॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

अष्टपञ्चाशत्तमोऽध्यायः


दुन्दुभिनिर्ह्राददैत्यवधवर्णनम्


सनत्कुमार उवाच
शृणु व्यास प्रवक्ष्यामि चरितं शशिमौलिनः ।
यथा दुन्दुभिनिर्ह्रादमवधी‌द्‌दितिजं हरः ॥ १ ॥
हिरण्याक्षे हते दैत्ये दितिपुत्रे महाबले ।
विष्णुदेवेन कालेन प्राप दुखं पहद्दितिः ॥ २ ॥
दैत्यो दुन्दुभिनिर्ह्रादो दुष्टः प्रह्लादमातुलः ।
सान्त्वयामास तां वाग्भिर्दुःखितां देवदुःखदः ॥ ३ ॥
अथ दैत्यः स मायावी दितिमाश्वास्य दैत्यराट् ।
देवाः कथं सुजेयाः स्युरित्युपायमर्चितयत् ॥ ४ ॥
देवैश्च घातितो वीरो हिरण्याक्षो महासुरः ।
विष्णुना च सह भ्रात्रा सच्छलैर्देत्यवैरिभिः ॥ ५ ॥
किं बलाश्च किमाहारा किमाधारा हि निर्जराः ।
मया कथं सुजेयाः स्युरित्युपायमचिन्तयत् ॥ ६ ॥
विचार्य बहुशो दैत्यस्तत्त्वं विज्ञाय निश्चितम् ।
अवश्यमग्रजन्मानो हेतवोऽत्र विचारतः ॥ ७ ॥
ब्राह्मणान्हन्तुमसकृदन्वधावत वै ततः ।
दैत्यो दुन्दुभिनिर्ह्रादो देववैरी महाखलः ॥ ८ ॥
यतः क्रतुभुजो देवाः क्रतवो वेदसम्भवाः ।
ते वेदा ब्राह्मणाधारास्ततो देवबलं द्विजाः ॥ ९ ॥
निश्चितं ब्राह्मणाधाराः सर्वे वेदाः सवासवाः ।
गीर्वाणा ब्राह्मणबला नात्र कार्या विचारणा ॥ १० ॥
ब्राह्मणा यदि नष्टाः स्युर्वेदा नष्टास्ततस्त्वयम् ।
अतस्तेषु प्रणष्टेषु विनष्टाः सततं सुराः ॥ ११ ॥
यज्ञेषु नाशं गच्छत्सु हताहारास्ततः सुराः ।
निर्बलाःसुखजय्याः स्युर्निर्जितेषु सुरेष्वथ ॥ १२ ॥
अहमेव भविष्यामि मान्यस्त्रिजगतीपतिः ।
आहरिष्यामि देवा नामक्षयाःसर्वसम्पदः ॥ १३ ॥
निर्वेक्ष्यामि सुखान्येव राज्ये निहतकंटके ।
इति निश्चित्य दुर्बुद्धिः पुनश्चिन्तितवान्खलः ॥ १४ ॥
द्विजाः क्व सन्ति भूयांसो ब्रह्मतेजोतिबृंहिता ।
श्रुत्यध्यनसम्पन्नास्तपोबलसमन्विताः ॥ १५ ॥
भूयसां ब्राह्मणानां तु स्थानं वाराणसी खलु ।
तामादावुपसंहृत्य यायां तीर्थान्तरं ततः ॥ १६ ॥
यत्र यत्र हि तीर्थेषु यत्र यत्राश्रमेषु च ।
सन्ति सर्वेऽग्रजन्मानस्ते मयाद्याः समन्ततः ॥ १७ ॥
इति दुन्दुभिनिर्ह्रादो मतिं कृत्वा कुलोचिताम् ।
प्राप्यापि काशीं दुर्वृत्तो मायावी न्यवधीद् द्विजान् ॥ १८ ॥
समित्कुशान्समादातुं यत्र यान्ति द्विजोत्तमाः ।
अरण्ये तत्र तान्सर्वान्स भक्षयति दुर्मतिः ॥ १९ ॥
यथा कोऽपि न वेत्त्येवं तथाऽच्छन्नोऽभवत्पुनः ।
वने वनेचरो भूत्वा यादोरूपो जलाशये ॥ २० ॥
अदृश्यरूपी मायावी देवानामप्यगोचरः ।
दिवा ध्यानपरस्तिष्ठेन्मुनिवन्मुनिमध्यगः ॥ २१ ॥
प्रवेशमुटजानां च निर्गमं हि विलोकयन् ।
यामिन्यां व्याघ्ररूपेणाभक्षयद्‌ ब्राह्मणान् बहून् ॥ २२ ॥
निः शङ्‌कं भक्षयत्येवं न त्यजत्यपि कीकशम् ।
इत्थं निपातितास्तेन विप्रा दुष्टेन भूरिशः ॥ २३ ॥
एकदा शिवरात्रौ तु भक्तस्त्वेको निजोटजे ।
सपर्यां देवदेवस्य कृत्वा ध्यानस्थितोऽभवत् ॥ २४ ॥
स च दुन्दुभिनिर्ह्रादो दैत्येन्द्रो बलदर्पितः ।
व्याघ्ररूपं समास्थाय तमादातुं मतिं दधे ॥ २५ ॥
तं भक्तं ध्यानमापन्नं दृढचित्तं शिवेक्षणे ।
कृतास्त्रमन्त्रविन्यासं तं क्रान्तुमशकन्न सः ॥ २६ ॥
अथ सर्वं गतः शम्भुर्ज्ञात्वा तस्याशयं हरः ।
दैत्यस्य दुष्टरूपस्य वधाय विदधे धियम् ॥ २७ ॥
यावदादित्सति व्याघ्रस्तावदाविरभूद्धरः ।
जगद्‌रक्षामणिस्त्र्यक्षो भक्तरक्षणदक्षधीः ॥ २८ ॥
रुद्रमायान्तमालोक्य तद्‌भक्तार्चितलिङ्‌गतः ।
दैत्यस्तेनैव रूपेण ववृधे भूधरोपमः ॥ २९ ॥
सावज्ञमथ सर्वज्ञं यावत्पश्यति दानवः ।
तावदायातमादाय कक्षायन्त्रे न्यपीडयत् ॥ ३० ॥
पञ्चास्यस्त्वथ पञ्चास्यं मुष्ट्या मूर्द्धन्यताडयत् ।
भक्तवत्सलनामासौ वज्रादपि कठोरया ॥ ३१ ॥
स तेन मुष्टिघातेन कक्षानिष्पेषणेन च ।
अत्यार्तमारटद्‌व्याघ्रो रोदसीं पूरयन्मृतः ॥ ३२ ॥
तेन नादेन महता सम्प्रवेपितमानसाः ।
तपोधनाःसमाजग्मुर्निशि शब्दानुसारतः ॥ ३३ ॥
अत्रेश्वरं समालोक्य कक्षीकृतमृगेश्वरम् ।
तुष्टुवुः प्रणताः सर्वे शर्वं जयजयाक्षरैः ॥ ३४ ॥
ब्राह्मणा ऊचुः
त्रायतां त्रायतां देव प्रत्यूहाद्‌दारुणादितः ।
अनुग्रहं कुरुष्वेश तिष्ठात्रैव जगद्‌गुरो ॥ ३५ ॥
अनेनैव स्वरूपेण व्याघ्रेश इति नामतः ।
कुरु रक्षां महादेव ज्येष्ठस्थानस्य सर्वदा ॥ ३६ ॥
अन्येभ्यो ह्युपसर्गेभ्यो रक्ष नस्तीर्थवासिनः ।
दुष्टानपास्य गौरीश भक्तेभ्यो देहि चाभयम् ॥ ३७ ॥
सनत्कुमार उवाच
इत्याकर्ण्य वचस्तेषां भक्तानां चन्द्रशेखरः ।
तथेत्युक्त्वा पुनः प्राह स भक्तान्भक्तवत्सलः ॥ ३८ ॥
महेश्वर उवाच
यो मामनेन रूपेण द्रक्ष्यति श्रद्धयात्र वै ।
तस्योपसर्गसन्धानं पातयिष्याम्यसंशयम् ॥ ३९ ॥
मच्चरित्रमिदं श्रुत्वा स्मृत्वा लिङ्‌गमिदं हृदि ।
सङ्‌ग्रामे प्रविशन्मर्त्यो जयमाप्नोत्यसंशयम् ॥ ४० ॥
एतस्मिन्नन्तरे देवाः समाजग्मुः सवासवाः ।
जयेति शब्दं कुर्वन्तो महोत्सवपुरःसरम् ॥ ४१ ॥
प्रणम्य शंकरं प्रेम्णा सर्वे साञ्जलयः सुराः ।
नतस्कन्धाः सुवाग्भिस्ते तुष्टुवुर्भक्तवत्सलम् ॥ ४२ ॥
देवा ऊचुः
जय शंकर देवेश प्रणतार्तिहर प्रभो ।
एतद्दुन्दुभिनिर्ह्रादवधात् त्राता वयं सुराः ॥ ४३ ॥
सदा रक्षा प्रकर्तव्या भक्तानां भक्तवत्सल ।
वध्याः खलाश्च देवेश त्वया सर्वेश्वर प्रभो ॥ ४४ ॥
इत्याकर्ण्य वचस्तेषां सुराणां परमेश्वरः ।
तथेत्युक्त्वा प्रसन्नात्मा तस्मिंल्लिङ्‌गे लयं ययौ ॥ ४५ ॥
सविस्मयास्ततो देवाः स्वं स्वं धाम ययुर्मुदा ।
तेऽपि विप्रा महाहर्षात्पुनर्याता यथागतम् ॥ ४६ ॥
इदं चरित्रं परम व्याघ्रेश्वरसमुद्‌भवम् ।
शृणुयाच्छ्रावयेद्वापि पठेद्वा पाठयेत्तथा ॥ ४७ ॥
सर्वान्कामानवाप्नोति नरःस्वमनसेसितान् ।
परत्र लभते मोक्षं सर्वदुःखविवर्जितः ॥ ४८ ॥
इदमाख्यानमतुलं शिवलीला मृताक्षरम् ।
स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रप्रवर्द्धनम् ॥ ४९ ॥
परं भक्तिप्रदं धन्यं शिवप्रीतिकरं शिवम् ।
परमज्ञानदं रम्यं विकारहरणं परम् ॥ ५० ॥
इति श्रीशिवमहापुराणे द्वि० रुद्रसंहितायां पञ्चम युद्धखण्डे
दुन्दुभिनिर्ह्राददैत्यवधवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP