॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

एकपञ्चाशत्तमोऽध्यायः


ऊषा चरित्रवर्णनं शिवशिवाविहारवर्णनम्


व्यास उवाच
सनत्कुमार सर्वज्ञ श्राविता सुकथाद्‌भुता ।
भवतानुग्रहात्प्रीत्या शभ्वनुग्रहनिर्भरा ॥ १ ॥
इदानीं श्रोतुमिच्छामि चरितं शशिमौलिनः ।
गाणपत्यं ददौ प्रीत्या यथा बाणासुराय वै ॥ २ ॥
सनत्कुमार उवाच
शृणु व्यासादरात्तां वै कथां शम्भोः परात्मनः ।
गाणपत्यं यथा प्रीत्या ददौ बाणा सुराय हि ॥ ३ ॥
अत्रैव सुचरित्रं च शंकरस्य महाप्रभोः ।
कृष्णेन समरोप्यत्र शम्भोर्बाणानुगृह्णतः ॥ ४ ॥
अत्रानुरूपं शृणु मे शिवलीलान्वितं परम् ।
इतिहासं महापुण्यं मनः श्रोत्रसुखावहम् ॥ ५ ॥
ब्रह्मपुत्रो मरीचिर्यो मुनिरासीन्महामतिः ।
मानसः सर्वपुत्रेषु ज्येष्ठः श्रेष्ठः प्रजापतिः ॥ ६ ॥
तस्य पुत्रो महात्मासीत्कश्यपो मुनिसत्तमः ।
सृष्टिप्रवृद्धकोऽत्यन्तं पितुर्भक्तो विधेरपि ॥ ७ ॥
स्वस्य त्रयोदशमिता दक्षकन्याः सुशीलिकाः ।
कश्यपस्य मुनेर्व्यास पत्न्यश्चासन्पतिव्रताः ॥ ८ ॥
तत्र ज्येष्ठा दितिश्चासीद्दैत्यास्तत्तनयाः स्मृताः ।
अन्यासां च सुता जाता देवाद्याः सचराचराः ॥ ९ ॥
ज्येष्ठायाः प्रथमौ पुत्रौ दितेश्चास्तां महाबलौ ।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्ततः ॥ १० ॥
हिरण्यकशिपोः पुत्राश्चत्वारो दैत्यसत्तमाः ।
ह्रादानुह्रादसंह्रादप्रह्रादश्चेत्यनुक्रमात् ॥ ११ ॥
प्रह्रादस्तत्र हि महान्विष्णुभक्तो जितेन्द्रियः ।
यं नाशितुं न शक्तास्तेऽभवन्दैत्याश्च केऽपि ह ॥ १२ ॥
विरोचनः सुतस्तस्य महा दातृवरोऽभवत् ।
शक्राय स्वशिरो योऽदाद्याचमानाय विप्रतः ॥ १३ ॥
तस्य पुत्रो बलिश्चासीन्महादानी शिवप्रियः ।
येन वामनरूपाय हरयेऽदायि मेदिनी ॥ १४ ॥
तस्यौरसः सुतो बाणः शिवभक्तो बभूव ह ।
मान्यो वदान्यो धीमांश्च सत्यसन्धः सहस्रदः ॥ १५ ॥
शोणिताख्ये पुरे स्थित्वा स राज्यमकरोत्पुरा ।
त्रैलोक्यं च बलाञ्ज्जित्वा तन्नाथानसुरेश्वरः ॥ १६ ॥
तस्य बाणासुरस्यैव शिवभक्तस्य चामराः ।
शंकरस्य प्रसादेन किङ्‌करा इव तेऽभवन् ॥ १७ ॥
तस्य राज्येऽमरान्हित्वा नाभवन्दुःखिताः प्रजाः ।
सापत्न्यादुःखितास्ते हि परधर्मप्रवर्तिनः ॥ १८ ॥
सहस्रबाहुवाद्येन स कदाचिन्महासुरः ।
ताण्डवेन हि नृत्येनातोषयत्तं महेश्वरम् ॥ १९ ॥
तेन नृत्येन सन्तुष्टः सुप्रसन्नो बभूव ह ।
ददर्श कृपया दृष्ट्या शंकरो भक्तवत्सलः ॥ २० ॥
भगवान्सर्वलोकेशः शरण्यो भक्तकामदः ।
वरेण च्छन्दयामास बालेयं तं महासुरम् ॥ २१ ॥
शंकर उवाच
बालेयः स महादैत्यो बाणो भक्तवरः सुधीः ।
प्रणम्य शंकरं भक्त्या नुनाव परमेश्वरम् ॥ २२ ॥
बाणासुर उवाच
देवदेव महादेव शरणागतवत्सल ।
सन्तुष्टोऽसि महेशान ममोपरि विभो यदि ॥ २३ ॥
मद्‌रक्षको भव सदा मदुपस्थः पुराधिपः ।
सर्वथा प्रीतिकृन्मे हि ससुतः सगणः प्रभो ॥ २४ ॥
सनत्कुमार उवाच
बलिपुत्रः स वै बाणो मोहितः शिवमायया ।
मुक्तिप्रदं महेशानं दुराराध्यमपि ध्रुवम् ॥ २५ ॥
स भक्तवत्सलः शम्भुर्दत्त्वा तस्मै वरांश्च तान् ।
तत्रोवास तथा प्रीत्या सगणः ससुतः प्रभुः ॥ २६ ॥
स कदाचिद्‌ बाणपुरे चक्रे देवासुरैः सह ।
नदीतीरे हरः क्रीडां रम्ये शोणितकाह्वये ॥ २७ ॥
ननृतुर्जहसुश्चापि गन्धर्वासरसस्तथा ।
जेयुः प्रणेमुर्मुनय आनर्चुस्तुष्टुवुश्च तम् ॥ २८ ॥
ववल्गुः प्रथमाःसर्वे ऋषयो जुहुवुस्तथा ।
आययुः सिद्धसङ्‌घाश्च दृदृशुः शाङ्‌करीं रतिम् ॥ २९ ॥
कुतर्किका विनेशुश्च म्लेच्छाश्च परिपंथिनः ।
मातरोभिमुखास्तस्थुर्विनेशुश्च बिभीषिका ॥ ३० ॥
रुद्रसद्‌भावभक्तानां भवदोषाश्च निःस्तृताः ।
तस्मिन्दृष्टे प्रजाः सर्वाः सुप्रीतिं परमां ययुः ॥ ३१ ॥
ववल्गुर्मुनयःसिद्धाः स्त्रीणां दृष्ट्‍वा विचेष्टितम् ।
पुपुषुश्चापि ऋतवः स्वप्रभावं तु तत्र च ॥ ३२ ॥
ववुर्वाताश्च मृदवः पुष्पके सरधूसराः ।
चुकूजुः पक्षिसङ्‌घाश्च शाखिनां मधुलम्पटाः ॥ ३३ ॥
पुष्पभारावनद्धानां रारट्येरंश्च कोकिलाः ।
मधुरं कामजननं वनेषूपवनेषु च ॥ ३४ ॥
ततः क्रीडाविहारे तु मत्तो बालेन्दुशेखरः ।
अनिर्जितेन कामेन दृष्टः प्रोवाच नन्दिनम् ॥ ३५ ॥
चन्द्रशेखर उवाच
वामामानय गौरीं त्वं कैलासात्कृतमण्डनाम् ।
शीघ्रमस्माद्वनाद्‌गत्वा ह्युक्त्वाऽकृष्णामिहानय ॥ ३६ ॥
सनत्कुमार उवाच
स तथेति प्रतिज्ञाय गत्वा तत्राह पार्वतीम् ।
सुप्रणम्य रहो दूतः शंकरस्य कृताञ्जलिः ॥ ३७ ॥
नन्दीश्वर उवाच
द्रष्टुमिच्छति देवि त्वां देवदेवो महेश्वरः ।
स्ववल्लभां रूपकृतां मयोक्तं तन्निदेशतः ॥ ३८ ॥
सनत्कुमार उवाच
ततस्तद्वचनाद्‌गौरी मण्डनं कर्तुमादरात् ।
उद्यताभून्मुनिश्रेष्ठ पतिव्रतपरायणा ॥ ३९ ॥
आगच्छामि प्रभुं गच्छ वद तं त्वं ममाज्ञया ।
आजगाम ततो नन्दी रुद्रासन्नं मनोगतिः ॥ ४० ॥
पुनराह ततो रुद्रो नन्दिनं परविभ्रमः ।
पुनर्गच्छ ततस्तात क्षिप्रमानय पार्वतीम् ॥ ४१ ॥
बाढमुक्त्वा स तां गत्वा गौरीमाह सुलोचनाम् ।
द्रष्टुमिच्छति ते भर्ता कृतवेषां मनोरमाम् ॥ ४२ ॥
शंकरो बहुधा देवि विहर्तुं सम्प्रतीक्षते ।
एवं पतौ सुकामार्ते गम्यतां गिरिनन्दिनि ॥ ४३ ॥
अप्सरोभिःसमग्राभिरन्योन्यमभिमन्त्रितम् ।
लब्धभावो यथा सद्यः पार्वत्या दर्शनोत्सुकः ॥ ४४ ॥
अयं पिनाकी कामारिः वृणुयाद्यां नितम्बिनीम् ।
सर्वासां दिव्यनारीणां राज्ञी भवति वै ध्रुवम् ॥ ४५ ॥
वीक्षणं गौरिरूपेण क्रीडयेन्मन्मथैर्गणैः ।
कामोऽयं हन्ति कामारिमूचुरन्योन्यमादताः ॥ ४६ ॥
स्प्रष्टुं शक्नोति या काचिदृते दाक्षायणी स्त्रियम् ।
सा गच्छेत्तत्र निः शङ्‌कं मोहयेत्पार्वतीपतिम् ॥ ४७ ॥
कूष्माण्डतनया तत्र शंकरं स्प्रष्टुमुत्सहे ।
अहं गौरीसुरूपेण चित्रलेखा वचोऽब्रवीत् ॥ ४८ ॥
चित्रलेखोवाच
यदधान्मोहिनीरूपं केशवो मोहनेच्छया ।
पुरा तद्वैष्णवं योगमाश्रित्य परमार्थतः ॥ ४९ ॥
उर्वश्याश्च ततो दृष्ट्‍वा रूपस्य परिवर्तनम् ।
कालीरूपं घृताची तु विश्वाची चाण्डिकं वपुः ॥ ५० ॥
सावित्रिरूपं रम्भा च गायत्रं मेनका तथा ।
सहजन्या जयारूपं वैजयं पुञ्जिकस्थली ॥ ५१ ॥
मातॄणामप्यनुक्तानामनुक्ताश्चाप्सरोवराः ।
रत्नाद्‌रूपाणि ताश्चक्रुः स्वविद्यासंयुता अनु ॥ ५२ ॥
ततस्तासां तु रूपाणि दृष्ट्‍वा कुम्भांडनन्दिनी ।
वैष्णवादात्मयोगाच्च विज्ञातार्था व्यडम्बयत् ॥ ५३ ॥
ऊषा बाणासुरसुता दिव्ययोगविशारदा ।
चकार रूपं पार्वत्या दिव्यमत्यद्‌भुतं शुभम् ॥ ५४ ॥
महारक्ताब्जसङ्‌काशं चरणं चोक्तमप्रभम् ।
दिव्यलक्षणसंयुक्तं मनोऽभीष्टार्थदायकम् ॥ ५५ ॥
तस्या रमणसङ्‌कल्पं विज्ञाय गिरिजा ततः ।
उवाच सर्वविज्ञाना सर्वान्तर्यामिनी शिवा ॥ ५६ ॥
गिरिजोवाच
यतो मम स्वरूपं वै धृतमूषे सखि त्वया ।
सकामत्वेन समये सम्प्राप्ते सति मानिनि ॥ ५७ ॥
अस्मिंस्तु कार्तिके मासि ऋतुधर्मास्तु माधवे ।
द्वादश्यां शुक्लपक्षे तु यस्तु घोरे निशागमे ॥ ५८ ॥
कृतोपवासां त्वां भोक्ता सुप्तामन्तःपुरे नरः ।
स ते भर्त्ता कृतो देवैस्तेन सार्द्धं रमिष्यसि ॥ ५९ ॥
आबाल्याद्विष्णुभक्तासि यतोऽनिशमतन्द्रिता ।
एवमस्त्विति सा प्राह मनसा लज्जितानना ॥ ६० ॥
अथ सा पार्वती देवी कृतकौतुकमण्डना ।
रुद्रसंनिधिमागत्य चिक्रीडे तेन शम्भुना ॥ ६१ ॥
ततो रतान्ते भगवान् रुद्रश्चादर्शनं ययौ ।
सदारः सगणश्चापि सहितो दैवतैर्मुने ॥ ६२ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे
ऊषा चरित्रवर्णनं शिवशिवाविहारवर्णनं नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP