॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

सप्तपञ्चाशत्तमोऽध्यायः


गजासुरवधः


सनत्कुमार उवाच
शृणु व्यास महाप्रेम्णा चरितं शशिमौलिनः ।
यथाऽवधीत् त्रिशूलेन दानवेन्द्रं गजासुरम् ॥ १ ॥
दानवे निहते देव्या समरे महिषासुरे ।
देवानां च हितार्थाय पुरा देवाः सुखं ययुः ॥ २ ॥
तस्य पुत्रो महावीरो मुनीश्वर गजासुरः ।
पितुर्वधं हि संस्मृत्य कृतं देव्या सुरार्थनात् ॥ ३ ॥
स तद्वैरमनुस्मृत्य तपोर्थं गतवान् वने ।
समुद्दिश्य विधिं प्रीत्या तताप परमं तपः ॥ ४ ॥
अवध्योहं भविष्यामि स्त्रीपुंसैः कामनिर्जितैः ।
संविचार्येति मनसाऽभूत्तपोरतमानसः ॥ ५ ॥
स तेपे हिमवद् द्रोण्यां तपः परमदारुणम् ।
ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्‌गुष्ठाश्रितावनिः ॥ ६ ॥
जटाभारैःस वै रेजे प्रलयार्क इवांशुभिः ।
महिषासुरपुत्रोऽसौ गजासुर उदारधीः ॥ ७ ॥
तस्य मूर्ध्नः समुद्‌भूतः सधूमोग्निस्तपोमयः ।
तिर्यगूर्ध्वमधोलोकास्तापयन्विष्वगीरितः ॥ ८ ॥
चुक्षुभुर्नद्युदन्वन्तश्चाग्नेर्मूर्द्धसमुद्‌भवात् ।
निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश ॥ ९ ॥
तेन तप्ताः सुराः सर्वे दिवं त्यक्त्वा सवासवाः ।
ब्रह्मलोकं ययुर्विज्ञापयामासुश्चचाल भूः ॥ १० ॥
देवा ऊचुः
विधे गजासुरतपस्तप्ता वयमथाकुलाः ।
न शक्नुमो दिवि स्थातुमतस्ते शरणं गताः ॥ ११ ॥
विधे ह्युपशमं तस्य चान्याञ्जीवयितुं कृपा ।
लोका नङ्‌क्ष्यत्यन्यथा हि सत्यं सत्यं ब्रुवामहे ॥ १२ ॥
इति विज्ञापितो देवैर्वासवाद्यैः स आत्मभूः ।
भृगुदक्षादिभिर्ब्रह्मा ययौ दैत्यवराश्रमम् ॥ १३ ॥
तपन्तं तपसा लोकान् यथाऽभ्रापिहितं दिवि ।
विलक्ष्य विस्मितः प्राह विहसन्सृष्टिकारकः ॥ १४ ॥
ब्रह्मोवाच
उत्तिष्ठोत्तिष्ठ दैत्येन्द्र तपःसिद्धोसि माहिषे ।
प्राप्तोऽहं वरदस्तात वरं वृणु यथेप्सितम् ॥ १५ ॥
सनत्कुमार उवाच
उत्थायोत्थाय दैत्येन्द्र ईक्षमाणो दृशा विभुम् ।
गिरा गद्‌गदया प्रीतोऽगृणाद्देवं स माहिषिः ॥ ३५ ॥
गजासुर उवाच
नमस्ते देवदेवेश यदि दास्यसि मे वरम् ।
अवध्योऽहं भवेयं वै स्त्रीपुंसैः कामनिर्जितैः ॥ १७ ॥
महाबलो महावीर्योऽजेयो देवादिभिः सदा ।
सर्वेषां लोकपालानां निखिलर्द्धिसुभुग्विभो ॥ १८ ॥
सनत्कुमार उवाच
एवं वृतः शतधृतिर्दानवेन स तेन वै ।
प्रादात्तत्तपसा प्रीतो वरं तस्य सुदुर्लभम् ॥ १९ ॥
एवं लब्धवरो दैत्यो माहिषिश्च गजासुरः ।
सुप्रसन्नमनाःसोऽथ स्वधाम प्रत्यपद्यत ॥ २० ॥
स विजित्य दिशः सर्वा लोकांश्च त्रीन्महासुरः ।
देवासुरमनुष्येन्द्रान् गन्धर्वगरुडोरगान् ॥ २१ ॥
इत्यादीन्निखिलाञ्जित्वा वशमानीय विश्वजित् ।
जहार लोकपालानां स्थानानि सह तेजसा ॥ २२ ॥
देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिविष्टपम् ।
महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा ॥ २३ ॥
तस्मिन्महेन्द्रस्य गृहे महाबलो
    महामना निर्जितलोक एकराट् ।
रेमेऽभिवन्द्याङ्‌घ्रियुगः सुरादिभिः
    प्रतापितैरूर्जितचण्डशासनः ॥ २४ ॥
स इत्थं निर्जितककुबेकराड् विषयान्प्रियान् ।
यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः ॥ २५ ॥
एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः ।
काले व्यतीते महति पापबुद्धिरभूत्ततः ॥ २६ ॥
महिषासुरपुत्रोऽसौ सञ्चिक्लेश द्विजान्वरान् ।
तापसान्नितरां पृथ्व्यां दानवःसुखमर्दनः ॥ २७ ॥
सुरान्नरांश्च प्रमथान्सर्वाञ्चिक्लेश दुर्मतिः ।
धर्मान्वितान्विशेषेण पूर्ववैरमनुस्मरन् ॥ २८ ॥
एकस्मिन्समये तात दानवोऽसौ महाबलः ।
अगच्छद्‌राजधानीं व शंकरस्य गजासुरः ॥ २९ ॥
समागतेऽसुरेन्द्रे हि महान्कलकलो मुने ।
त्रातत्रातेति तत्रासीदानन्दनवासिनाम् ॥ ३० ॥
महिषाऽसुरपुत्रोऽसौ यदा पुर्यां समागतः ।
प्रमथन्प्रमथान्सर्वान्निजवीर्यमदोद्धतः ॥ ३१ ॥
तस्मिन्नवसरे देवाः शक्राद्यास्तत्पराजिताः ।
शिवस्य शरणं जग्मुर्नत्वा तुष्टुवुरादरात् ॥ ३२ ॥
न्यवेदयन्दानवस्य तस्य काश्यां समागमम् ।
क्लेशाधिक्यं तत्रत्यानां तन्नाथानां विशेषतः ॥ ३३ ॥
देवा ऊचुः
देवदेव महादेव तव पुर्यां गतोसुरः ।
कष्टं दत्ते त्वज्जनानां तं जहि त्वं कृपानिधे ॥ ३४ ॥
यत्र यत्र धरायां च चरणं प्रमिणोति हि ।
अचलां सचलां तत्र करोति निज भारतः ॥ ३५ ॥
ऊरुवेगेन तरवः पतन्ति शिखरैः सह ।
यस्य दोर्दण्डघातेन चूर्णा स्युश्च शिलोच्चयाः ॥ ३६ ॥
यस्य मौलिजसङ्‌घर्षाद् घना व्योम त्यजन्त्यपि ।
नीलिमानं न चाद्यापि जह्युस्तत्केशसङ्‌गजम् ॥ ३७ ॥
यस्य निश्वाससम्भारैरुत्तरङ्‌गा महाब्धयः ।
नद्योप्यमन्दकल्लोला भवन्ति तिमिभिः सह ॥ ३८ ॥
योजनानां सहस्राणि नव यस्य समुच्छ्रयः ।
तावानेव हि विस्तारस्तनोर्मायाविनोऽस्य हि ॥ ३९ ॥
यन्नेत्रयोः पिङ्‌गलिमा तथा तरलिमा पुनः ।
विद्युताः नोह्यतेऽद्यापि सोऽयं स्माऽऽयाति सत्वरम् ॥ ४० ॥
यां यां दिशं समभ्येति सोयं दुःसह दानवः ।
अवध्योऽहं भवामीति स्त्रीपुंसैः कामनिर्जितैः ॥ ४१ ॥
इत्येवं चेष्टितं तस्य दानवस्य निवेदितम् ।
रक्षस्व भक्तान्देवेश काशीरक्षणतत्पर ॥ ४२ ॥
सनत्कुमार उवाच
इति सम्प्रार्थितो देवैर्भक्तरक्षणतत्परः ।
तत्राऽऽजगाम सोरं तद्वधकामनया हरः ॥ ४३ ॥
आगतं तं समालोक्य शंकरं भक्तवत्सलम् ।
त्रिशूलहस्तं गर्जन्तं जगर्ज स गजासुरः ॥ ४४ ॥
ततस्तयोर्महानासीत्समरो दारुणोऽद्‌भुतः ।
नानास्त्रशस्त्रसम्पातैर्वीरारावं प्रकुर्वतोः ॥ ४५ ॥
गजासुरोतितेजस्वी महाबलपराक्रमः ।
विव्याध गिरिशं बाणैस्तीक्ष्णैर्दानवघातिनम् ॥ ४६ ॥
अथ रुद्रो रौद्रतनुः स्वशरैरतिदारुणैः ।
तच्छरांश्चिच्छिदे तूर्णमप्राप्तांस्तिलशो मुने ॥ ४७ ॥
ततो गजासुरः कुद्धोऽभ्यधावत्तं महेश्वरम् ।
खड्गहस्तः प्रगर्ज्योच्चैर्हतोऽसीत्यद्य वै मया ॥ ४८ ॥
ततस्त्रिशूलहेतिस्तमायान्तं दैत्यपुङ्‌गवम् ।
विज्ञायावध्यमन्येन शूलेनाभिजघान तम् ॥ ४९ ॥
प्रोतस्तेन त्रिशूलेन स च दैत्यो गजासुरः ।
छत्रीकृतमिवात्मानं मन्यमाना जगौ हरम् ॥ ५० ॥
गजासुर उवाच
देवदेव महादेव तव भक्तोऽस्मि सर्वथा ।
जाने त्वां त्रिदिवेशानं त्रिशूलिन्स्मरहारिणम् ॥ ५१ ॥
तव हस्ते मम वधो महाश्रेयस्करो मतः ।
अन्धकारे महेशान त्रिपुरान्तक सर्वग ॥ ५२ ॥
किञ्चिद्विज्ञप्तुमिच्छामि तच्छृणुष्व कृपाकर ।
सत्यं ब्रवीमि नासत्यं मृत्युञ्जय विचारय ॥ ५३ ॥
त्वमेको जगतां वन्द्यो विश्वस्योपरि संस्थितः ।
कालेन सर्वैर्मर्तव्यं श्रेयसे मृत्युरीदृशः ॥ ५४ ॥
सनत्कुमार उवाच
इत्याकर्ण्य वचस्तस्य शंकरः करुणानिधिः ।
प्रहस्य प्रत्युवाचेशो माहिषेयं गजासुरम् ॥ ५५ ॥
ईश्वर उवाच
महापराक्रमनिधे दानवोत्तम सन्मते ।
गजासुर प्रसन्नोस्मि स्वानुकूलं वरं वृणु ॥ ५६ ॥
सनत्कुमार उवाच
इत्याकर्ण्य महेशस्य वचनं वरदस्य हि ।
प्रत्युवाच प्रसन्नात्मा दानवेन्द्रो गजासुरः ॥ ५७ ॥
गजासुर उवाच
यदि प्रसन्नो दिग्वासस्तदा दित्यं वसान मे ।
इमां कृत्तिं महेशान त्वत्त्रिशूलाग्निपाविताम् ॥ ५८ ॥
स्वप्रमाणां सुखस्पर्शां रणाङ्‌गणपणीकृताम् ।
दर्शनीयां महादिव्यां सर्वदैव सुखावहाम् ॥ ५९ ॥
इष्टगन्धिः सदैवास्तु सदैवास्त्वतिकोमला ।
सदैव निर्मला चास्तु सदैवास्त्वतिमण्डना ॥ ६० ॥
महातपोनलज्वालां प्राप्यापि सुचिरं विभो ।
न दग्धा कृत्तिरेषा मे पुण्यगन्धनिधेस्ततः ॥ ६१ ॥
यदि पुण्यवती नैषा मम कृत्ति दिगम्बर ।
तदा त्वदङ्‌गसङ्‌गोस्याः कथं जातो रणाङ्‌गणे ॥ ६२ ॥
अन्यं च मे वरं देहि यदि तुष्टोऽसि शंकर ।
नामास्तु कृत्तिवासास्ते प्रारभ्याद्यतनं दिनम् ॥ ६३ ॥
सनत्कुमार उवाच
श्रुत्वेति स वचस्तस्य शंकरो भक्तवत्सलः ।
तथेत्युवाच सुप्रीतो महिषासुरजं च तम् ॥ ६४ ॥
पुनः प्रोवाच प्रीतात्मा दानवं तं गजासुरम् ।
भक्तप्रियो महेशानो भक्तिनिर्मलमानसम् ॥ ६५ ॥
ईश्वर उवाच
इदं पुण्यं शरीरं ते क्षेत्रेऽस्मिन्मुक्तिसाधने ।
मम लिङ्‌गं भवत्वत्र सर्वेषां मुक्तिदायकम् ॥ ६६ ॥
कृत्तिवासेश्वरं नाम महापातकनाशनम् ।
सर्वेषामेव लिङ्‌गानां शिरोभूतं विमुक्तिदम् ॥ ६७ ॥
कथयित्वेति देवेशस्तत्कृतिं परिगृह्य च ।
गजासुरस्य महतीं प्रावृणोद्धि दिगम्बरः ॥ ६८ ॥
महामहोत्सवो जातस्तस्मिन्नह्नि मुनीश्वर ।
हर्षमापुर्जनाः सर्वे काशीस्थाः प्रमथास्तथा ॥ ६९ ॥
हरि ब्रह्मादयो देवा हर्षनिर्भरमानसाः ।
तुष्टुवुस्तं महेशानं नत्वा साञ्जलयस्ततः ॥ ७० ॥
हते तस्मिन्दानवेशे माहिषे हि गजासुरे ।
स्वस्थानं भेजिरे देवा जगत्स्वास्थ्यमवाप च ॥ ७१ ॥
इत्युक्तं चरितं शम्भोर्भक्तवात्सल्यसूचकम् ।
स्वर्ग्यं यशस्यमायुष्यं धनधान्यप्रवर्द्धनम् ॥ ७२ ॥
य इदं शृणुयात्प्रीत्या श्रावयेद्वा शुचिव्रतः ।
स भुक्त्वा च महासौख्यं लभेतान्ते परं सुखम् ॥ ७३ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे
युद्धखण्डे गजासुरवधो नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP