|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
षट्पञ्चाशत्तमोऽध्यायः
बाणासुरगणत्वप्राप्तिवर्णनम्
नारद उवाच
कृष्णे गते द्वारकायामनिरुद्धेन भार्यया । अकार्षीत्किं ततो बाणस्तत्त्वं वद महामुने ॥ १ ॥ सनत्कुमार उवाच कृष्णे गते द्वारकायामनिरुद्धेन भार्यया । दुःखितोऽभूत्ततो बाणः स्वाज्ञानं संस्मरन्हृदा ॥ २ ॥ ततो नन्दीशिवगणो बाणं प्रोवाच दुःखितम् । दैत्यं शोणितदिग्धाङ्गमनुतापसमन्वितम् ॥ ३ ॥ नन्दीश्वर उवाच बाण शंकरसद्भक्त मानुतापं कुरुष्व भोः । भक्तानुकम्पी शम्भुर्वै भक्तवत्सलनामधृक् ॥ ४ ॥ तदिच्छया च यज्जातं तज्जातमिति चेतसा । मन्यस्व भक्तशार्दूल शिवं स्मर पुनःपुनः ॥ ५ ॥ मन आद्ये समाधाय कुरु नित्यं महोत्सवम् । भक्तानुकम्पनश्चाऽस्य शंकरस्य पुनःपुनः ॥ ६ ॥ नन्दिवाक्यात्ततो बाणो द्विषा शीर्षकमात्रकः । शिवस्थानं जगामाशु धृत्वा धैर्यं महामनाः ॥ ७ ॥ गत्वा तत्र प्रभुं नत्वा रुरोदातीव विह्वलः । गतगर्वव्रजो बाणः प्रेमाकुलितमानसः ॥ ८ ॥ संस्तुवन्विविधैः स्तोत्रैः संनमन्नुतितस्तथा । यथोचितं पादघातं कुर्वन्विक्षेपयन्करान् ॥ ९ ॥ ननर्त ताण्डवं मुख्यं प्रत्यालीढादिशोभितम् । स्थानकैर्विविधाकारैरालीढप्रमुखैरपि ॥ १० ॥ सुखवादसहस्राणि भ्रूक्षेपसहितान्यपि । शिरःकम्पसहस्राणि प्राप्तानीकः सहस्रशः ॥ ११ ॥ वारीश्च विविधाकारा दर्शयित्वा शनैः शनैः । तथा शोणितधाराभिः सिञ्चयित्वा महीतलम् ॥ १२ ॥ रुद्रं प्रसादयामास शूलिनं चन्द्रशेखरम् । बाणासुरो महाभक्तो विस्मृतात्मगतिर्नतः ॥ १३ ॥ ततो नृत्यं महत्कृत्वा भगवान्भक्तवत्सलः । उवाच बाणं संहृष्टो नृत्य गीतप्रियो हरः ॥ १४ ॥ रुद्र उवाच बाण तात बलेः पुत्र सन्तुष्टो नर्तनेन ते । वरं गृहाण दैत्येन्द्र यत्ते मनसि वर्तते ॥ १५ ॥ सनत्कुमार उवाच इत्याकर्ण्य वचः शंम्भोर्दैत्येन्द्रेण तदा मुने । बाणेन संवृणीतोऽभूद्वरस्तु व्रणरोपणे ॥ १६ ॥ बाहुयुद्धस्य चोद्धत्तिर्गाणपत्यमथाक्षयम् । उषापुत्रस्य राज्यं तु तस्मिन् शोणितकाह्वये ॥ १७ ॥ निर्वैरता च विबुधैर्विष्णुना च विशेषतः । न पुनर्दैत्यता दुष्टा रजसा तमसा युता ॥ १८ ॥
शम्भुभक्तिर्विशेषेण निर्विकारा सदा मुने । शिवभक्तेषु च स्नेहो दया सर्वेषु जन्तुषु ॥ १९ ॥ इति कृत्वा वरान् शम्भोर्बलिपुत्रो महाऽसुरः । प्रेम्णाऽश्रुनयनो रुद्रं तुष्टाव सुकृताञ्जलिः ॥ २० ॥ बाण उवाच देवदेव महादेव शरणा गतवत्सल । त्वां नमामि महेशान दीनबन्धो दयानिधे ॥ २१ ॥ कृता मयि कृपातीव कृपासागर शंकर । गर्वोपहारितःसर्वः प्रसन्नेन मम प्रभो ॥ २२ ॥ त्वं ब्रह्म परमात्मा हि सर्वव्याप्यखिलेश्वरः । ब्रह्माण्डतनुरुग्रेशो विराट् सर्वान्वितः परः ॥ २३ ॥ नाभिर्नभोऽग्निर्वदनमम्बु रेतो दिशः श्रुतिः । द्यौः शीर्षमङ्घ्रिरुर्वी ते मनश्चन्द्रस्तव प्रभो ॥ २४ ॥ दृगर्को जठरं वार्द्धिर्भुजेन्द्रो धिषणा विधिः । प्रजापतिर्विसर्गश्च धर्मो हि हृदयं तव ॥ २५ ॥ रोमाण्यौषधयो नाथ केशा जलमुचस्तव । गुणास्त्रयस्त्रिनेत्राणि सर्वात्मा पुरुषो भवान् ॥ २६ ॥ ब्राह्मणं ते मुखं प्राहुर्बाहुं क्षत्रियमेव च । ऊरुजं वैश्यमाहुस्ते पादजं शूद्रमेव च ॥ २७ ॥ त्वमेव सर्वदोपास्यःसर्वैर्जीवैर्महेश्वर । त्वां भजन्परमां मुक्तिं लभते पुरुषो ध्रुवम् ॥ २८ ॥ यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् । विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥ २९ ॥ विष्णुर्ब्रह्माऽथ विबुधा मुनयश्चामलाशयाः । सर्वात्मना प्रपन्नास्त्वां शंकरं प्रियमीश्वरम् ॥ ३० ॥ सनत्कुमार उवाच इत्युक्त्वा बलिपुत्रस्तु विरराम शरासुरः । प्रेमप्रफुल्लिताङ्गश्च प्रणम्य स महेश्वरम् ॥ ३१ ॥ इति श्रुत्वा स्वभक्तस्य बाणस्य भगवान्भवः । सर्वं लभिष्यसीत्युक्त्वा तत्रैवान्तरधीयत ॥ ३२ ॥ ततः शम्भोः प्रसादेन महाकालत्वमागतः । रुद्रस्यानुचरो बाणो महाप्रमुदितोऽभवत् ॥ ३३ ॥ इति किल शरनाम्नः शंकरस्यापि वृत्तं सकलगुरु जनानां सद्गुरोः शूलपाणेः । कथितमिह वरिष्ठं श्रोत्ररम्यैर्वचोभिः सकलभुवनमध्ये क्रीडमानस्य नित्यम् ॥ ३४ ॥ इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां पंचमे युद्धखण्डे बाणासुरगणत्वप्राप्तिवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥ श्रीगौरीशंकरार्पणमस्तु |