द्रो वज्रहस्तः षोडशी शर्म यच्छतु । हन्तु पाप्मानं योऽस्मान्द्वेष्टि । 
उपयामगृहितोऽसि महेन्द्राय त्वैष ते योनिर्महेन्द्राय त्वा ॥ १० ॥ 
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
अभि वत्सं न स्वसरेषु धेनवऽ इन्द्रं गीर्भिर्नवामहे ॥ ११ ॥ 
यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो । महिषीव त्वद्रयिस्त्वद्वाजाऽ उदीरते ॥ १२ ॥ 
एह्यू षु ब्रवाणि तेऽग्नऽ इत्थेतरा गिरः । एभिर्वर्धासऽ इन्दुभिः ॥ १३ ॥ 
ऋतवस्ते यज्ञं वि तन्वन्तु मासा रक्षन्तु ते हविः । 
संवत्सरस्ते यज्ञं दधातु नः प्रजां च परि पातु नः ॥ १४ ॥ 
उपह्वरे गिरीणाँ सङ्गमे च नदीनाम् । धिया विप्रोऽ अजायत ॥ १५ ॥ 
उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे । उग्रँ शर्म महि श्रवः ॥ १६ ॥ 
स नऽ इन्द्राय यज्यवे वरुणाय मरुद्भ्यः । वरिवोवित्परि स्रव ॥ १७ ॥ 
एना विश्वान्यर्यऽ आ द्युम्नानि मानुषाणाम् । सिषासन्तो वनामहे ॥ १८ ॥ 
अनु वीरैरनु पुष्यास्म गोभिरन्वश्वैरनु सर्वेण पुष्टैः । 
अनु द्विपदानु चतुष्पदा वयं देवा नो यज्ञमृतुथा नयन्तु ॥ १९ ॥ 
अग्ने पत्नीरिहा वह देवानामुशतीरुप । त्वष्टारँ सोमपीतये ॥ २० ॥ 
अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिबऽ ऋतुना । त्वँ हि रत्नधाऽ असि ॥ २१ ॥ 
द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । नेष्ट्रादृतुभिरिष्यत ॥ २२ ॥ 
तवायँ सोमस्त्वमेह्यर्वाङ् शश्वत्तमँ सुमनाऽ अस्य पाहि । 
अस्मिन्यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठरऽ इन्दुमिन्द्र ॥ २३ ॥ 
अमेव नः सुहवाऽ आ हि गन्तन नि बर्हिषि सदतना रणिष्टन । 
अथा मदस्व जुजुषाणोऽ अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः ॥ २४ ॥ 
स्वादिष्ठया मदिष्ठया पवस्व सोम धारया । इन्द्राय पातवे सुतः ॥ २५ ॥ 
रक्षोहा विश्वचर्षणिरभि योनिमयोहते । द्रोणे सधस्थमासदत् ॥ २६ ॥ 
॥ इति षड्विंशोऽध्याऽयः ॥ 
 ॐ तत् सत्  |