शुक्ल यजुर्वेदः - पञ्चविंशोध्यायः

शुक्ल यजुर्वेदः - पञ्चविंशोध्यायः



शादं दद्‍भिरवकां दन्तमुलैर्मृदं बर्स्वैस्तेगान्दँष्ट्राभ्याँ सरस्वत्याऽ अग्रजिह्वं जिह्वायाऽ उत्सादमवक्रन्देन तालु वाजँ हनुभ्यामपऽ आस्येन वृषणमाण्डाभ्यामादित्याँ श्मश्रुभिः पन्थानं भ्रूभ्यां द्यावापृथिवी वर्तोभ्यां विद्युतं कनीनकाभ्याँ शुक्लाय स्वाहा कृष्णाय स्वाहा पार्याणि पक्ष्माण्यवार्याऽ इक्षवोऽवार्याणि पक्ष्माणि पार्याऽ इक्षवः ॥ १ ॥ वातं प्राणेनापानेन नासिकेऽ उपयाममधरेणौष्ठेन सदुत्तरेण प्रकाशेनान्तरमनूकाशेन बाह्यं निवेष्यं मूर्ध्ना स्तनयित्नुं निर्बाधेनाशनिं मस्तिष्केण विद्युतं कनीनकाभ्यां कर्णाभ्यां श्रोत्रँ श्रोत्राभ्यां कर्णौ तेदनीमधरकण्ठेनापः शुष्ककण्ठेन चित्तं मन्याभिरदितिँ शीर्ष्णा निर्‍ऋतिं निर्जर्जल्येन शीर्ष्णा संक्रोशैः प्राणान्‍रेष्माणँ स्तुपेन ॥ २ ॥ मशकान्केशैरिन्द्रं स्वपसा वहेन बृहस्पतिँ शकुनिसादेन कूर्माञ्छफैराक्रमणँ स्थुराभ्यामृक्षलाभिः कपिञ्जलाञ्जवं जङ्‍घाभ्यामध्वानं बाहुभ्यां जाम्बीलेनारण्यमग्निमतिरुग्भ्यां पूषणं दोर्भ्यामश्विनावँसाभ्याँ रुद्रँ रोराभ्याम् ॥ ३ ॥ अग्नेः पक्षतिर्वायोर्निपक्षतिरिन्द्रस्य तृतीया सोमस्य चतुर्थ्यदित्यै पञ्चमीन्द्राणै षष्ठी मरुताँ सप्तमी बृहस्पतेरष्टम्यर्यम्णो नवमी धातुर्दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यमस्य त्रोयोदशी ॥४ ॥ इन्द्राग्न्योः पक्षतिः सरस्वत्यै निपक्षतिर्मित्रस्य तृतीयापां चतुर्थी निर्‍ऋत्यै पञ्चम्यग्नीषोमयोः षष्ठी सर्पाणाँ सप्तमी विष्णोरष्टमी पूष्णो नवमी त्वष्टुर्दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यम्यै त्रयोदशी द्यावापृथिव्योर्दक्षिणं पार्श्वं विश्वेषां देवानामुत्तरम् ॥ ५ ॥ मरुताँ स्कन्धा विश्वेषां देवानां प्रथमा कीकसा रुद्राणां द्वितीयादित्यानां तृतीया वायोः पुच्छमग्नीषोमयोर्भासदौ क्रुञ्चौ श्रोणिभ्यामिन्द्राबृहस्पतीऽ ऊरुभ्यां मित्रावरुणावल्गाभ्यामाक्रमणँ स्थूराभ्यां बलं कुष्ठाभ्याम् ॥ ६ ॥ पूषणं वनिष्ठुनान्धाहीन्त्स्थूलगुदया सर्पान्गुदाभिर्विर्ह्रुतऽ आन्त्रैरपो वस्तिना वृषणमाण्डाभ्यां वाजिनँ शेपेन प्रजाँ रेतसा चाषान्पित्तेन प्रदरान्पायुना कृश्माञ्छकपिण्डैः ॥। ७ ॥ इन्द्रस्य क्रोडोऽदित्यै पाजस्यं दिशां जत्रवोऽदित्यै भसञ्जीमूतान्हृदयौपशेनान्तरिक्षं पुरीतता नभऽ उदर्येण चक्रवाकौ मतस्नाभ्यां दिवं वृक्काभ्यां गिरिन्प्लाशिभिरुपलान्प्लीह्ना वल्मीकान्क्लोमभिर्ग्लौभिर्गुल्मान्हिराभिः स्रवन्तीर्हृदान्कुक्षिभ्याँ समुद्रमुदरेण वैश्वानरं भस्मना ॥ ८॥ विधृति नाभ्या घृतँ रसेनापो युष्णा मरीचिर्विप्रुड्‍भिर्नीहारमूष्मणा शीनं वसया प्रुष्वाऽ अश्रुभिर्ह्रादुनीर्दूषीकाभिरस्ना रक्षाँसि चित्राण्यङ्‍गैर्नक्षत्राणि रूपेण पृथिवीं त्वचा जुम्बकाय स्वाहा ॥ ९ ॥ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकऽ आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ १० ॥ यः प्राणतो निमिषतो महित्वैकऽ इद्राजा जगतो बभूव । यऽ ईशेऽ अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥ ११ ॥ यस्येमे हिमवन्तो महित्वा यस्य समुद्रँ रसया सहाहुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥१२ ॥ यऽ आत्मदा बलदा यस्य विश्वऽ उपासते प्रशिषं यस्य देवाः । यस्य च्छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ १३ ॥ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासोऽ अपरीतासऽ उद्‍भिदः । देवा नो यथा सदमिद् वृधेऽ असन्नप्रायुवो रक्षितरो दिवे-दिवे ॥ १४ ॥ देवानां भद्राः सुमतिर्‍ऋजूयतां देवानाँ रातिरभि नो निवर्तताम् । देवानाँ सख्यमुपसेदिमा वयं देवा नऽ आयुः प्रतिरन्तु जीवसे ॥ १५ ॥ तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्त्रिधम् । अर्यमणं वरुणँ सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥ १६ ॥ तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः । तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना श्रुणुतं धिष्ण्या युवम् ॥ १७ ॥ तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद्‍वृधे रक्षिता पायुरदब्धः स्वस्तये ॥ १८ ॥ स्वस्ति नऽ इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्वदेवाः । स्वस्ति नस्तार्क्ष्योऽ अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ १९ ॥ पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवाऽ अवसागमन्निह ॥ २० ॥ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्‍गैस्तुष्टुवाँसस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ २१ ॥ शतमिन्नु शरदोऽ अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥ २२ ॥ अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । विश्वे देवाऽ अदितिः पञ्च जनाऽ अदितिर्जातमदितिर्जनित्वम् ॥ २३ ॥ मा नो मित्रो वरुणोऽ अर्यमायुरिन्द्रऽ ऋभुक्षा मरुतः परिख्यन् । यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यानो विदधे वीर्याणि ॥ २४ ॥ यन्निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति । सुप्राङ्‍जो मेम्यद्विश्वरूपऽ इन्द्रापूष्णोः प्रियमप्येति पाथः ॥ २५ ॥ एष छागः पुरोऽ अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । अभिप्रियं यत्पुरोडाशमर्वता त्वष्टेदेनँ सौश्रवसाय जिन्वति ॥ २६ ॥ यद्धविष्यमृतुशो देवयानं त्रिर्मानुषाः पर्यश्वं नयन्ति । अत्रा पूष्णः प्रथमो भागऽ एति यज्ञं देवेभ्यः प्रतिवेदयन्नजः ॥ २७॥ होताध्वर्युरावयाऽ अग्निमिन्धो ग्रावग्राभऽ उत शंस्ता सुविप्रः । तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥ २८ ॥ यूपव्रस्काऽ उत ये यूपवाहाश्चषालं येऽ अश्वयूपाय तक्षति । ये चार्वते पचनँ सम्भरन्त्युतो तेषामभिगूर्त्तिर्नऽ इन्वतु ॥ २९ ॥ उप प्रागात्सुमन्मेऽधायि मन्म देवानामाशाऽ उप वीतपृष्ठः । अन्वेनं विप्राऽ ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् ॥ ३० ॥ यद्वाजिनो द्राम सन्दानमर्वतो या शीर्षण्या सशना रज्जुरस्य । यद्वा घास्य प्रभृतमास्ये तृणँ सर्वा ता तेऽ अपि देवष्वस्तु ॥ ३१ ॥ यदश्वस्य ऋविषो मक्षिकाय यद्वा स्वरौ स्वधितौ रिप्तमस्ति । यद्धस्तयोः शमितुर्यन्नखेषु सर्वा ता तेऽ अपि देवेष्वस्तु ॥ ३२ ॥ यदूवध्यमुदरस्यापवाति यऽ आमस्य ऋविषो गन्धोऽ अस्ति । सुकृता तच्छमितारः कृण्वन्तूत मेधँ श्रृतपाकं पचन्तु ॥ ३३ ॥ यत्ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति । मा तद्‍भूम्यामाश्रिषन्मा तृणेषु देवभ्यस्तदुशद्‍भ्यो रातमस्तु ॥ ३४ ॥ ये वाजिनं परिपश्यन्ति पक्वं यऽ ईमाहुः सुरभिर्निर्हरेति । ये चार्वतो माँसभिक्षामुपासतऽ उतो तेषामभिगूर्तिर्नऽ इन्वतु ॥ ३५ ॥ यन्निक्षणं माँस्पचन्याऽ उखाया या पात्राणि यूष्णऽ आसेचनानि । ऊष्मण्यापिधाना चरूणामङ्‍काः सूनाः परि भूषन्त्यश्वम् ॥ ३६ ॥ मा त्वाग्निर्ध्वनयीद्ध्रूमगन्धिर्मोखा भ्राजन्त्यभि विक्त जघ्रिः । इष्टं वीतमभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्यश्वम् ॥ ३७ ॥ निक्रमणं निषदनं विवर्तनं यच्च षड्वीशमर्वतः । यच्च पपौ यच्च घासिं जघास सर्वा ता तेऽ अपि देवेष्वस्तु ॥ ३८ ॥ यदश्वाय वासऽ उपस्तृणन्त्यधीवासं या हिरण्यान्यस्मै । सन्दानमर्वन्तं षड्वीशं प्रिया देवेष्वा यामयन्ति ॥ ३९ ॥ यत्ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद । स्रुचेव ता हविषोऽ अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥ ४० ॥ चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्‍क्रीरश्वस्य स्वधितिः समेति । अच्छिद्रा गात्रा वयुना कृणोत परुष्परुरनिघुष्या विशस्त ॥ ४१ ॥ एकस्त्वष्टुरश्वस्या विशस्ता द्वा यन्तारा भवतस्तथऽ ऋतुः । या ते गात्राणामृतुथा कृणोमि ता ता पिण्डानां प्र जुहोम्यग्नौ ॥ ४२ ॥ मा त्वा तपत्प्रियऽ आत्मापियन्तं मा स्वधितिस्तन्वऽ आ तिष्ठिपत्ते । मा ते गृध्नुरविशस्तातिहाय छिद्रा गात्राण्यसिना मिथू कः ॥ ४३ ॥ न वाऽ उऽ एतन्म्रियसे न रिष्यसि देवाँ२ऽ इदेषि पथिभिः सुगेभिः । हरी ते युञ्जा पृषतीऽ अभूतामुपास्थाद्वाजी धुरि रासभस्य ॥ ४४ ॥ सुगव्यं नो वाजी स्वश्व्यं पुँसः पुत्राँ२ऽ उत विश्वापुषँ रयिम् । अनागास्त्वं नोऽ अदितिः कृणोतु क्षत्रं नोऽ अश्वो वनर्ताँ हविष्मान् ॥ ४५ ॥ इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः । आदित्यैरिन्द्रः सगणो मरुद्‍भिरस्मभ्यं भेषजा करत् । यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधाति ॥ ४६ ॥ अग्ने त्वं नोऽ अन्तमऽ उत त्राता शिवो भवा वरूथ्यः । वसुरग्निर्वसुश्रवाऽ अच्छा नक्षि द्युमत्तमँ रयिं दाः । तं त्वा शोचिष्ट दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥ ४७ ॥ ॥ इति पञ्चविंशोध्याऽयः ॥


ॐ तत् सत्



GO TOP