|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
द्विपञ्चाशत्तमोऽध्यायः
ऊषा चरित्रवर्णनम्
सनत्कुमार उवाच
शृणुष्वान्यच्चरित्रं च शिवस्य परमात्मनः । भक्तवात्सल्यसङ्गर्भि परमानन्ददायकम् ॥ १ ॥ पुरा बाणासुरो नाम दैवदोषाच्च गर्वितः । कृत्वा ताण्डवनृत्यं च तोषयामास शंकरम् ॥ २ ॥ ज्ञात्वा सन्तुष्टमनसं पार्वतीवल्लभं शिवम् । उवाच चासुरो बाणो नतस्कन्धः कृताञ्जलिः ॥ ३ ॥ बाण उवाच देवदेव महादेव सर्वदेवशिरोमणे । त्वत्प्रसादाद् बली चाहं शृणु मे परमं वचः ॥ ४ ॥ दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवेत् । त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम् ॥ ५ ॥ हे देव किमनेनापि सहस्रेण करोम्यहम् । बाहूनां गिरितुल्यानां विना युद्धं वृषध्वज ॥ ६ ॥ कडून्त्या निभृतैदोंर्भिर्युयुत्सुर्दिग्गजानहम् । पुराण्याचूर्णयन्नद्रीन्भीतास्तेपि प्रदुद्रुवुः ॥ ७ ॥ मया यमः कृतो योद्धा वह्निश्च कृतको महान् । वरुणश्चापि गोपालो गवां पालयिता तथा ॥ ८ ॥ गजाध्यक्षः कुबेरस्तु सैरन्ध्री चापि निर्ऋतिः । जितश्चाखण्डलो लोके करदायी सदा कृतः ॥ ९ ॥ युद्धस्यागमनं ब्रूहि यत्रैते बाहवो मम । शत्रुहस्तप्रयुक्तैश्च शस्त्रास्त्रैर्जर्जरीकृताः ॥ १० ॥ पतन्तु शत्रुहस्ताद्वा पातयन्तु सहस्रधा । एतन्मनोरथं मे हि पूर्णं कुरु महेश्वर ॥ ११ ॥ सनत्कुमार उवाच तच्छ्रुत्वा कुपितो रुद्रस्त्वट्टहासं महाद्भुतम् । कृत्वाऽब्रवीन्महामन्युर्भक्तबाधाऽपहारकः ॥ १२ ॥ रुद्र उवाच धिग्धिक् त्वां सर्वतो गर्विन्सर्वदैत्यकुलाधम । बलिपुत्रस्य भक्तस्य नोचितं वच ईदृशम् ॥ १३ ॥ दर्पस्यास्य प्रशमनं लप्स्यसे चाशु दारुणम् । महायुद्धमकस्माद्वै बलिना मत्समेन हि ॥ १४ ॥ तत्र ते गिरिसङ्काशा बाहवोऽनलकाष्ठवत् । छिन्ना भूमौ पतिष्यन्ति शस्त्रास्त्रैः कदलीकृताः ॥ १५ ॥ यदेष मानुषशिरो मयूरसहितो ध्वजः । विद्यते तव दुष्टात्मंस्तस्य स्यात्पतनं यदा ॥ १६ ॥ स्थापितस्यायुधागारे विना वातकृतं भयम् । तदा युद्धं महाघोरं सम्प्राप्तमिति चेतसि ॥ १७ ॥ निधाय घोरं सङ्ग्रामं गच्छेथाः सर्वसैन्यवान् । साम्प्रतं गच्छ तद्वेश्म यतस्तद्विद्यते शिवः ॥ १८ ॥ तथा तान्स्वमहोत्पातांस्तत्र द्रष्टासि दुर्मते । इत्युक्त्वा विररामाथ गर्वहृद्भक्तवत्सलः ॥ १९ ॥ सनत्कुमार उवाच तच्छ्रुत्वा रुद्रमभ्यर्च्य दिव्यैरंजलिकुड्मलैः । प्रणम्य च महादेवं बाणश्च स्वगृहं गतः ॥ २० ॥ कुम्भाण्डाय यथावृत्तं पृष्टः प्रोवाच हर्षितः । पर्यैक्षिष्टासुरो बाणस्तं योगं ह्युत्सुकः सदा ॥ २१ ॥ अथ दैवात्कदाचित्स स्वयं भग्नं ध्वजं च तम् । दृष्ट्वा तत्रासुरो बाणो हृष्टो युद्धाय निर्ययौ ॥ २२ ॥ स स्वसैन्यं समाहूय संयुक्तः साष्टभिर्गणैः । इष्टिं साङ्ग्रामिकां कृत्वा दृष्ट्वा साङ्ग्रामिकं मधु ॥ २३ ॥ ककुभां मंगलं सर्वं सम्प्रेक्ष्य प्रस्थितोऽभवत् । महोत्साहो महावीरो बलिपुत्रो महारथः ॥ २४ ॥ इति हृत्कमले कृत्वा कः कस्मादागमिष्यति । योद्धा रणप्रियो यस्तु नानाशस्त्रास्त्रपारगः ॥ २५ ॥ यस्तु बाहुसहस्रं मे छिनत्त्वनलकाष्ठवत् । तथा शस्त्रैर्महातीक्ष्णैश्च्छिनद्मि शतशस्त्विह ॥ २६ ॥ एतस्मिन्नन्तरे कालः सम्प्राप्तः शंकरेण हि । यत्र सा बाणदुहिता सुजाता कृतमंगला ॥ २७ ॥ माधवं माधवे मासि पूजयित्वा महानिशि । सुप्ता चान्तः पुरे गुप्ते स्त्रीभावमुपलम्भिता ॥ २८ ॥ गौर्या सम्प्रेषितेनापि व्याकृष्टा दिव्यमायया । कृष्णात्मजात्मजेनाथ रुदन्ती सा ह्यनाथवत् ॥ २९ ॥ स चापि तां बलाद्भुक्त्वा पार्वत्याः सखिभिः पुनः । नीतस्तु दिव्ययोगेन द्वारकां निमिषान्तरात् ॥ ३० ॥ मृदिता सा तदोत्थाय रुदन्ती विविधा गिरः । सखीभ्यः कथयित्वा तु देहत्यागे कृतक्षणा ॥ ३१ ॥ सख्या कृतात्मनो दोषं सा व्यास स्मारिता पुनः । सर्वं तत्पूर्ववृत्तान्तं ततो दृष्ट्वा च साऽभवत् ॥ ३२ ॥
अब्रवीच्चित्रलेखां च ततो मधुरया गिरा । ऊषा बाणस्य तनया कुम्भाण्डतनयां मुने ॥ ३३ ॥ ऊषोवाच सखि यद्येष मे भर्ता पार्वत्या विहितः पुरा । केनोपायेन ते गुप्तः प्राप्यते विधिवन्मया ॥ ३४ ॥ कस्मिन्कुले स वा जातो मम येन हृतं मनः । इत्युषावचनं श्रुत्वा सखी प्रोवाच तां तदा ॥ ३५ ॥ चित्रलेखोवाच त्वया स्वप्ने च यो दृष्टः पुरुषो देवि तं कथम् । अहं संमानयिष्यामि न विज्ञातस्तु यो मम ॥ ३६ ॥ दैत्यकन्या तदुक्ते तु रागान्धा मरणोत्सुका । रक्षिता च तया सख्या प्रथमे दिवसे ततः ॥ ३७ ॥ पुनः प्रोवाच सोषां वै चित्रलेखा महामतिः । कुम्भाण्डस्य सुता बाणतनयां मुनिसत्तम ॥ ३८ ॥ व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाष्यते । समानेष्ये नरं यस्ते मनोहर्ता तमादिश ॥ ३९ ॥ सनत्कुमार उवाच इत्युक्त्वा वस्त्रपुटके देवान्दैत्यांश्च दानवान् । गन्धर्वसिद्धनागांश्च यक्षादींश्च तथालिखत् ॥ ४० ॥ तथा नरांस्तेषु वृष्णीन् शूरमानकदुन्दुभिम् । व्यलिखद्रामकृष्णौ च प्रद्युम्नं नरसत्तमम् ॥ ४१ ॥ अनिरुद्धं विलिखितं प्राद्युम्निं वीक्ष्य लज्जिता । आसीदवाङ्मुखी चोषा हृदये हर्षपूरिता ॥ ४२ ॥ ऊषा प्रोवाच चौरोऽसौ मया प्राप्तस्तु यो निशि । पुरुषः सखि येनाशु चेतोरत्नं हृतं मम ॥ ४३ ॥ यस्य संस्पर्शनादेव मोहिताहं तथाभवम् । तमहं ज्ञातुमिच्छामि वद सर्वं च भामिनि ॥ ४४ ॥ कस्यायमन्वये जातो नाम किं चास्य विद्यते । इत्युक्ता साब्रवीन्नाम योगिनी तस्य चान्वयम् ॥ ४५ ॥ सर्वमाकर्ण्य सा तस्य कुलादि मुनिसत्तम । उत्सुका बाणतनया बभाषे सा तु कामिनी ॥ ४६ ॥ ऊषोवाच उपायं रचय प्रीत्या तत्प्राप्त्यै सखि तत्क्षणात् । येनोपायेन तं कान्तं लभेयं प्राणवल्लभम् ॥ ४७ ॥ यं विनाहं क्षणं नैकं सखि जीवितुमुत्सहे । तमानयेह सद्यत्नात्सुखिनीं कुरु मां सखि ॥ ४८ ॥ सनत्कुमार उवाच इत्युक्ता सा तथा बाणात्मजया मन्त्रिकन्यका । विस्मिताभून्मुनिश्रेष्ठ सुविचारपराऽभवत् ॥ ४९ ॥ ततःसखीं समाभाष्य चित्रलेखा मनोजवा । बुद्ध्वा तं कृष्णपौत्रं सा द्वारकां गन्तुमुद्यता ॥ ५० ॥ ज्येष्ठकृष्णचतुर्दश्यां तृतीये तु गतेऽहनि । आप्रभातान्मुहूर्ते तु सम्प्राप्ता द्वारकां पुरीम् ॥ ५१ ॥ एकेन क्षणमात्रेण नभसा दिव्ययोगिनी । ततश्चान्तःपुरोद्याने प्राद्युम्निर्ददृशे तया ॥ ५२ ॥ क्रीडन्नारीजनैःसार्द्धं प्रपिबन्माधवी मधु । सर्वाङ्गसुन्दरः श्यामः सुस्मितो नवयौवनः ॥ ५३ ॥ ततः खट्वां समारूढमन्धकारपटेन सा । आच्छादयित्वा योगेन तामसेन च माधवम् ॥ ५४ ॥ ततःसा मूर्ध्नि तां खट्वां गृहीत्वा निमिषान्तरात् । सम्प्राप्ता शोणितपुरं यत्र सा बाणनन्दिनी ॥ ५५ ॥ कामार्ता विविधान्भावाञ्चकारोन्मत्तमानसा । आनीतमथ तं दृष्ट्वा तदा भीता च साऽभवत् ॥ ५६ ॥ अन्तःपुरे सुगुप्ते च नवे तस्मिन्समागमे । यावत्क्रीडितुमारब्धं तावज्ज्ञातं च तत्क्षणात् ॥ ५७ ॥ अन्तःपुरद्वारगतैर्वेत्रजर्जरपाणिभिः । इङ्गितैरनुमानैश्च कन्यादौःशील्यमाचरन् ॥ ५८ ॥ स चापि दृष्टस्तैस्तत्र नरो दिव्यवपुर्धरः । तरुणो दर्शनीयस्तु साहसी समरप्रियः ॥ ५९ ॥ तं दृष्ट्वा सर्वमाचख्युर्बाणाय बलिसूनवे । पुरुषास्ते महावीराः कन्यान्तःपुररक्षकाः ॥ ६० ॥ द्वारपाला ऊचुः देव कश्चिन्न जानीते गुप्तश्चान्तःपुरे बलात् । स कस्तु तव कन्यां वै स्वयंग्राहादधर्षयत् ॥ ६१ ॥ दानवेन्द्र महाबाहो पश्यपश्यैनमत्र च । यद्युक्तं स्यात्तत्कुरुष्व न दुष्टा वयमित्युत ॥ ६२ ॥ सनत्कुमार उवाच तेषां तद्वचनं श्रुत्वा दानवेन्द्रो महाबलः । विस्मितोभून्मुनिश्रेष्ठ कन्यायाः श्रुतदूषणः ॥ ६३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहि तायां पञ्चमे युद्धखण्डे ऊषाचरित्रवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥ श्रीगौरीशंकरार्पणमस्तु |