|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
पञ्चपञ्चाशत्तमोऽध्यायः
बाणभुजकृन्तनगर्वापहारवर्णनम्
व्यास उवाच
सनत्कुमार सर्वज्ञ ब्रह्मपुत्र नमोस्तु ते । अद्भुतेयं कथा तात श्राविता मे त्वया मुने ॥ १ ॥ जृम्भिते जृम्भणास्त्रेण हरिणा समरे हरे । हते बाणबले बाणः किमकार्षीच्च तद्वद ॥ २ ॥ सूत उवाच इत्याकर्ण्य वचस्तस्य व्यासस्यामिततेजसः । प्रत्युवाच प्रसन्नात्मा ब्रह्मपुत्रो मुनीश्वरः ॥ ।६ ॥ सनत्कुमार उवाच शृणु व्यास महाप्राज्ञ कथां च परमाद्भुताम् । कृष्णशंकरयोस्तात लोकलीलानुसारिणोः ॥ ४ ॥ शयिते लीलया रुद्रे सपुत्रे सगणे सति । बाणो विनिर्गतो युद्धं कर्तुं कृष्णेन दैत्यराट् ॥ ५ ॥ कुम्भाण्डसङ्गृहीताश्वो नानाशस्त्रास्त्रधृक् ततः । चकार युद्धमतुलं बलिपुत्रो महाबलः ॥ ६ ॥ दृष्ट्वा निजबलं नष्टं स दैत्येन्द्रोऽत्यमर्षितः । चकार युद्धमतुलं बलि पुत्रो महाबलः ॥ ७ ॥ श्रीकृष्णोपि महावीरो गिरिशाप्तमहाबलः । उच्चैर्जगर्ज तत्राजौ बाणं मत्वा तृणोपमम् ॥ ८ ॥ धनुष्टङ्कारयामास शार्ङ्गाख्यं निजमद्भुतम् । त्रासयन्बाणसैन्यं तदवशिष्टं मुनीश्वर ॥ ९ ॥ तेन नादेन महता धनुष्टङ्कारजेन हि । द्यावाभूम्योरन्तरं वै व्याप्तमासीदनन्तरम् ॥ १० ॥ चिक्षेप विविधान्बाणान्बाणाय कुपितो हरिः । कर्णान्तं तद्विकृष्याथ तीक्ष्णानाशीविषोपमान् ॥ ११ ॥ आयातांस्तान्निरीक्ष्याऽथ स बाणो बलिनन्दनः । अप्राप्तानेव चिच्छेद स्वशरैः स्वधनुश्च्युतैः ॥ १२ ॥ पुनर्जगर्ज स विभुर्बाणो वैरिगणार्दनः । तत्रसुर्वृष्णयः सर्वे कृष्णात्मानो विचेतसः ॥ १३ ॥ स्मृत्वा शिवपदाम्भोजं चिक्षेप निजसायकान् । स कृष्णायातिशूराय महागर्वो बलेःसुतः ॥ १४ ॥ कृष्णोपि तानसम्प्राप्तानच्छिनत्सशरैर्द्रुतम् । स्मृत्वा शिवपदाम्भोजममरारिर्महाबलः ॥ १५ ॥ रामादयो वृष्णयश्च स्वं स्वं योद्धारमाहवे । निजघ्नुर्बलिनःसर्वे कृत्वा क्रोधं समाकुलाः ॥ १६ ॥ इत्थं चिरतरं तत्र बलिनोश्च द्वयोरपि । बभूव तुमुलं युद्धं शृण्वतां विस्मयावहम् ॥ १७ ॥ तस्मिन्नवसरे तत्र क्रोधं कृत्वाऽतिपक्षिराट् । बाणासुरबलं सर्वं पक्षाघातैरमर्दयत् ॥ १८ ॥ मर्दितं स्वबलं दृष्ट्वा मर्दयन्तं च तं बली । चुकोपाति बलेः पुत्रः शैवराड् दितिजेश्वरः ॥ १९ ॥ स्मृत्वा शिवपदाम्भोजं सहस्रभुजवान्द्रुतम् । महत्पराक्रमं चक्रे वैरिणां दुःसहं स वै ॥ २० ॥ चिक्षेप युगपद्बाणानमितांस्तत्र वीरहा । कृष्णादिसर्वयदुषु गरुडे च पृथक् पृथक् ॥ २१ ॥ जघानैकेन गरुडं कृष्णमेकेन पत्त्रिणा । बलमेकेन च मुने परानपि तथा बली ॥ २२ ॥ ततः कृष्णो महावीर्यो विष्णुरूपः सुरारिहा । चुकोपातिरणे तस्मिञ्जगर्ज च महेश्वरः ॥ २३ ॥ जघान बाणं तरसा शार्ङ्गनिःसृतसच्छरैः । अति तद्बलमत्युग्रं युगपत्स्मृतशंकरः ॥ २४ ॥ चिच्छेद तद्धनुः शीघ्रं छत्रादिकमनाकुलः । हयांश्च पातयामास हत्वा तान्स्वशरैर्हरिः ॥ २५ ॥
बाणोऽपि च महावीरो जगर्जाति प्रकुप्य ह । कृष्णं जघान गदया सोऽपतद्धरणीतले ॥ २६ ॥ उत्थायारं ततः कृष्णो युयुधे तेन शत्रुणा । शिवभक्तेन देवर्षे लोकलीलाऽनुसारतः ॥ २७ ॥ एवं द्वयोश्चिरं कालं बभूव सुमहान् रणः । शिवरूपो हरिः कृष्णः स च शैवोत्तमो बली ॥ २८ ॥ कृष्णोऽथ कृत्वा समरं चिरं बाणेन वीर्यवान् । शिवाऽऽज्ञया प्राप्तबलश्चुकोपाति मुनीश्वरः ॥ २९ ॥ ततःसुदर्शनेनाशु कृष्णो बाणभुजान्बहून् । चिच्छेद भगवान् शम्भुः शासनात्परवीरहा ॥ ३० ॥ अवशिष्टा भुजास्तस्य चत्वारोऽतीव सुन्दराः । गतव्यथो बभूवाशु शंकरस्य प्रसादतः ॥ ३१ ॥ गतस्मृतिर्यदा बाण शिरश्छेत्तुं समुद्यतः । कृष्णो वीरत्वमापन्नस्तदा रुद्रः समुत्थितः ॥ ३२ ॥ रुद्र उवाच भगवन्देवकीपुत्र यदाज्ञप्तं मया पुरा । तत्कृतं च त्वया विप्र मदाज्ञाकारिणा सदा ॥ ३३ ॥ मा बाणस्य शिरश्छिन्धि संहरस्व सुदर्शनम् । मदाज्ञया चक्रमिमममोघं मज्जने सदा ॥ ३४ ॥ दत्तं मया पुरा तुभ्यमनिवार्यं रणे तव । चक्रं जयं च गोविन्द निवर्तस्व रणात्ततः ॥ ३५ ॥ दधीचे रावणे वीरे तारकादिपुरेष्वपि । विना मदाज्ञां लक्ष्मीश रथाङ्गं नामुचः पुरा ॥ ३६ ॥ त्वं तु योगीश्वरः साक्षात्परमात्मा जनार्दन । विचार्यतां स्वमनसा सर्वभूतहिते रतः ॥ ३७ ॥ वरमस्य मया दत्तं न मृत्युर्भयमस्ति वै । तन्मे वचः सदा सत्यं परितुष्टोस्म्यहं तव ॥ ३८ ॥ पुराऽयं गर्वितो मत्तो युद्धं देहीति मेऽब्रवीत् । भुजान्कण्डूयमानस्तु विस्मृतात्मगतिर्हरे ॥ ३९ ॥ तदाहमशपं तं वै भुजच्छेत्ताऽऽगमिष्यति । अचिरेणातिकालेन गतगर्वो भविष्यसि ॥ ४० ॥ मदाज्ञया हरिः प्राप्तो भुजच्छेत्ता तवाऽथ वै । निवर्तस्व रणाद्गच्छ स्वगृहं सवधूवरः ॥ ४१ ॥ इत्युक्तः स तयोमैत्रीं कारयित्वा महेश्वरः । तममुज्ञाप्य सगणः सपुत्रः स्वालयं ययौ ॥ ४२ ॥ सनत्कुमार उवाच इत्याकर्ण्य वचः शम्भोः संहृत्य च सुदर्शनम् । अक्षताङ्गस्तु विजयी तत्कृष्णोन्तःपुरं ययौ ॥ ४३ ॥ अनिरुद्धं समाश्वास्य सहितं भार्यया पुनः । जग्राह रत्नसङ्घातं बाणदत्तमनेकशः ॥ ४४ ॥ तत्सखीं चित्रलेखां च गृहीत्वा परयोगिनीम् । प्रसन्नोऽभूत्ततः कृष्णः कृतकार्यः शिवाज्ञया ॥ ४५ ॥ हृदा प्रणम्य गिरिशमामन्त्र्य च बलेः सुतम् । परिवारसमेतस्तु जगाम स्वपुरीं हरिः ॥ ४६ ॥ पथि जित्वा च वरुणं विरुद्धं तमनेकधा । द्वारकां च पुरीं प्राप्तः समुत्सवसमन्वितः ॥ ४७ ॥ विसर्जयित्वा गरुडं सखीन्वीक्ष्योपहस्य च । द्वारकायां ततो दृष्ट्वा कामचारी चचार ह ॥ ४८ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे बाणभुजकृन्तनगर्वापहारवर्णनं नाम पञ्चपञ्चाशत्तमोध्यायः ॥ ५५ ॥ श्रीगौरीशंकरार्पणमस्तु |