॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

षट्‌चत्वारिंशोऽध्यायः


अन्धकवधोपाख्याने अन्धकयुद्धवर्णनम्


सनत्कुमार उवाच
तस्येङ्‌गितज्ञश्च स दैत्यराजो
    गदां गृहीत्वा त्वरितः ससैन्यः ।
कृत्वाथ साऽग्रे गिलनामधेयं
    सुदारुणं देववरैरभेद्यम् ॥ १ ॥
गुहामुखं प्राप्य महेश्वरस्य
    बिभेद शस्त्रैरशनिप्रकाशैः ।
अन्ये ततो वीरकमेव शस्त्रै-
    रवाकिरन् शैलसुतां तथान्ये ॥ २ ॥
द्वारं हि केचिद्रुचिरं बभञ्जुः
    पुष्पाणि पत्राणि विनाशयेयुः ।
फलानि मूलानि जलं च हृद्य-
    मुद्यानमार्गानपि खण्डयेयुः ॥ ३ ॥
विलोडयेयुर्मुदिताश्च केचि-
    च्छृङ्‌गाणि शैलस्य च भानुमन्ति ।
ततो हरः सस्मृतवान् स्वसैन्यं
    समाह्वयन् कुपितः शूलपाणिः ॥ ४ ॥
भूतानि चान्यानि सुदारुणानि
    देवान्ससैन्यान्सह विष्णुमुख्यान् ।
आहूतमात्रानुगणाःससैन्या
    रथैर्गजैर्वाजिवृषैश्च गोभिः ॥ ५ ॥
उष्ट्रैः खरैः पक्षिवरैश्च सिंहैः
    ते सर्वदेवाः सहभूतसङ्‌घैः ।
व्याघ्रैमृगैः सूकरसारसैश्च
    समीनमत्स्यैः शिशुमारमुख्यैः ॥ ६ ॥
अन्यैश्च नाना विधजीवसङ्‌घै-
    र्विशीर्णदंशाः स्फुटितैः श्मशानैः ।
भुजङ्‌गमैः प्रेतशतैः पिशाचै-
    र्दिव्यैर्विमानैः कमलाकरैश्च ॥ ७ ॥
नदीनदैः पर्वतवाहनैश्च
    समागताः प्राञ्जलयः प्रणम्य ।
कपर्दिनं तस्थुरदीनसत्त्वाः
    सेनापतिं वीरकमेव कृत्वा ॥ ८ ॥
विसर्जयामास रणाय देवान्
    विश्रान्तवाहानथ तत्पिनाकी ।
युद्धे स्थिरं लब्धजयं प्रधानं
    सम्प्रेषितास्ते तु महेश्वरेण ॥ ९ ॥
चक्रुर्युगान्तप्रतिमं च युद्धं
    मर्यादहीनं सगिलेन सर्वे ।
दैत्येन्द्रसैन्येन सदैव घोरं
    क्रोधान्निगीर्णास्त्रिदशास्तु सङ्‌ख्ये ॥ १० ॥
तस्मिन्क्षणे युध्यमानाश्च सर्वे
    ब्रह्मेन्द्रविष्ण्वर्कशशाङ्‌कमुख्याः ।
आसन्निगीर्णा विधसेन तेन
    सैन्ये निगीर्णेऽस्ति तु वीरको हि ॥ ११ ॥
विहाय सङ्‌ग्रामशिरोगुहां तां
    प्रविश्य शर्वं प्रणिपत्य मूर्ध्ना ।
प्रोवाच दुःखाभिहतः स्मरारिं
    सुवीरको वाग्ग्मिवरोऽथ वृत्तम् ॥ १२ ॥
निगीर्णैते सैन्यं विधसदितिजेनाद्य भगव-
न्निगीर्णोऽसौ विष्णुस्त्रिभुवनगुरुर्दैत्यदलनः ।
निगीर्णौ चन्द्रार्कौ द्रुहिणमघवानौ च वरदौ
निगीर्णास्ते सर्वे यमवरुणवाताश्च धनदः ॥ १३ ॥
स्थितोस्म्येकः प्रह्वः किमिह करणीयं भवतु मे
अजेयो दैत्येन्द्रः प्रमुदितमना दैत्यसहितः ॥ १४ ॥
अजेयं त्वां प्राप्तः प्रतिभयमना मारुतगतिः
स्वयं विष्णुर्देवः कनककशिपुं कश्यपसुतम् ।
नखैस्तीक्ष्णैर्भक्त्या तदपि भगवान् शिछिष्टवशगः
प्रवृत्तस्त्रैलोक्यं विधमतु मलं व्यात्तवदनः ॥ १५ ॥
वसिष्ठाद्यैः शप्तो भुवनपतिभिः सप्तमुनिभिः
तथाभूते भूयस्त्वमिति सुचिरं दैत्यसहितः ॥ १६ ॥
ततस्तेनोक्तास्ते प्रणयवचनैरात्मनि हितैः
कदास्माद्वै घोराद्‌भवति मम मोक्षो मुनिवराः ।
यतः क्रुद्धैरुक्तो विघसहरणाद्युद्धसमये
ततो घोरैर्बाणैर्विदलितमुखे मुष्टिभिरलम् ॥ १७ ॥
बदर्याख्यारण्ये ननु हरिगृहे पुण्यवसतौ
निसंस्तभ्यात्मानं विगतकलुषो यास्यसि परम् ।
ततस्तेषां वाक्यात्प्रतिदिनमसौ दैत्यगिलनः
क्षुधार्तः सङ्‌ग्रामाद्‌ भ्रमति पुनरामोदमुदितः ॥ १८ ॥
तमश्चेदं घोरं जगदुदितयोः सूर्यशशिनो-
र्यथाशुक्रस्तुभ्यं परमरिपुरत्यन्तविकरः ।
हतान्देवैर्देत्यान्पुनरमृतविद्यास्तुतिपदैः
सवीर्यान्सन्दृष्टान्व्रणशतवियुक्तान्प्रकुरुते ॥ १९ ॥
वरं प्राणास्त्याज्यास्तव मम तु सङ्‌ग्रामसमये
भवान्साक्षीभूतः क्षणमपि वृतः कार्यकरणे ॥ २० ॥
सनत्कुमार उवाच
इतीदं सत्पुत्रात्प्रमथपतिराकर्ण्य कुपित-
श्चिरं ध्यात्वा चक्रे त्रिभुवनपतिः प्रागनुपमम् ।
प्रगायत्सामाख्यं दिनकरकराकारवपुषा
प्रहासात्तन्नाम्ना तदनु निहतं तेन च तमः ॥ २१ ॥
प्रकाशेऽस्मिँल्लोके पुनरपि महायुद्धमकरोद्
रणे दैत्येऐः सार्द्धं विकृतवदनैर्वीरकमुनिः ।
शिआचूर्णं भ्क्त्वा प्रवरमुनिना यस्तु जनितः
स कृत्वा सण्ग्रामं पुरमपि पुरा यश्च जितवान् ॥ २२ ॥
ततश्चासौ नन्दी निशितशरशूलासिसहितः ।
प्रधानो योधानां मुनिवरशतानामपि महान्
निवासो विद्यानां शमदममहाधैर्यसहितः ॥ २३ ॥
निरीक्ष्यैवं पश्चाद् वृषभवरमारुह्य भगवान्
कपर्दी युद्धार्थी विघसदितिजं सम्मुखमुखः ।
जपन्दिव्यं मन्त्रं निगलनविधानोद्‌गिलनकं
स्थितः सज्जं कृत्वा धनुरशनिकल्पानपि शरान् ॥ २४ ॥
ततौ निष्कान्तोऽसौ विघसवदनाद्वीरकमुनि-
र्गृहीत्वा तत्सर्वे स्वबलमतुलं विष्णुसहिताः ।
समुद्‌गीर्णाः सर्वे कमलजबलारीन्दुदिनपाः
प्रहृष्टं तसैन्यं पुनरपि महायुद्धमकरोत् ॥ २५ ॥
जिते तस्मिन् शुक्रस्तदनु दितिजान्युद्धविहतान्
यदा विद्यावीर्यात्पुनरपि सजीवान्प्रकुरुते ।
तदा बद्ध्वानीतः पशुरिव गणैभूतपतये
निगीर्णस्तेनासौ त्रिपुररिपुणा दानवगुरुः ॥ २६ ॥
विनष्टे शुक्राख्यो सुररिपुनिवासस्तदखिलो
जितो ध्वस्तो भग्नो भृशमपि सुरैश्चापि दलितम् ।
प्रभूतैर्भूतौघैर्दितिजकुणपग्रासरसिकैः
सरुण्डैर्नृत्यद्‌भिर्निशितशरशक्त्युद्धृतकरैः ॥ २७ ॥
प्रमत्तैर्वेतालैःसुदृढकरतुण्डैरपि खगै-
वृकैर्नानाभेदैः शवकुणपपूर्णास्यकवलैः ।
विकीर्णे सङ्‌ग्रामे कनककशिपोर्वंशजनक
श्चिरं युद्धं कृत्वा हरिहरमहेन्द्रैश्च विजितः ॥ २८ ॥
प्रविष्टे पाताले गिरिजलधिरन्ध्राण्यपि तथा
ततः सैन्ये क्षीणे दितिजवृषभश्चान्धकवरः ।
प्रकोपे देवानां कदनदवरो विश्वदलनो
गदाघातैर्घोरैर्विदलितमदश्चापि हरिणा ॥ २९ ॥
न वै यः सग्रामं त्यजति वरलब्धः किलः यतः
तदा ताडैर्घोरैस्त्रिदशपतिना पीडिततनुः ।
ततः शस्त्रास्त्रौघैस्तरुगिरिजलैश्चाशु विबुधान्
जिगायोच्चैर्गर्जन्प्रमथपतिमाहूय शनकैः ॥ ३० ॥
स्थितो युद्धं कुर्वन् रणपतितशस्त्रैर्बहुविधैः
परिक्षीणैःसर्वैस्तदनु गिरिजा रुद्रमतुदत् ।
तथा वृक्षैः सर्पैरशनिनिवहैः शस्त्रपटलै-
र्विरूपैर्मायाभिः कपटरचनाशम्बरशतैः ॥ ३१ ॥
विजेतुं शैलेशं कुहकमपरं तत्र कृतवान्
महासत्त्वो वीरस्त्रिपुररिपुतुल्यश्च मतिमान् ।
न वध्यो देवानां वरशतमनोन्मादविवशः
प्रभूतैः शस्त्रास्त्रैः सपदि दितिजो जर्जरतनुः ॥ ३२ ॥
तदीयाद्विष्यन्दात्क्षितितलगतैरन्धकगणै-
रतिव्याप्तघोरं विकृतवदनं स्वात्मसदृशम् ।
दधत्कल्पान्ताग्निप्रतिमवपुषा भूतपतिना
त्रिशूले नोद्‌भिन्नस्त्रिपुररिपुणा दारुणतरम् ॥ ३३ ॥
यदा सैन्यात्सैन्यं पशुपतिहतादन्यदभवद्-
व्रणोत्थैरत्युष्णैः पिशितनिसृतैर्बिन्दुभिरलम् ।
तदा विष्णुर्योगात्प्रमथपतिमाहूय मतिमान्
चकारोग्रं रूपं विकृतवदनं स्त्रैणमजितम् ॥ ३४ ॥
करालं संशुष्कं बहुभुजलताक्रान्तकुपितो
विनिष्क्रान्तः कर्णाद्‌गणशिरसि शम्भोश्च भगवान् ॥ ३५ ॥
रणस्था सा देवी चरणयुगलालङ्‌कृतमही
स्तुता देवैः सर्वैः तदनु भगवान् प्रेरितमतिः ।
क्षुधार्ता तत्सैन्यं दितिजनिसृतं तच्च रुधिरं
पपौ सात्युष्णं तद्‌रणशिरसि सृक्कर्दममलम् ॥ ३६ ॥
ततस्त्वेको दैत्यस्तदपि युयुधे शुष्करुधिरः
तलाघातैर्घोरैरशनिसदृशैर्जानुचरणैः ।
नखैर्वज्राकारैर्मुखभुजशिरोभिश्च गिरिशं
स्मरन् क्षात्रं धर्मं स्वकुल विहितं शाश्वतमजम् ॥ ३७ ॥
रणे शान्तः पश्चात्प्रमथपतिना भिन्नहृदय-
स्त्रिशूले संप्रोतो नभसि विधृतःस्थाणुसदृशः ।
अधःकायः शुष्कस्तपनकिरणैर्जीर्णतनुमान्
जलासारेर्मेघैः पवनसहितैः क्लेदितवपुः ॥ ३८ ॥
विशीर्णस्तिग्मांशोस्तुहिनशकलाकारशकल-
स्तथाभूतः प्राणांस्तदपि न जहौ दैत्य वृषभः ।
तदा तुष्टः शम्भुः परमकरुणावारिधिरसौ
ददौ तस्मै प्रीत्या गणपतिपदं तेन विनुतः ॥ ३९ ॥
ततो युद्धस्यान्ते भुवनपतयः सार्थ रमणै-
स्तवैर्नानाभेदैः प्रमथपतिमभ्यर्च्य विधिवत् ।
हरिब्रह्माद्यास्ते परमनुतिभिः स्तुष्टुवुरलं
नतस्कन्धाः प्रीता जयजय गिरं प्रोच्य सुखिताः ॥ ४० ॥
हरस्तैस्तैःसार्द्धं गिरिवरगुहायां प्रमुदितो
विसृज्यैकानंशान् विविधबलिना पूज्यसुनगान् ।
चकाराज्ञां क्रीडां गिरिवर सुतां प्राप्य मुदितां
तथा पुत्रं घोराद्विघसवदनान्मुक्तमनघम् ॥ ४१ ॥
इति श्रीशिवमहा पुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे
अन्धकवधोपाख्याने अन्धकयुद्धवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP