|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
एकोनषष्टितमोऽध्यायः
विदलोत्पलदैत्यवधवर्णनम्
सनत्कुमार उवाच
शृणु व्यास सुसम्प्रीत्या चरितं परमेशितुः । यथावधीत्स्वप्रियया दैत्यमुद्दिश्य सञ्ज्ञया ॥ १ ॥ आस्तां पुरा महादैत्यो विदलोत्पलसञ्ज्ञकौ । अपुंवध्यौ महावीरौ सुदृप्तौ वरतो विधेः ॥ २ ॥ तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्बलात् । ताभ्यां सर्वे सुरा ब्रह्मन् दैत्याभ्यां निर्जिता रणे ॥ ३ ॥ ताभ्यां पराजिता देवा विधेस्ते शरणं गताः । नत्वा तं विधिवत्सर्वे कथयामासुरादरात ॥ ४ ॥ इति ब्रह्मा ह्यवोचत्तान् देव्या वध्यौ च तौ ध्रुवम् । धैर्यं कुरुत संस्मृत्य सशिवं शिवमादरात् ॥ ५ ॥ भक्तवत्सलनामासौ सशिवाशंकरः शिवः । शं करिष्यत्यदीर्घेण कालेन परमेश्वरः ॥ ६ ॥ सनत्कुमार उवाच इत्युक्त्वा तांस्ततो ब्रह्मा तूष्णीमासीच्छिवं स्मरन् । तेपि देवा मुदं प्राप्य स्वं स्वं धाम ययुस्तदा ॥ ७ ॥ अथ नारददेवर्षिः शिवप्रेरणया तदा । गत्वा तदीयभवनं शिवासौन्दर्यमुज्जगौ ॥ ८ ॥ श्रुत्वा तद्वचनं दैत्यावास्तां मायाविमोहितौ । देवीं परिजिहीर्षू तौ विषमेषु प्रपीडितौ ॥ ९ ॥ विचारयामासतुस्तौ कदा कुत्र शिवा च सा । भविष्यति विधेः प्राप्तोदयान्नाविति सर्वदा ॥ १० ॥ एकस्मिन्समये शम्भुर्विजहार सुलीलया । कौतुकेनैव चिक्रीडे शिवा कन्दुकलीलया ॥ ११ ॥ सखीभिःसह सुप्रीत्या कौतुकाच्छिवसन्निधौ ॥ १२ ॥ उदञ्चन्त्यञ्चदङ्गानां लाघवं परितन्वती । निश्वासामोदमुदितभ्रमराकुलितेक्षणा ॥ १३ ॥ भ्रश्यद्धम्मिल्लसन्माल्यस्वपुरीकृतभूमिका । स्विद्यत्कपोलपत्रालीस्रवदम्बुकणोज्ज्वला ॥ १४ ॥ स्फुटच्चोलांशुकपथतिर्यदङ्गप्रभावृता । उल्लसत्कन्दुकास्फालातिश्रोणितकराम्बुजा ॥ १५ ॥ कन्दुकानुगसद्दृष्टिनर्तितभ्रूलताञ्चला । मृडानी किल खेलन्ती ददृशे जगदम्बिका ॥ १६ ॥ अन्तरिक्षचराभ्यां च दितिजाभ्यां कटाक्षिता । क्रोडीकृताभ्यामिव वै समुपस्थितमृत्युना ॥ १७ ॥ विदलोत्पलसञ्ज्ञाभ्यां दृप्ताभ्यां वरतो विधेः । तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्बलात् ॥ १८ ॥ देवीं तां सञ्जिहीर्षन्तौ विषमेषु प्रपीडितौ । दिव उत्तेरतुः क्षिप्रं मायां स्वीकृत्य शाम्बरीम् ॥ १९ ॥ धृत्वा पारिषदीं मायामायातावम्बिकान्तिकम् । तावत्यन्तं सुदुर्वृत्तावतिचञ्चलमानसौ ॥ २० ॥ अथ दुष्टनिहन्त्रा वै सावज्ञेन हरेण तौ । विज्ञातौ च क्षणादास्तां चाञ्चल्याल्लोचनोद्भवात् ॥ २१ ॥ कटाक्षिताथ देवेन दुर्गा दुर्गतिघातिनी । दैत्याविमामिति गणौ नेति सर्वस्वरूपिणा ॥ २२ ॥
अथ सा नेत्रसञ्ज्ञां स्वस्वामिनस्तां बुबोध ह । महाकौतुकिनस्तात शंकरस्य परेशितुः ॥ २३ ॥ ततो विज्ञाय सञ्ज्ञां तां सर्वज्ञार्द्धशरीरिणी । तेनैव कन्दुकेनाथ युगपन्निर्जघान तौ ॥ २४ ॥ महाबलौ महादेव्या कन्दुकेन समाहतौ । परिभ्रम्य परिभ्रम्य तौ दुष्टौ विनिपेततुः ॥ २५ ॥ वृन्तादिव फले पक्वे तालेनानिललोलिते । दम्भोलिना परिहते शृङ्गे इव महागिरेः ॥ २६ ॥ तौ निपात्य महादैत्यावकार्यकरणोद्यतौ । ततः परिणतिं यातो लिङ्गरूपेण कन्दुकः ॥ २७ ॥ कन्दुकेश्वरसञ्ज्ञं च तल्लिङ्गमभवत्तदा । ज्येष्ठेश्वरसमीपे तु सर्वदुष्टनिवारणम् ॥ २८ ॥ एतस्मिन्नेव समये हरिब्रह्मादयः सुराः । शिवाविर्भावमाज्ञाय ऋषयश्च समाययुः ॥ २९ ॥ अथ सर्वे सुराः शम्भोर्वरान्प्राप्य तदाज्ञया । स्वधामानि ययुः प्रीतास्तथा काशीनिवासिनः ॥ ३० ॥ साम्बिकं शंकरं दृष्ट्वा कृताञ्जलिपुटाश्च ते । प्रणम्य तुष्टुवुर्भक्त्या वाग्भिरिष्टाभिरादरात् ॥ ३१ ॥ साम्बिकोऽपि शिवो व्यास क्रीडित्वा सुविहारवित् । जगाम स्वालयं प्रीतःसगणो भक्तवत्सलः ॥ ३२ ॥ कन्दुकेश्वरलिङ्गं च काश्यां दुष्टनिबर्हणम् । भुक्तिमुक्तिप्रदं सर्वकामदं सर्वदा सताम् ॥ ।३३ ॥ इदमाख्यानमतुलं शृणुयाद्यो मुदान्वितः । श्रावयेद्वा पठेद्यश्च तस्य दुःखभयं कुतः ॥ ३४ ॥ इह सर्वसुखं भुक्त्वा नानाविधमनुत्तमम् । परत्र लभते दिव्यां गतिं वै देवदुर्लभाम् ॥ ३५ ॥ इति तं वर्णितं तात चरितं परमाद्भुतम् । शिवयोर्भक्तवात्सल्यसूचकं शिवदं सताम् ॥ ३६ ॥ ब्रह्मोवाच इत्युक्त्वामन्त्र्य तं व्यासं तन्नुतो मद्वरात्मजः । ययौ विहायसा काशीं चरितं शशिमौलिनः ॥ ३७ ॥ युद्धखण्डमिदं प्रोक्तं मया ते मुनिसत्तम । रौद्रीयसंहितामध्ये सर्वकामफलप्रदम् ॥ ३८ ॥ इयं हि संहिता रौद्री सम्पूर्णा वर्णिता मया । सदाशिवप्रियतरा भुक्तिमुक्तिफलप्रदा ॥ ३९ ॥ इमां यश्च पठेन्नित्यं शत्रुबाधानिवारिकाम् । सर्वान्कामानवाप्नोति ततो मुक्तिं लभेत ना ॥ ४० ॥ सूत उवाच इति ब्रह्मसुतः श्रुत्वा पित्रा शिवयशः परम् । शतनामाप्य शम्भोश्च कृतार्थोऽभूच्छिवानुगः ॥ ४१ ॥ ब्रह्मनारदसंवादः सम्पूर्णः कथितो मया । शिवःसर्वप्रधानो हि किं भूयः श्रोतुमिच्छसि ॥ ४२ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे विदलोत्पलदैत्यवधवर्णनं नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥ समाप्तोयं युद्धखण्डः ॥ समाप्तेयं द्वितीया रुद्रसंहिता ॥ २ ॥ श्रीगौरीशंकरार्पणमस्तु |