॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

सप्तचत्वारिंशोऽध्यायः


अन्धकयुद्धे शुक्रनिगीर्णनवर्णनम्


व्यास उवाच
तस्मिन्महति सङ्‌ग्रामे दारुणे लोमहर्षणे ।
शुक्रो दैत्यपतिर्विद्वान् भक्षितस्त्रिपुरारिणा ॥ १ ॥
इति श्रुतं समासान्मे तत्पुनर्ब्रूहि विस्तरात् ।
किं चकार महायोगी जठरस्थः पिनाकिनः ॥ २ ॥
न ददाह कथं शम्भोः शुक्रं तं जठरानलः ।
कल्पान्तदहनः कालो दीप्ततेजाश्च भार्गवः ॥ ३ ॥
विनिष्क्रान्तः कथं धीमान् शम्भोर्जठरपञ्जरात् ।
कथमाराधयामास कियत्कालं स भार्गवः ॥ ४ ॥
अथ च लब्धवान्विद्यां तां मृत्युशमनीं पराम् ।
का सा विद्या परा तात यथा मृत्युर्हि वार्यते ॥ ५ ॥
लेभेन्धको गाणपत्यं कथं शूलाद्विनिर्गतः ।
देवदेवस्य वै शम्भोर्मुनेर्लीलाविहारिणः ॥ ६ ॥
एतत्सर्वमशेषेण महाधीमन् कृपां कुरु ।
शिवलीलामृतं तात शृण्वतः कथयस्व मे ॥ ७ ॥
ब्रह्मोवाच
इति तस्य वचः श्रुत्वा व्यासस्यामिततेजसः ।
सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम् ॥ ८ ॥
सनत्कुमार उवाच
शृणु व्यास महाबुद्धे शिवलीलामृतं परम् ।
धन्यस्त्वं शैवमुख्योसि ममानन्दकरः स्वतः ॥ ९ ॥
प्रवर्तमाने समरे शंकरान्धकयोस्तयोः ।
अनिर्भेद्यपविव्यूहगिरिव्यूहाधिनाथयोः ॥ १० ॥
पुरा जयो बभूवापि दैत्यानां बलशालिनाम् ।
शिवप्रभावादभवत्प्रमथानां मुने जयः ॥ ११ ॥
तच्छ्रुत्वासीद्विषण्णो हि महादैत्योन्धकासुरः ।
कथं स्यान्मे जय इति विचारणपरोऽभवत् ॥ १२ ॥
अपसृत्य ततो युद्धादन्धकः परबुद्धिमान् ।
द्रुतमभ्यगमद्वीर एकलः शुक्रसन्निधिम् ॥ १३ ॥
प्रणम्य स्वगुरुं काव्यमवरुह्य रथाच्च सः ।
बभाषेदं विचार्याथ साञ्जलिर्नीतिवित्तमः ॥ १४ ॥
अन्धक उवाच
भगवंस्त्वामुपाश्रित्य गुरोर्भावं वहामहे ।
पराजिता भवामो नो सर्वदा जयशालिनः ॥ १५ ॥
त्वत्प्रभावात्सदा देवान्समस्तान्सानुगान्वयम् ।
मन्यामहे हरोपेन्द्रमुखानपि हि कर्तृणान् ॥ १६ ॥
अस्मत्तो बिभ्यति सुराः तदा भवदनुग्रहात् ।
गजा इव हरिभ्यश्च तार्क्ष्येभ्य इव पन्नगाः ॥ १७ ॥
अनिर्भेद्यं पविव्यूहं विविशुर्दैत्यदानवाः ।
प्रमथानीकमखिलं विधूय त्वदनुग्रहात् ॥ १८ ॥
वयं त्वच्छरणा भूत्वा सदा गा इव निश्चलाः ।
स्थित्वा चरामो निःशङ्‌कमाजावपि हि भार्गव ॥ १९ ॥
रक्षरक्षाभितो विप्र प्रव्रज्य शरणागतान् ।
असुरान् शत्रुभिर्वीरैरर्दितांश्च मृतानपि ॥ २० ॥
प्रथमैर्भीमविक्रान्तैः क्रान्तान्मृत्युप्रमाथिभिः ।
सूदितान्पतितान्पश्य हुण्डादीन्मद्‌गणान्वरान् ॥ २१ ॥
यः पीत्वा कणधूमं वै सहस्रं शरदां पुरा ।
त्वया प्राप्ता वरा विद्या तस्याः कालोयमागतः ॥ २२ ॥
अद्य विद्याफलं तत्ते सर्वे पश्यन्तु भार्गव ।
प्रमथा असुरान्सर्वान् कृपया जीवयिष्यतः ॥ २३ ॥
सनत्कुमार उवाच
इत्थमन्धकवाक्यं स श्रुत्वा धीरो हि भार्गवः ।
तदा विचारयामास दूयमानेन चेतसा ॥ २४ ॥
किं कर्तव्यं मयाद्यापि क्षेमं मे स्यात्कथं त्विति ।
सन्निपातविधिर्जीवः सर्वथानुचितो मम ॥ २५ ॥
विधेयं शंकरात्प्राप्ता तद्‌गुणान् प्रति योजये ।
तद्‌रणे मर्दितान्वीरः प्रमथैः शंकरानुगैः ॥ २६ ॥
शरणागतधर्मोऽथ प्रवरः सर्वतो हृदा ।
विचार्य शुक्रेण धिया तद्वाणी स्वीकृता तदा ॥ २७ ॥
किञ्चित्स्मितं तदा कृत्वा सोऽब्रवीद्दानवाधिपम् ।
भार्गवः शिवपादाब्जं स्मृत्वा स्वस्थेन चेतसा ॥ २८ ॥
शुक्र उवाच
यत्त्वया भाषितं तात तत्सर्वं तथ्यमेव हि ।
एतद्विद्योपार्जनं हि दानवार्थं कृतं मया ॥ २९ ॥
दुःसहं कणधूमं वै पीत्वा वर्षसहस्रकम् ।
विद्येयमीश्वरात्प्राप्ता बन्धूनां सुखदा सदा ॥ ३० ॥
प्रमथैर्मथितान्दैत्यान् रणेऽहं विद्ययानया ।
उत्थापयिष्ये म्लानानि शस्यानि जलभुग्यथा ॥ ३१ ॥
निर्व्रणान्नीरुजः स्वस्थान् सुप्त्वेव पुनरुत्थितान् ।
मुहूर्तेऽस्मिंश्च द्रष्टासि दैत्यांस्तानुत्थितान्निजान् ॥ ३२ ॥
सनत्कुमार उवाच
इत्युक्त्वा सोधकं शुक्रो विद्यामावर्तयत्कविः ।
एकैकं दैत्यमुद्दिश्य स्मृत्वा विद्येशमादरात् ॥ ३३ ॥
विद्यावर्तनमात्रेण ते सर्वे दैत्यदानवाः ।
उत्तस्थुर्युगपद्वीराः सुप्ता इव धृतायुधाः ॥ ३४ ॥
सदाभ्यस्ता यथा वेदाः समरे वा यथाम्बुदा ।
श्रद्धयार्थास्तथा दत्ता ब्राह्मणेभ्यो यथापदि ॥ ३५ ॥
उज्जीवितांस्तु तान्दृष्ट्‍वा हुण्डादींश्च महासुरान् ।
विनेदुरसुराः सर्वे जलपूर्णा इवाम्बुदाः ॥ ३६ ॥
रणोद्यताः पुनश्चासन्गर्जन्तो विकटान्‌ रवान् ।
प्रमथैः सह निर्भीता महाबलपराक्रमाः ॥ ३७ ॥
शुक्रेणोज्जीवितान्दृष्ट्‍वा प्रमथा दैत्यदानवान् ।
विसिष्मिरे ततःसर्वे नन्द्याद्या युद्धदुर्मदाः ॥ ३८ ॥
विज्ञाप्यमेवं कर्मैतद्देवेशे शंकरेऽखिलम् ।
विचार्य बुद्धिमन्तश्च ह्येवं तेऽन्योन्यमब्रुवन् ॥ ३९ ॥
आश्चर्यरूपे प्रमथेश्वराणां
    तस्मिंस्तथा वर्तति युद्धयज्ञे ।
अमर्षितो भार्गवकर्म दृष्ट्‍वा
    शिलादपुत्रोऽभ्यगमन्महेशम् ॥ ४० ॥
जयेति चोक्त्वा जययोनिमुग्र-
    मुवाच नन्दी कनकावदातम् ।
गणेश्वराणां रणकर्म देव
    देवैश्च सेन्द्रैरपि दुष्करं सत् ॥ ४१ ॥
तद्‌भार्गवेणाद्य कृतं वृथा नः
    सञ्जीवतांस्तान्हि मृतान्विपक्षान् ।
आवर्त्य विद्यां मृतजीवदात्री-
    मेकेकमुद्दिश्य सहेलमीश ॥ ४२ ॥
तुहुण्डहुण्डादिककुम्भजम्भ-
    विपाकपाकादिमहासुरेन्द्राः ।
यमालयादद्य पुनर्निवृत्ता
    विद्रावयन्तः प्रमथांश्चरन्ति ॥ ४३ ॥
यदि ह्यसौ दैत्यवरान्निरस्तान्
    सञ्जीवयेदत्र पुनः पुनस्तान् ।
जयः कुतो नो भविता महेश
    गणेश्वराणां कुत एव शान्तिः ॥ ४४ ॥
सनत्कुमार उवाच
इत्येवमुक्तः प्रमथेश्वरेण
    स नन्दिना वै प्रमथेश्वरेशः ।
उवाच देवः प्रहसंस्तदानीं
    तं नन्दिनं सर्वगणेशराजम् ॥ ४५ ॥
शिव उवाच
    नन्दिन्प्रयाहि त्वरितोऽति मात्रं
द्विजेन्द्रवर्यं दितिनन्दनानाम् ।
    मध्यात्समुद्धृत्य तथा नयाशु
श्येनो यथा लावकमण्डजातम् ॥ ४६ ॥
सनत्कुमार उवाच
स एवमुक्तो वृषभध्वजेन
    ननाद नन्दी वृषसिंहनादः ।
जगाम तूर्णं च विगाह्य सेनां
    यत्राभवद्‌भार्गववंशदीपः ॥ ४७ ॥
तं रक्ष्यमाणं दितिजैः समस्तैः
    पाशासिवृक्षोपलशैलहस्तैः ।
विक्षोभ्य दैत्यान्बलवान् जहार
    काव्यं स नन्दी शरभो यथेभम् ॥ ४८ ॥
स्रस्ताम्बरं विच्युतभूषणं च
    विमुक्तकेशं बलिना गृहीतम् ।
विमोचयिष्यन्त इवानुजग्मुः
    सुरारयःसिंहरवांस्त्यजन्तः ॥ ४९ ॥
दम्भोलि शूलासिपरश्वधाना-
    मुद्दण्डचक्रोपलकम्पनानाम् ।
नन्दीश्वरस्योपरि दानवेन्द्रा
    वर्षं ववर्षुर्जलदा इवोग्रम् ॥ ५० ॥
तं भार्गवं प्राप्य गणाधिराजो
    मुखाग्निना शस्त्रशतानि दग्ध्वा ।
आयात्प्रवृद्धेऽसुरदेवयुद्धे
    भवस्य पार्श्वे व्यथितारिपक्षः ॥ ५१ ॥
अयं स शुक्रो भगवन्नितीदं
    निवेदयामास भवाय शीघ्रम् ।
जग्राह शुक्रं स च देवदेवो
    यथोपहारं शुचिना प्रदत्तम् ॥ ५२ ॥
न किञ्चिदुक्त्वा स हि भूतगोप्ता
    चिक्षेप वक्त्रे फलवत्कवीन्द्रम् ।
हाहारवस्तैरसुरैःसमस्तै-
    रुच्चैर्विमुक्तो हहहेति भूरि ॥ ५३ ॥
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे
अन्धकयुद्धे शुक्रनिगीर्णनवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP