॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

पञ्चत्वारिंशोऽध्यायः


युद्धप्रारम्भदूतसंवादवर्णनम्


सनत्कुमार उवाच
गतस्ततो मत्तगजेन्द्रगामी
    पीत्वा सुरां घूर्णितलोचनश्च ।
महानुभावो बहुसैन्ययुक्तः
    प्रचण्डवीरो वरवीरयायी ॥ १ ॥
ददर्श दैत्यः स्मरबाणविद्धो
    गुहां ततो वीरकरुद्धमार्गाम् ।
स्निग्धं यथा वीक्ष्य पतङ्‌गसंज्ञः
    दशाप्रदीपं च कृमिर्ह्युपेत्य ॥ २ ॥
तथा प्रदर्श्याशु पुनः पुनश्च
    सम्पीड्यमानोपि स वीरकेण ।
बभूव कामाग्निसुदग्धदेहोऽ
    न्धको महादैत्यपतिः स मूढः ॥ ३ ॥
पाषाणवृक्षाशनितोयवह्नि-
    भुजङ्‌गशस्त्रास्त्रविभीषिकाभिः ।
सम्पीडितोऽसौ न पुनः प्रपीड्यः
    पृष्टश्च कस्त्वं समुपागतोसि ॥ ४ ॥
निशम्य तद्‌ गां स्वमतं स तस्मै
    चकार युद्धं स तु वीरकेण ।
मुहूर्तमाश्चर्यवदप्रमेयं
    सङ्‌ख्ये जितो वीरतरेण दैत्यः ॥ ५ ॥
ततस्तु सङ्‌ग्रामशिरो विहाय
    क्षुत्क्षामकण्ठस्तृषितो गतोऽभूत् ।
चूर्णीकृते खड्गवरे च खिन्ने
    पलायमानो गतविस्मयः सः ॥ ६ ॥
चक्रुस्तदाजिं सह वीरकेण
    प्रह्लादमुख्या दितिजप्रधानाः ।
लज्जाङ्‌कुशाकृष्टधियो बभूवुः
    सुदारुणाः शस्त्रशतैरनेकैः ॥ ७ ॥
विरोचनस्तत्र चकार युद्धं
    बलिश्च बाणश्च सहस्रबाहुः ।
भजिः कुजम्भस्त्वथ शम्बरश्च
    वृत्रादयश्चाप्यथ वीर्यवन्तः ॥ ८ ॥
ते युद्ध्यमाना विजिताः समन्ताद्
    द्विधाकृता वै गणवीरकेण ।
शेषे हतानां बहुदानवाना-
    मुक्तं जयत्येव हि सिद्धसङ्‌घैः ॥ ९ ॥
भेरुण्डजानाभिनयप्रवृत्ते
    मेदोवसामांससुपूयमध्ये ।
क्रव्यादसङ्‌घातसमाकुले तु
    भयङ्‌करे शोणितकर्दमे तु ॥ १० ॥
भग्नैस्तु दैत्यैर्भगवान् पिनाकी
    व्रतं महापाशुपतं सुघोरम् ।
प्रियेः मया यत्कृतपूर्वमासी-
    द्दाक्षायणीं प्राह सुसान्त्वयित्वा ॥ ११ ॥
शिव उवाच
तस्माद्‌बलं यन्मम तत्प्रणष्टं
    मर्त्यैरमर्त्यस्य यतः प्रपातः ।
पुण्यक्षयाही ग्रह एव जातो
    दिवानिशं देवि तव प्रसङ्‌गात् ॥ १२ ॥
उत्पाद्य दिव्यं परमाद्‌भुतं तु
    पुनर्वरं घोरतरं च गत्वा ।
तस्माद् व्रतं घोरतरं चरामि
    सुनिर्भयः सुन्दरि वै विशोका ॥ १३ ॥
सनत्कुमार उवाच
एतावदुक्त्वा वचनं महात्मा
    उत्पाद्य घोषं शनकैश्चकार ।
स तत्र गत्वा व्रतमुग्रदीप्तो
    गतो वनं पुण्यतमं सुघोरम् ॥ १४ ॥
चर्तुं हि शक्यं तु सुरासुरैर्य-
    न्न तादृशं वर्षसहस्रमात्रम् ।
सा पार्वती मन्दरपर्वतस्था
    प्रतीक्ष्यमाणागमनं भवस्य ॥ १५ ॥
पतिव्रता शीलगुणोपपन्ना
    एकाकिनी नित्यमथो विभीता ।
गुहान्तरे दुःखपरा बभूव     संरक्षिता सा सुतवीरकेण ॥ १६ ॥
ततःस दैत्यो वरदानमत्तः
    तैर्योधमुख्यैःसहितो गुहां ताम् ।
विभिन्नधैर्यः पुनराजगाम
    शिलीमुखैर्मारसमुद्‌भवैश्च ॥ १७ ॥
अत्यद्‌भुतं तत्र चकार युद्धं
    हित्वा तदा भोजनपाननिद्राः ।
रात्रिं दिवं पञ्चशतानि पञ्च
    क्रुद्धः ससैन्यैः सह वीरकेण ॥ १८ ॥
खड्गैः सकुन्तैःसह भिन्दिपालैः
    गदाभुशुण्डीभिरथो प्रकाण्डैः ।
शिलीमुखैरर्द्धशशीभिरुग्रै-
    र्वितस्तिभिः कूर्ममुखैर्ज्वलद्‌भिः ॥ १९ ॥
नाराचमुख्यै निशितैश्च शूलैः
    परश्वधैस्तोमरमुद्‌गरैश्च ।
खड्गैर्गुडैः पर्वतपादपैश्च
    दिव्यैरथास्त्रैररपि दैत्यसङ्‌घैः ॥ २० ॥
न दीधितिर्भिन्नतनुः पपात
    द्वारं गुहाया पिहितं समस्तम् ।
तैरायुधैर्दैत्यभुजप्रयुक्तै-
    र्गुहामुखे मूर्छित एव पश्चात् ॥ २१ ॥
आच्छादितं वीरकमस्त्रजालै-
    र्दैत्यैश्च सर्वैस्तु मुहूर्तमात्रम् ।
अपावृतं कर्तुमशक्यमासी-
    न्निरीक्ष्य देवी दितिजान् सुघोरान् ॥ २२ ॥
भयेन सस्मार पितामहं तु
    देवी सखीभिः सहिता च विष्णुम् ।
सैन्यं च मद्वीरवरस्य सर्वं
    सस्मारयामास गुहान्तरस्था ॥ २३ ॥
ब्रह्मा तया संस्मृतमात्र एव
    स्त्रीरूपधारी भगवांश्च विष्णुः ।
इन्द्रश्च सर्वेः सह सैन्यकैश्च
    स्त्रीरूपमास्थाय समागतास्ते ॥ २४ ॥
भूत्वा स्त्रियस्ते विविशुस्तदानीं
    मुनीन्द्रसङ्‌घाश्च महानुभावाः ।
सिद्धाश्च नागास्त्वथ गुह्यकाश्च
    गुहान्तरं पर्वतराजपुत्र्याः ॥ २५ ॥
यस्मात्सुराज्य सनसंस्थिताना-
    मन्तः पुरे सङ्‌गमनं विरुद्धम् ।
ततःसहस्राणि नितम्बिनीना-
    मनन्तसङ्‌ख्यान्यपि दर्शयन्त्यः ॥ २६ ॥
रूपाणि दिव्यानि महाद्‌भुतानि
    गौर्ये गुहायां तु सवीरकार्यैः ।
स्त्रियः प्रहृष्टा गिरिराजकन्या
    गुहान्तरं पर्वतराजपुत्र्या ॥ २७ ॥
स्त्रीभिःसहस्रैश्च शतैरनेकै-
    र्नेदुश्च कल्पान्तरमेघघोषाः ।
भेर्यश्च सङ्‌ग्रामजयप्रदास्तु
    ध्माताःसुशङ्‌खाः सुनितम्बिनीभिः ॥ २८ ॥
मूर्छां विहायाद्‌भुत चण्डवीर्यः
    स वीरको वै पुरतः स्थितस्तु ।
प्रगृह्य शस्त्राणि महारथानां
    तैरेव शस्त्रैर्दितिजान् जघान ॥ २९ ॥
ब्राह्मी ततो दण्ड करा विरुद्धा
    गौरी तदा क्रोधपरीतचेताः ।
नारायणी शङ्‌खगदासुचक्र-
    धनुर्द्धरा पूरितबाहुदण्डा ॥ ३० ॥
विनिर्ययौ लाङ्‌गलदण्डहस्ता
    व्योमालका काञ्चनतुल्यवर्णा ।
धारासहस्राकुलमुग्रवेगं
    बैडौजसी वज्रकरा तदानीम् ॥ ३१ ॥
सहस्रनेत्रा युधि सुस्थिरा च
    सुदुर्जया दैत्यशतैरधृष्या ।
वैश्वानरी शक्तिरसौम्यवक्त्रा
    याम्या च दण्डोद्यतपाणिरुग्रा ॥ ३२ ॥
सुतीक्ष्णखङ्‌गोद्यतपाणिरूपा
    समाययौ नैर्ऋतिघोरचापा ।
तोयालिका वारणपाशहस्ता
    विनिर्गता युद्धमभीप्समाना ॥ ३३ ॥
प्रचण्डवातप्रभवा च देवी
    क्षुधावपुस्त्वङ्‌कुशपाणिरेव ।
कल्पान्तवह्निप्रतिमां गदां च
    पाणौ गृहीत्वा धनदोद्‌भवा च ॥ ३४ ॥
यक्षेश्वरी तीक्ष्णमुखा विरूपा
    नखायुधा नागभयङ्‌करी च ।
एतास्तथान्याः शतशो हि देव्यः
    सुनिर्गताः सङ्‌कुलयुद्धभूमिम् ॥ ३५ ॥
दृष्ट्‍वा च तत्सैन्यमनन्तपारं
    विवर्णवर्णाश्च सुविस्मिताश्च ।
समाकुलाः सञ्चकिता भयाद्वै
    देव्यो बभूबुर्हृददीनसत्त्वाः ॥ ३६ ॥
चक्रुः समाधाय मनः समस्ताः
    ता देववध्वो विधिशक्तिमुख्याः ।
सुसंमतत्वेन गिरीशपुत्र्याः
    सेनापतिर्वीरसुघोरवीर्यः ॥ ३७ ॥
चक्रुर्महायुद्धमभूतपूर्वं
    निधाय बुद्धौ दितिजाः प्रधानाः ।
निवर्तनं मृत्युमथात्मनश्च
    नारीभिरन्ये वरदानसत्त्वाः ॥ ३८ ॥
अत्यद्‌भुतं तत्र चकार युद्धं
    गौरी तदानीं सहिता सखीभिः ।
कृत्वा रणे चाद्‌भुतबुद्धिशौण्डं
    सेनापतिं वीरकघोरवीर्यम् ॥ ३९ ॥
हिरण्यनेत्रात्मज एव भूप-
    श्चक्रे महाव्यूहमरं सुकर्मा ।
सम्भाव्य विष्णुं च निरीक्ष्य याम्यां
    सुदारुणं तद्‌गिलनामधेयम् ॥ ४० ॥
मुखं करालं विधिसेवयास्य
    तस्मिन् कृते भगवानाजगाम ।
कल्पान्तघोरार्कसहस्रकान्ति-
    कीर्णञ्च वै कुपितः कृत्तिवासाः ॥ ४१ ॥
गते ततो वर्षसहस्रमात्रे
    तमागतं प्रेक्ष्य महेश्वरं च ।
चक्रुर्महायुद्धमतीवमात्रं
    नार्यः प्रहृष्टाःसह वीरकेण ॥ ४२ ॥
प्रणम्य गौरी गिरिशं च मूर्ध्ना
    सन्दर्शयन् भर्तुरतीव शौर्यमम् ।
गौरी प्रयुद्धं च चकार हृष्टा
    हरस्ततः पर्वतराजपुत्रीम् ॥ ४३ ॥
कण्ठे गृहीत्वा तु गुहां प्रविष्टो
    रमासहस्राणि विसर्जितानि ।
गौरी च सम्मानशतैः प्रपूज्य
    गुहामुखे वीरकमेव स्थापयन् ॥ ४४ ॥
ततो न गौरीं गिरिशं च दृष्ट्‍वा-
    सुरेश्वरो नीतिविचक्षणो हि ।
द्रुतं स्वदूतं विधसाख्यमेव
    स प्रेषयामास शिवोपकण्ठम् ॥ ४५ ॥
तैस्तैः प्रहारैरपि जर्ज राङ्‌ग-
    स्तस्मिन् रणे देवगणेरितैर्यः ।
जगाद वाक्यं तु सगर्वमुग्रं
    प्रविश्य शम्भुं प्रणिपत्य मूर्ध्ना ॥ ४६ ॥
दूत उवाच
सम्प्रेषितोहं विविशे गुहां तु
    ह्यषौऽन्धकस्त्वां समुवाच वाक्यम् ।
नार्या न कार्यं तव किञ्चिदस्ति-
    विमुच नारीं तरुणीं सुरूपाम् ॥ ४७ ॥
प्रायोभवांस्तापसस्तज्जुषस्व
    क्षान्तं मया यत्कमनीयमन्तः ।
मुनिर्विरोधव्य इति प्रचिन्त्य
    न त्वं मुनिस्तापस किं तु शत्रुः ॥ ४८ ॥
अतीव दैत्येषु महाविरोधी
    युध्यस्व वेगेन मया प्रमथ्य ।
नयामि पातालतलानुरूपं
    यमक्षयं तापस धूर्त हि त्वाम् ॥ ४९ ॥
सनत्कुमार उवाच
एतद्वचो दूतमुखान्निशम्य
    कपालमाली तमुवाच कोपात् ।
ज्वलन्विषादेन महांस्त्रिनेत्रः
    सतां गतिर्दुष्टमदप्रहर्ता ॥ ५० ॥
शिव उवाच
व्यक्तं वचस्ते तदतीव चोग्रं
    प्रोक्तं हि तत्त्वं त्वरितं प्रयाहि ।
कुरुष्व युद्धं हि मया प्रसह्य
    यदि प्रशक्तोसि बलेन हि त्वम् ॥ ५१ ॥
यः स्यादशक्तो भुवि तस्य कोर्थो
    दारैर्धनैर्वा सुमनोहरैश्च ।
आयान्तु दैत्याश्च बलेन मत्ता
    विचार्यमेवं तु कृतं मयै तत् ॥ ५२ ॥
शरीरयात्रापि कुतस्त्वशक्तेः
    कुर्वन्तु यद्यद्विहितं तु तेषाम् ।
ममापि यद्यत्करणीयमस्ति
    तत्तत्त्करिष्यामि न संशऽयोत्र ॥ ५३ ॥
सनत्कुमार उवाच
एतद्वचस्तद्विधसोपि तस्मा-
    च्छ्रुत्वा हरान्निर्गत एव हृष्टः ।
प्रागात्ततो गर्जितहुङ्‌कृतानि
    कुर्वंस्ततो दैत्यपतेः सकाशम् ॥ ५४ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे
युद्धखण्डे युद्धप्रारम्भदूतसम्वादवर्णनंनाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP