|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
पञ्चाशत्तमोऽध्यायः
मृतसञ्जीविनीविद्याप्राप्तिवर्णनम्
सनत्कुमार उवाच
शृणु व्यास यथा प्राप्ता मृत्युप्रशमनी परा । विद्या काव्येन मुनिना शिवान्मृत्युञ्जयाभिधात् ॥ १ ॥ पुरासौ भृगुदायादो गत्वा वाराणसीं पुरीम् । बहुकालं तपस्तेपे ध्यायन्विश्वेश्वरं प्रभुम् ॥ २ ॥ स्थापयामास तत्रैव लिङ्गं शम्भोः परात्मनः । कूपं चकार सद्रम्यं वेदव्यास तदग्रतः ॥ ३ ॥ पञ्चामृतैर्द्रोणमितैर्लक्षकृत्वः प्रयत्नतः । स्नापयामास देवेशं सुगन्धस्नपनैर्बहु ॥ ४ ॥ सहस्रकृत्वो देवेशं चन्दनैर्यक्ष कर्दमैः । समालिलिम्प सुप्रीत्या सुगन्धोद्वर्त्तनान्यनु ॥ ५ ॥ राजचम्पकधत्तूरैः करवीरकुशेशयैः । मालतीकर्णिकारैश्च कदम्बैर्बकुलोत्पलैः ॥ ६ ॥ मल्लिकाशतपत्रीभिःसिन्धुवारैः सकिंशुकः । बन्धूकपुष्पैः पुन्नागैर्नागकेशरकेशरैः ॥ ७ ॥ नवमल्लीचिबिलिकैः कुन्दैः समुचुकुन्दकैः । मन्दारैर्बिल्वपत्रैश्च द्रोणैर्मरुबकैर्वृकैः । ग्रन्थिपर्णैर्दमनकैः सुरम्यैश्चूतपल्लवैः ॥ ८ ॥ तुलसीदेवगन्धारीबृहत्पत्रीकुशाङ्कुरैः । नद्यावर्तैरगस्त्यैश्च सशालैर्देवदारुभिः ॥ ९ ॥ काञ्चनारैः कुरबकैर्दूर्वाङ्कुरकुरुंटकैः । प्रत्येकमेभिः कुसुमैः पल्लवैरपरैरपि ॥ १ ० ॥ पत्रैः सहस्रपत्रैश्च रम्यैर्नानाविधैः शुभैः । सावधानेन सुप्रीत्या स समानर्च शंकरम् ॥ ११ ॥ गीतनृत्योपहारैश्च संस्तुतः स्तुतिभिर्बहु । नाम्नां सहस्रैरन्यैश्च स्तोत्रैस्तुष्टाव शंकरम् ॥ १२ ॥ सहस्रं पञ्चशरदामित्थं शुक्रो महेश्वरम् । नानाप्रकारविधिना महेशं स समर्चयत् ॥ १३ ॥ यदा देवं नानुलोके मनागपि वरोन्मुखम् । तदान्यं नियमं घोरं जग्राहातीव दुःसहम् ॥ १४ ॥ प्रक्षाल्य चेतसोऽत्यन्तं चाञ्चल्याख्यं महामलम् । भावनावार्भिरसकृदिन्द्रियैःसहितस्य च ॥ १५ ॥ निर्मलीकृत्य तच्चेतो रत्नं दत्त्वा पिनाकिने । प्रययौ कणधूमौघं सहस्रं शरदां कविः ॥ १६ ॥ काव्यमित्थं तपो घोरं कुर्वन्तं दृढमानसम् । प्रससाद स तं वीक्ष्य भार्गवाय महेश्वरः ॥ १७ ॥ तस्माल्लिङ्गाद्विनिर्गत्य सहस्रार्काधिकद्युतिः । उवाच तं विरूपाक्षः साक्षाद्दाक्षायणीपतिः ॥ १८ ॥ महेश्वर उवाच तपोनिधे महाभाग भृगुपुत्र महामुने । तपसानेन ते नित्यं प्रसन्नोऽहं विशेषतः ॥ १९ ॥ मनोऽभिलषितं सर्वं वरं वरय भार्गव । प्रीत्या दास्येऽखिलान्कामान्नादेयं विद्यते तव ॥ २० ॥ सनत्कुमार उवाच निशम्येति वचः शम्भोर्महासुखकरं वरम् । स बभूव कविस्तुष्टो निमग्नः सुखवारिधौ ॥ २१ ॥ उद्यदानन्दसन्दोहरोमाञ्चाचितविग्रहः । प्रणनाम मुदा शम्भुमम्भोजनयनो द्विजः ॥ २२ ॥ तुष्टावाष्टतनुं तुष्टः प्रफुल्लनयनांचलः । मौलावञ्जलिमाधाय वदन् जय जयेति च ॥ २३ ॥ भार्गव उवाच त्वं भाभिराभिरभिभूय तमःसमस्त- मस्तं नयस्यभिमतानि निशाचराणाम् । देदीप्यसे दिवमणे गगने हिताय लोकत्रयस्य जगदीश्वर तन्नमस्ते ॥ २४ ॥ लोकेऽतिवेलमतिवेलमहामहोभि- र्निर्भासि कौ च गगनेऽखिललोकनेत्रः । विद्राविताखिलतमाःसुतमो हिमांशो पीयूष पूरपरिपूरित तन्नमस्ते ॥ २५ ॥ त्वं पावने पथि सदागतिरप्युपास्यः कस्त्वां विना भुवनजीवन जीवतीह । स्तब्धप्रभञ्जनविवर्द्धि तसर्वजन्तोः सन्तोषिता हि कुलसर्वग वै नमस्ते ॥ २६ ॥ विश्वेकपावक न तावकपावकैक- शक्ते ऋते मृतवतामृतदिव्यकार्यम् । प्राणिष्यदो जगदहो जगदन्तरात्मं- स्त्वं पावकः प्रतिपदं शमदो नमस्ते ॥ २७ ॥
पानीयरूप परमेश जगत्पवित्र चित्रं विचित्रसुचरित्रकरोऽसि नूनम् । विश्वं पवित्रममलं किल विश्वनाथ पानीयगाहनत एतदतो नतोऽस्मि ॥ २८ ॥ आकाशरूपबहिरन्तरुतावकाश- दानाद्विकस्वरमिहेश्वर विश्वमेतत् । त्वत्तः सदा सदय संश्वसिति स्वभावात् सङ्कोचमेति भवतोऽस्मि नतस्ततस्त्वाम् ॥ २९ ॥ विश्वम्भरात्मक बिभर्षि विभोऽत्र विश्वं को विश्वनाथ भवतोऽन्यतमस्तमोरिः । स त्वं विनाशय तमो तम चाहिभूष- स्तव्यात्परः परपरं प्रणतस्ततस्त्वाम् ॥ ३० ॥ आत्मस्वरूप तव रूपपरम्पराभि- राभिस्ततं हर चराचररूपमेतत् । सर्वान्तरात्मनिलय प्रतिरूपरूप नित्यं नतोऽस्मि परमात्मजनोऽष्टमूर्ते ॥ ३१ ॥ इत्यष्टमूर्तिभिरिमाभिरबन्धबन्धो युक्तः करोषि खलु विश्वजनीनमूर्त्ते । एतत्ततं सुविततं प्रणतप्रणीत सर्वार्थसार्थपरमार्थ ततो नतोऽस्मि ॥ ३२ ॥ सनत्कुमार उवाच अष्टमूर्त्यष्टकेनेत्थं परिष्टुत्येति भार्गवः । भर्गं भूमिमिलन्मौलिः प्रणनाम पुनः पुनः ॥ ३३ ॥ इति स्तुतो महादेवो भार्गवेणातितेजसा । उत्थाय भूमेर्बाहुभ्यां धृत्वा तं प्रणतं द्विजम् ॥ ३४ ॥ उवाच श्लक्ष्णया वाचा मेघनादगभीरया । सुप्रीत्या दशनज्योत्स्ना प्रद्योतितदिङ्गतरः ॥ ३५ ॥ महादेव उवाच विप्रवर्य कवे तात मम भक्तोऽसि पावनः । अनेनात्युग्रतपसा स्वजन्याचरितेन च ॥ ३६ ॥ लिङ्गस्थापनपुण्येन लिङ्गस्याराधनेन च । दत्तचित्तोपहारेण शुचिना निश्चलेन च ॥ ३७ ॥ अविमुक्तमहाक्षेत्रपवित्राचरणेन च । त्वां दयया प्रपश्यामि तवादेयं न किञ्चन ॥ ३८ ॥ अनेनैव शरीरेण ममोदरदरीगतः । मद्वरेन्द्रियमार्गेण पुत्रजन्मत्वमेष्यसि ॥ ३९ ॥ यच्छाम्यहं वरं तेऽद्य दुष्प्राप्यं पार्षदैरपि । हरेर्हिरण्यगर्भाच्च प्रायशोहं जुगोप यम् ॥ ।४० ॥ मृतसञ्जीवनी नाम विद्या या मम निर्मला । तपोबलेन महता मयैव परिनिर्मिता ॥ ४१ ॥ त्वां तां तु प्रापयाम्यद्य मन्त्ररूपां महाशुचे । योग्यता तेऽस्ति विद्यायास्तस्याः शुचितपोनिधे ॥ ४२ ॥ यं यमुद्दिश्य नियतमेतामावर्तयिष्यसि । विद्यां विद्येश्वरश्रेष्ठं सत्यं प्राणिष्यति धुवम् ॥ ४३ ॥ अत्यर्कमत्यग्नि च ते तेजो व्योम्नि च तारकम् । देदीप्यमानं भविता ग्रहाणां प्रवरो भव ॥ ४४ ॥ अपि च त्वां करिष्यन्ति यात्रां नार्यो नरोऽपि वा । तेषां त्वद् दृष्टिपातेन सर्वकार्यं प्रणश्यति ॥ ४९ ॥ तवोदये भविष्यन्ति विवाहादीनि सुव्रत । सर्वाणि धर्मकार्याणि फलवन्ति नृणामिह ॥ ४६ ॥ सर्वाश्च तिथयो नन्दास्तव संयोगतः शुभाः । तव भक्ता भविष्यन्ति बहुशुक्रा बहु प्रजाः ॥ ४७ ॥ त्वयेदं स्थापितं लिङ्गं शुक्रेशमिति सञ्ज्ञितम् । येऽर्चयिष्यन्ति मनुजास्तेषां सिद्धिर्भविष्यति ॥ ४८ ॥ आवर्षं प्रतिघस्त्रं ये नक्तव्रतपरायणाः । त्वद्दिने शुक्रकूपे ये कृतसर्वोदकक्रियाः ॥ ४९ ॥ शुक्रेशमर्चयिष्यन्ति शृणु तेषां तु यत्फलम् । अवन्ध्यशुक्रास्ते मर्त्याः पुत्रवन्तोऽतिरेतसः ॥ ५० ॥ पुंस्त्वसौभाग्यसम्पन्ना भविष्यन्ति न संशयः । उपेतविद्यास्ते सर्वे जनाः स्युः सुखभागिनः ॥ ५१ ॥ इति दत्त्वा वरान्देवस्तत्र लिङ्गे लयं ययौ । भार्गवोऽपि निजं धाम प्राप सन्तुष्टमानसः ॥ ५२ ॥ इति ते कथितं व्यास यथा प्राप्ता तपोबलात् । मृत्युञ्जयाभिधा विद्या किमन्यच्छ्रोतुमिच्छसि ॥ ५३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे मृतसञ्जीविनीविद्याप्राप्तिवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥ श्रीगौरीशंकरार्पणमस्तु |