|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
त्रिपञ्चाशत्तमोऽध्यायः
ऊषाचरित्रे अनिरुद्धोषाविहारवर्णनम्
सनत्कुमार उवाच
अथ बाणासुरः क्रुद्धस्तत्र गत्वा ददर्श तम् । दिव्यलीलात्तवपुषं प्रथमे वयसि स्थितम् ॥ १ ॥ तं दृष्ट्वा विस्मितं वाक्यं किं कारणमथाब्रवीत् । बाणः क्रोधपरीतात्मा युधि शौण्डो हसन्निव ॥ २ ॥ अहो मनुष्यो रूपाढ्यःसाहसी धैर्यवानिति । कोयमागतकालश्च दुष्टभाग्यो विमूढधीः ॥ ३ ॥ येन मे कुलचारित्रं दूषितं दुहिता हिता । तं मारयध्वं कुपिताः शीघ्रं शस्त्रैः सुदारुणैः ॥ ४ ॥ दुराचारं च तं बद्ध्वा घोरे कारागृहे ततः । रक्षध्वं विकटे वीरा बहुकालं विशेषतः ॥ ५ ॥ न जाने कोऽयमभयः को वा घोरपराक्रमः । विचार्येति महाबुद्धिः संदिग्धोऽभूच्छरासुरः ॥ ६ ॥ ततो दैत्येन सैन्यं तु दशसाहस्रकं शनैः । वधाय तस्य वीरस्य व्यादिष्टं पापबुद्धिना ॥ ७ ॥ तदादिष्टास्तु ते वीराः सर्वतोन्तःपुरं द्रुतम् । छादयामासुरत्युग्राश्छिन्धि भिन्दीति वादिनः ॥ ८ ॥ शत्रुसैन्यं ततो दृष्ट्वा गर्जमानः स यादवः । अन्तःपुरं द्वारगतं परिघं गृह्य चातुलम् ॥ ९ ॥ निष्क्रान्तो भवनात्तस्माद्वज्रहस्त इवान्तकः । तेन तान्किङ्करान् हत्वा पुनश्चान्तःपुरं ययौ ॥ १० ॥ एवं दशसहस्राणि सैन्यानि मुनिसत्तम । जघान रोषरक्ताक्षो वर्द्धितः शिवतेजसा ॥ ११ ॥ लक्षे हतेऽथ योधानां ततो बाणासुरो रुषा । कुभाण्डं स गृहीत्वा तु युद्धे शौण्डं समाह्वयत् ॥ १२ ॥ अनिरुद्धं महाबुद्धिं द्वन्द्वयुद्धे महाहवे । प्राद्युम्निं रक्षितं शैवतेजसा प्रज्वलत्तनुम् ॥ १३ ॥ ततो दशसहस्राणि तुरंगाणां रथोत्तमान् । युद्धप्राप्तेन खड्गेन दैत्येन्द्रस्य जघान सः ॥ १४ ॥ तद्वधाय ततः शक्तिं कालवैश्वानरोपमाम् । अनिरुद्धो गृहीत्वा तां तया तं निजघान हि ॥ १५ ॥ रथोपस्थे ततो बाणस्तेन शक्त्याहतो दृढम् । स साश्वस्तत्क्षणं वीरस्तत्रैवान्तरधीयत ॥ १६ ॥ तस्मिंस्त्वदर्शनं प्राप्ते प्राद्युम्निरपराजितम् । आलोक्य ककुभःसर्वाः तस्थौ गिरिरिवाचलः ॥ १७ ॥ अदृश्यमानस्तु तदा कूटयोधः स दानवः । नानाशस्त्रसहस्रैस्तं जघान हि पुनः पुनः ॥ १८ ॥ छद्मनां नागपाशैस्तं बबन्ध स महाबलः । बलिपुत्रो महावीरः शिवभक्तः शरासुरः ॥ १९ ॥ तं बद्ध्वा पञ्जरान्तःस्थं कृत्वा युद्धादुपारमत् । उवाच बाणः सङ्कुद्धः सूतपुत्रं महाबलम् ॥ २० ॥ बाणासुर उवाच सूतपुत्र शिरश्छिन्धि पुरुषस्यास्य वै लघु । येन मे दूषितं पूतं बलाद्दुष्टेन सत्कुलम् ॥ २१ ॥ छित्वा तु सर्वगात्राणि राक्षसेभ्यः प्रयच्छ भोः । अथास्य रक्तमांसानि क्रव्यादा अपि भुञ्जताम् ॥ २२ ॥ अगाधे तृणसङ्कीर्णे कूपे पातकिनं जहि । किं बहूक्त्या सूतपुत्र मारणीयो हि सर्वथा ॥ २३ ॥ सनत्कुमार उवाच तस्य तद्वचनं श्रुत्वा धर्मबुद्धिर्निशाचरः । कुम्भाण्डस्त्वब्रवीद्वाक्यं बाणं सन्मन्त्रिसत्तमम् ॥ २४ ॥ कुम्भाण्ड उवाच नैतत्कर्तुं समुचितं कर्म देव विचार्यताम् । अस्मिन् हते हतो ह्यात्मा भवेदिति मतिर्मम ॥ २५ ॥ अयं तु दृश्यते देव तुल्यो विष्णोः पराक्रमैः । वर्धितश्चन्द्रचूडस्य त्वद्दुष्टस्य सुतेचसा ॥ २६ ॥ अथ चन्द्रललाटस्य साहसेन समत्स्वयम् । इमामवस्थां प्राप्तोऽसि पौरुषे संव्यवस्थितः ॥ २७ ॥
अयं शिवप्रसादाद्वै कृष्णपौत्रो महाबलः । अस्मांस्तृणोपमान् वेत्ति दष्टोऽपि भुजगैर्बलात् ॥ २८ ॥ सनत्कुमार उवाच एतद्वाक्यं तु बाणाय कथयित्वा स दानवः । अनिरुद्धमुवाचेदं राजनीतिविदुत्तमः ॥ २९ ॥ कुम्भाण्ड उवाच कोसि कस्यासि रे वीर सत्यं वद ममाग्रतः । केन वा त्वमिहानीतो दुराचार नराधम ॥ ३० ॥ दैत्येन्द्रं स्तुहि वीरं त्वं नमस्कुरु कृताजलिः । जितोस्मीति वचो दीनं कथयित्वा पुनः पुनः ॥ ३१ ॥ एवं कृते तु मोक्षःस्यादन्यथा बन्धनादि च । तच्छ्रुत्वा वचनं तस्य प्रतिवाक्यमुवाच सः ॥ ३२ ॥ अनिरुद्ध उवाच रे रे दैत्याऽधमसखे करपिण्डोपजीवक । निशाचर दुराचार शत्रुधर्मं न वेत्सि भोः ॥ ३३ ॥ दैन्यं पलायनं चाथ शूरस्य मरणाधिकम् । विरुद्धं चोपशल्यं च भवेदिति मतिर्मम ॥ ३४ ॥ क्षत्रियस्य रणे श्रेयो मरणं सम्मुखे सदा । न वीरमानिनो भूमौ दीनस्येव कृताञ्जलिः ॥ ३५ ॥ सनत्कुमार उवाच इत्यादि वीरवाक्यानि बहूनि स जगाद तम् । तदाकर्ण्य सबाणोऽसौ विस्मितोऽभूच्चुकोप च ॥ ३६ ॥ तदोवाच नभोवाणी बाणस्याश्वासनाय हि । शृण्वतां सर्ववीराणामनिरुद्धस्य मन्त्रिणः ॥ ३७ ॥ व्योमवाण्युवाच भो भो बाण महावीर न क्रोधं कर्तुमर्हसि । बलिपुत्रोसि सुमते शिवभक्त विचार्यताम् ॥ ३८ ॥ शिवः सर्वेश्वरः साक्षी कर्मणां परमेश्वरः । तदधीनमिदं सर्वं जगद्वै सचराचरम् ॥ ३९ ॥ स एव कर्ता भर्ता च संहर्ता जगतां सदा । रजः सत्त्वतमोधारी विधिविष्णुहरात्मकः ॥ ४० ॥ सर्वस्यान्तर्गतः स्वामी प्रेरकः सर्वतः परः । निर्विकार्यव्ययो नित्यो मायाधीशोऽपि निर्गुणः ॥ ४१ ॥ तस्येच्छयाऽबलो ज्ञेयो बली बलिवरात्मज । इति विज्ञाय मनसि स्वस्थो भव महामते ॥ ४२ ॥ गर्वापहारी भगवान्नानालीलाविशारदः । नाशयिष्यति ते गर्वमिदानीं भक्तवत्सलः ॥ ४३ ॥ सनत्कुमार उवाच इत्याभाष्य नभोवाणी विरराम महामुने । बाणासुरस्तद्वचनादनिरुद्धं न जघ्निवान् ॥ ४४ ॥ किं तु स्वान्तःपुरं गत्वा पपौ पानमनुत्तमम् । मद्वाक्यं च विसस्मार विजहार विरुद्धधीः ॥ ४५ ॥ ततोनिरुद्धो बद्धस्तु नागभोगैर्विषोल्बणैः । प्रिययाऽतृप्तचेतास्तु दुर्गां सस्मार तत्क्षणात् ॥ ४६ ॥ अनिरुद्ध उवाच शरण्ये देवि बद्धोऽस्मि दह्यमानस्तु पन्नगैः । आगच्छ मे कुरु त्राणं यशोदे चण्डरोषिणि ॥ ४७ ॥ शिवभक्ते महादेवि सृष्टिस्थित्यन्तकारिणी । त्वां विना रक्षको नान्यस्तस्माद्रक्ष शिवे हि माम् ॥ ४८ ॥ सनत्कुमार उवाच तेनेत्थं तोषिता तत्र काली भिन्नाञ्जनप्रभा । ज्येष्ठकृष्णचतुर्दश्यां सम्प्राप्तासीन्महानिशि ॥ ४९ ॥ गुरुभिर्मुष्टिनिर्घातैर्दारयामास पञ्जरम् । शरांस्तान्भस्मसात्कृत्वा सर्परूपान् भयानकान् ॥ ५० ॥ मोचयित्वानिरुद्धं तु ततश्चान्तःपुरं ततः । प्रवेशयित्वा दुर्गा तु तत्रैवादर्शनं गता ॥ ५१ ॥ इत्थं देव्याः प्रसादात्तु शिवशक्तेर्मुनीश्वर । कृच्छ्रमुक्तोनिरुद्धोभूत्सुखी चैव गतव्यथः ॥ ५२ ॥ अथ लब्धजयो भूत्वानिरुद्धः शिवशक्तितः । प्राद्युम्निर्बाणतनयां प्रियां प्राप्य मुमोद च ॥ ५३ ॥ पूर्ववद्विजहारासौ तया स्वप्रियया सुखी । पीतपानःसुरक्ताक्षः स बाणसुतया ततः ॥ ५४ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे ऊषाचरित्रे अनिरुद्धोषाविहारवर्णनंनाम त्रिपञ्चाशत्तमो ऽध्याय ॥ ५३ ॥ श्रीगौरीशंकरार्पणमस्तु |