|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
चतुःपञ्चाशत्तमोऽध्यायः
बाणाऽसुररुद्रकृष्णादियुद्धवर्णनम्
व्यास उवाच
अनिरुद्धे हृतै पौत्रे कृष्णस्य मुनिसत्तम । कुम्भाण्डसुतया कृष्णः किमकार्षीद्धि तद्वद ॥ १ ॥ सनत्कुमार उवाच ततो गतेऽनिरुद्धे तु तत्स्त्रीणां रोदनस्वनम् । श्रुत्वा च व्यथितः कृष्णो बभूव मुनिसत्तम ॥ २ ॥ अपश्यतां चानिरुद्धं तद्बन्धूनां हरेस्तथा । चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥ ३ ॥ नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च । आसन्सुव्यथिताःसर्वे वृष्णयः कृष्णदेवताः ॥ ४ ॥ कृष्णस्तद्वृत्तमखिलं श्रुत्वा युद्धाय चादरात् । जगाम शोणितपुरं तार्क्ष्यमाहूय तत्क्षणात् ॥ ५ ॥ प्रद्युम्नो युयुधानश्च गतःसाम्बोथ सारणः । नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिनः ॥ ६ ॥ अक्षौहिणीभिर्द्वादशभिःसमेता सर्वतो दिशम् । रुरुधुर्बाणनगरं समन्तात्सात्वतर्षभाः ॥ ७ ॥ भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम् । वीक्ष्यमाणो रुषाविष्टस्तुल्यसैन्योऽभिनिर्ययौ ॥ ८ ॥ बाणार्थे भगवान् रुद्रः ससुतः प्रमथैर्वृतः । आरुह्य नन्दिवृषभं युद्धं कर्त्तुं समाययौ ॥ ९ ॥ आसीत्सुतुमुलं युद्धमद्भुतं लोमहर्षणम् । कृष्णादिकानां तैस्तत्र रुद्राद्यैर्बाणरक्षकैः ॥ १० ॥ कृष्णशंकरयोरासीत्प्रद्युम्नगुहयोरपि । कूष्माण्डकूपकर्णाभ्यां बलेन सह संयुगः ॥ ११ ॥ साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः । नन्दिना गरुडस्यापि परेषां च परैरपि ॥ १२ ॥ ब्रह्मादयः सुराधीशा मुनयः सिद्धचारणाः । गन्धर्वाऽप्सरसो यानैर्विमानैर्द्रष्टुमागमन् ॥ १३ ॥ प्रमथैर्विविधाकारै रेवत्यन्तैः सुदारुणम् । युद्धं बभूव विप्रेन्द्र तेषां च यदुवंशिनाम् ॥ १४ ॥ भ्रात्रा रामेण सहितः प्रद्युम्नेन च धीमता । कृष्णश्चकार समरमतुलं प्रमथैः सह ॥ १५ ॥ तत्राग्निनाऽभवद्युद्धं यमेन वरुणेन च । विमुखेन त्रिपादेन ज्वरेण च गुहेन च ॥ १६ ॥ प्रमथैर्विविधाकारैस्तेषामत्यन्तदारुणम् । युद्धं बभूव विकटं वृष्णीनां रोमहर्षणम् ॥ १७ ॥ बिभीषिकाभिर्बह्वीभिः कोटरीभिः पदे पदे । निर्ल्लज्जाभिश्च नारीभिः प्रबलाभिरदूरतः ॥ १८ ॥ शंकरानुचरान् शौरिर्भूतप्रमथगुह्यकान् । द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ॥ १९ ॥ एवं प्रद्युम्नप्रमुखा वीरा युद्धमहोत्सवाः । चक्रुर्युद्धं महाघोरं शत्रुसैन्यं विनाशयन् ॥ २० ॥ विशीर्यमाणं स्वबलं दृष्ट्वा रुद्रोऽत्यमर्षणः । क्रोधं चकार सुमहन्ननाद च महोल्बणम् ॥ २१ ॥ तच्छ्रुत्वा शंकरगणा विनेदुर्युयुधुश्च ते । मर्दयन्प्रतियोद्धारं वर्द्धिताः शम्भुतेजसा ॥ २२ ॥ पृथग्विधानि चायुक्तं शार्ङ्गास्त्राणि पिनाकिने । प्रत्यक्षैः शमयामास शूलपाणिरविस्मितः ॥ २३ ॥ ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् । आग्नेयस्य च पार्जन्यं नैजं नारायणस्य च ॥ २४ ॥ कृष्णसैन्यं विदुद्राव प्रतिवीरेण निर्जितम् । न तस्थौ समरे व्यास पूर्णरुद्रसुतेजसा ॥ २५ ॥ विद्राविते स्वसैन्ये तु श्रीकृष्णश्च परन्तपः । स्वं ज्वरं शीतलाख्यं हि व्यसृजद् दारुणं मुने ॥ २६ ॥ विद्राविते कृष्णसैन्ये कृष्णस्य शीतलज्वरः । अभ्यपद्यत तं रुद्रं मुने दशदिशो दहन् ॥ २७ ॥ महेश्वरोऽथ तं दृष्ट्वायान्तं स्वं विसृजज्ज्वरम् । माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥ २८ ॥ वैष्णवोऽथ समाक्रदन्माहेश्वरबलार्दितः । अलब्ध्वाऽभयमन्यत्र तुष्टाव वृषभध्वजम् ॥ २९ ॥ अथ प्रसन्नो भगवान्विष्णुज्वरनुतो हरः । विष्णुशीतज्वरं प्राह शरणागतवत्सलः ॥ ३० ॥ महेश्वर उवाच शीतज्वर प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम् । यो नौ स्मरति संवादं तस्य न स्याज्ज्वराद्भयम् ॥ ३१ ॥ सनत्कुमार उवाच इत्युक्तो रुद्रमानम्य गतो नारायणज्वरः । तं दृष्ट्वा चरितं कृष्णो विसिस्माय भयान्वितः ॥ ३२ ॥
स्कन्द प्रद्युम्नबाणौघैरर्द्यमानोऽथ कोपितः । जघान शक्त्या प्रद्युम्नं दैत्यसङ्घात्यमर्षणः ॥ ३३ ॥ स्कन्दप्राप्तिहतस्तत्र प्रद्युम्नः प्रबलोऽपि हि । असृग्विमुञ्चन्गात्रेभ्यो बलेनापाक्रमद्रणात् ॥ ३४ ॥ कुम्भाण्डकूपकर्णाभ्यां नानास्त्रैश्च समाहतः । दुद्राव बलभद्रोपि न तस्थेपि रणे बली ॥ ३५ ॥ कृत्वा सहस्रं कायानां पीत्वा तोयं महार्णवात् । गरुडो नाशयत्यर्थाऽऽवर्तैर्मेघार्णवाम्बुभिः ॥ ३६ ॥ अथ क्रुद्धो महेशस्य वाहनो वृषभो बली । वेगेन महतारं वै शृङ्गाभ्यां निजघान तम् ॥ ३७ ॥ शृङ्गघातविशीर्णाङ्गो गरुडोऽतीव विस्मितः । विदुद्राव रणात्तूर्णं विहाय च जनार्दनम् ॥ ३८ ॥ एवं जाते चरित्रं तु भगवान्देवकीसुतः । उवाच सारथिं शीघ्रं रुद्रतेजोतिविस्मितः ॥ ३९ ॥ श्रीकृष्ण उवाच हे सूत शृणु मद्वाक्यं रथं मे वाहय द्रुतम् । महादेवसमीपस्थो यथा स्यां गदितुं वचः ॥ ४० ॥ सनत्कुमार उवाच इत्युक्तो हरिणा सूतो दारुकःस्वगुणाग्रणीः । द्रुतं तं वाहयामास रथं रुद्रसमीपतः ॥ ४१ ॥ अथ विज्ञापयामास नतो भूत्वा कृताञ्जलिः । श्रीकृष्णः शंकरं भक्त्या प्रपन्नो भक्तवत्सलम् ॥ ४२ ॥ श्रीकृष्ण उवाच देवदेव महादेव शरणागतवत्सल । नमामि त्वाऽनन्तशक्तिं सर्वात्मानं परेश्वरम् ॥ ४३ ॥ विश्वोत्पत्तिस्थाननाशहेतुं सज्ज्ञप्ति मात्रकम् । ब्रह्मलिङ्गं परं शान्तं केवलं परमेश्वरम् ॥ ४४ ॥ कालो दैवं कर्म जीवः स्वभावो द्रव्यमेव च । क्षेत्रं च प्राण आत्मा च विकारस्तत्समूहकः ॥ ४५ ॥ बीजरोहप्रवाहस्तु त्वन्मायैषा जगत्प्रभो । तन्निबन्धं प्रपद्येह त्वामहं परमेश्वरम् ॥ ४६ ॥ नाना भावैर्लीलयैव स्वीकृतैर्निर्जरादिकान् । नूनं बिभर्षि लोकेशो हंस्युन्मार्गान्स्वभावतः ॥ ४७ ॥ त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये । यं पश्यन्त्यमलात्मानमाकाशमिव केवलम् ॥ ४८ ॥ त्वमेव चाद्यः पुरुषोऽद्वितीयस्तुर्य आत्मदृक् । ईशो हेतुरहेतुश्च सविकारः प्रतीयसे ॥ ४९ ॥ स्वमायया सर्वगुणप्रसिद्ध्यै भगवन्प्रभो । सर्वान्वितः प्रभिन्नश्च सर्वतस्त्वं महेश्वर ॥ ५० ॥ यथैव सूर्योऽपिहितश्छायारूपाणि च प्रभो । स्वच्छायया सञ्चकास्ति ह्ययं परमदृग्भवान् ॥ ५१ ॥ गुणेनापिहितोऽपि त्वं गुणे नैव गुणान् विभो । स्वप्रदीपश्चकासि त्वं भूमन् गिरिश शंकर ॥ ५२ ॥ त्वन्मायामोहितधियः पुत्रदारगृहादिषु । उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ ५३ ॥ दैवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः । यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चकः ॥ ५४ ॥ त्वदाज्ञयाहं भगवान्बाणदोश्छेत्तुमागतः । त्वयैव शप्तो बाणोऽयं गर्वितो गर्वहारिणा । ५५ ॥ निवर्त्तस्व रणा द्देव त्वच्छापो न वृथा भवेत् । आज्ञां देहि प्रभो मे त्वं बाणस्य भुजकृन्तने ॥ ५६ ॥ सनत्कुमार उवाच इत्याकर्ण्य वचः शम्भुः श्रीकृष्णस्य मुनीश्वर । प्रत्युवाच प्रसन्नात्मा कृष्णस्तुत्या महेश्वरः ॥ ५७ ॥ महेश्वर उवाच सत्यमुक्तं त्वया तात मया शप्तो हि दैत्यराट् । मदाज्ञया भवान्प्राप्तो बाणदोदण्डकृन्तने ॥ ५८ ॥ किं करोमि रमानाथ भक्ताधीनः सदा हरे । पश्यतो मे कथं वीर स्याद् बाणभुजकृन्तनम् ॥ ५९ ॥ अतस्त्वं जृम्भणास्त्रेण मां जृम्भय मदाज्ञया । ततस्त्वं कुरु कार्यं स्वं यथेष्टं च सुखी भव ॥ ६० ॥ सनत्कुमार उवाच इत्युक्तः शंकरेणाथ शार्ङ्गपाणिस्तु विस्मितः । स्वरणस्थानमागत्य मुमोद स मुनीश्वरः ॥ ६१ ॥ जृम्भणास्त्रं मुमोचाथ सन्धाय धनुषि द्रुतम् । पिनाकपाणये व्यास नानास्त्रकुशलो हरिः ॥ ६२ ॥ मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् । बाणस्य पृतनां शौरिर्जघानासिगदर्ष्टिभिः ॥ ६३ ॥ इति शिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे बाणाऽसुररुद्रकृष्णादियुद्धवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ ५४ ॥ श्रीगौरीशंकरार्पणमस्तु |