|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
चतुश्चत्वारिंशोऽध्यायः
सनत्कुमार उवाच
ततो हिरण्याक्षसुतः कदाचि- त्संश्रावितो नर्मयुतैर्मदान्धैः । तैर्भ्रातृभिःसम्प्रयुतो विहारे किमन्ध राज्येन तवाद्य कार्यम् ॥ १ ॥ हिरण्यनेत्रस्तु बभूव मूढः कलिप्रियं नेत्रविहीनमेव । यो लब्धवांस्त्वां विकृतं विरूपं घोरैस्तपोभिर्गिरिशं प्रसाद्य ॥ २ ॥ स त्वं न भागी खलु राज्यकस्य किमन्यजातोऽपि लभेत राज्यम् । विचार्यतां तद्भवतैव नूनं वयं तु तद्भागिन एव सत्यम् ॥ ३ ॥ सनत्कुमार उवाच तेषां तु वाक्यानि निशम्य तानि विचार्य बुद्ध्या स्वयमेव दीनः । तान् शान्तयित्वा विविधैर्वचोभिः गतस्त्वरण्यं निशि निर्जनं तु ॥ ४ ॥ वर्षायुतं तत्र तपश्चचार जजाप जाप्यं विधृतैकपादः । आहारहीनो नियमोर्ध्वबाहुः कर्त्तुं न शक्यं हि सुरासुरैर्यत् ॥ ५ ॥ प्रज्वाल्य वह्निं स्म जुहोति गात्र- मांसं सरक्तं खलु वर्षमात्रम् । तीक्ष्णेन शस्त्रेण निकृत्य देहात् समन्त्रकं प्रत्यहमेव हुत्वा ॥ ६ ॥ स्नाय्वस्थिशेषं कुणपं तदासौ क्षयं गतं शोणितमेव सर्वम् । यदास्य मांसानि न सन्ति देहं प्रक्षेप्तुकामस्तु हुताशनाय ॥ ७ ॥ ततः स दृष्टस्त्रिदशालयैर्जनैः सुविस्मितैर्भीतियुतैः समस्तैः । अथामरैः शीघ्रतरं प्रसादितो बभूव धाता नुतिभिर्नुतो हि ॥ ८ ॥ निवारयित्वाथ पितामहस्तं ह्युवाच तं चाद्यवरं वृणीष्व । यस्याप्तिकामस्तव सर्वलोके सुदुर्लभं दानव तं गृहाण ॥ ९ ॥ स पद्मयोनेस्तु वचो निशम्य प्रोवाच दीनः प्रणतस्तु दैत्यः । यैर्निष्ठुरैर्मे प्रहृतं तु राज्यं प्रह्रादमुख्या मम सन्तु भृत्याः ॥ १० ॥ अन्धस्य दिव्यं हि तथास्तु चक्षु- रिन्द्रादयो मे करदा भवन्तु । मृत्युस्तु माभून्मम देवदैत्य- गन्धर्वयक्षोरगमानुषेभ्यः ॥ ११ ॥ नारायणाद्वा दितिजेन्द्रशत्रोः सर्वाज्जनात्सर्वमयाच्च शर्वात् । श्रुत्वा वचस्तस्य सुदारुणं तत् सुशङ्कितः पद्मभवस्तमाह ॥ १२ ॥ ब्रह्मोवाच दैत्येन्द्र सर्वं भविता तदेतद् विनाशहेतुं च गृहाण किञ्चित् । यस्मान्न जातो न जनिष्यते वा यो न प्रविष्टो मुखमन्तकस्य ॥ १३ ॥ अत्यन्तदीर्घं खलु जीवितं तु भवादृशाः सत्पुरुषाः त्यजन्तु । एतद्वचः सानुनयं निशम्य पितामहात्प्राह पुनः स दैत्यः ॥ १४ ॥ अन्धक उवाच कालत्रये याश्च भवन्ति नार्यः श्रेष्ठाश्च मध्याश्च तथा कनिष्ठाः । तासां च मध्ये खलु रत्नभूता ममापि नित्यं जननीव काचित् ॥ १५ ॥ कायेन वाचा मनसाप्यगम्या नारी नृलोकस्य च दुर्लभा या । तां कामयानस्य ममास्तु नाशो दैत्येन्द्रभावाद्भगवान्स्वयम्भूः ॥ १६ ॥ वाक्यं तदाकर्ण्य स पद्मयोनिः सुविस्मितः शंकरपादपद्ममम् । सस्मार सम्प्राप्य निर्देशमाशु शम्भोस्तु तं प्राह ततोन्धकं वै ॥ १७ ॥ ब्रह्मोवाच यत्काङ्क्षसे दैत्यवरास्तु ते वै सर्वं भवत्येव वचःसकामम् । उत्तिष्ठः दैत्येन्द्र लभस्व कामं सदैव वीरैस्तु कुरुष्व युद्धम् ॥ १८ ॥ श्रुत्वा तदेतद्वचनं मुनीश विधातुराशु प्रणिपत्य भक्त्या । लोकेश्वरं हाटकनेत्रपुत्रः स्नाय्वस्थिशेषस्तु तमाह देवम् ॥ १९ ॥ अन्धक उवाच कथं विभो वैरिबलं प्रविश्य ह्यनेन देहेन करोमि युद्धम् । स्नाय्वस्थिशेषं कुरु मांसपुष्टं करेण पुण्ये न च मां स्पृशाद्य ॥ २० ॥ सनत्कुमार उवाच श्रुत्वा वचस्तस्य स पद्मयोनिः करेण संस्पृश्य च तच्छरीरम् । गतःसुरेन्द्रैः सहितः स्वधाम सम्पूज्यमानो मुनिसिद्धसङ्घैः ॥ २१ ॥ संस्पृष्टमात्रः स च दैत्यराजः सम्पूर्णदेहो बलवान् बभूव । सञ्जातनेत्रःसुभगो बभूव हृष्टःस्वमेव नगरं विवेश ॥ २२ ॥ उत्सृज्य राज्यं सकलं च तस्मै प्रह्लादमुख्यास्त्वथ दानवेन्द्राः । तमागतं लब्धवरं च मत्वा भृत्या बभूवुर्वश गास्तु तस्य ॥ २३ ॥ ततोन्धकः स्वर्गमगाद्विजेतुं सेनाभियुक्तः सहभृत्यवर्गः । विजित्य लेखान्प्रधने समस्तान् करप्रदं वज्रधरं चकार ॥ २४ ॥ नागान्सुपर्णान्वरराक्षसांश्च गन्धर्वयक्षानपि मानुषांस्तु । गिरीन्द्रवृक्षान्समरेषु सर्वां- श्चतुष्पदः सिंहमुखान्विजिग्ये ॥ २५ ॥ त्रैलोक्यमेतद्धि चराचरं वै वशं चकारात्मनि संनियोज्य । ततोऽकूलानि सुदर्शनानि नारीसहस्राणि बहूनि गत्वा ॥ २६ ॥ रसातले चैव तथा धरायां त्रिविष्टपे याः प्रमदाः सुरूपाः । ताभिर्युतोऽन्येषु सपर्वतेषु रराम रम्येषु नदीतटेषु ॥ २७ ॥ क्रीडायमानःस तु मध्यवर्ती तासां प्रहर्षादथ दानवेन्द्रः । तत्पीतशिष्टानि पिबन्प्रवृत्त्यै दिव्यानि पेयानि सुमानुषाणि ॥ २८ ॥ अन्यानि दिव्यानि तु यद्रसानि फलानि पुष्पाणि सुगन्धवन्ति । सम्प्राप्य यानानि सुवाहनानि मयेन सृष्टानि गृहोत्तमानि ॥ २९ ॥ पुष्पार्घधूपान्नविलेपनैश्च सुशोभितान्यद्भुतदर्शनैश्च । सङ्क्रीडमानस्य गतानि तस्य वर्षायुतानीह तथान्धकस्य ॥ ३० ॥ जानाति किञ्चिन्न शुभं परत्र यदात्मनःसौख्यकरं भवेद्धि । सदान्धको दैत्यवरःस मूढो मदान्धबुद्धिः कृतदुष्टसङ्गः ॥ ३१ ॥ ततः प्रमत्तस्तु सुतान्प्रधानान् कुतर्कवादैरभिभूय सर्वान् । चचार दैत्यैःसहितो महात्मा विनाशयन्वैदिकसर्वधर्मान् ॥ ३२ ॥ वेदान्द्विजान् वित्तमदाभिभूतो न मन्यते स्माप्यमरान्गुरूंश्च । रेमे तथा दैवगतो हतायुः स्वस्यैरहोभिर्गमयन्वयश्च ॥ ३३ ॥ ततः कदाचिद्गतवान्ससैन्यो बहुप्रयाता पृथिवीतलेऽस्मिन् । अनेकसङ्ख्या अपि वर्षकोट्यः प्रहर्षितो मन्दरपर्वतं तु ॥ ३४ ॥ स्वर्णोपमां तत्र निरीक्ष्य शोभां बभ्राम सैन्यैः सह मानमत्तः । क्रीडार्थमासाद्य च तं गिरीन्द्रं मतिं स वासाय चकार मोहात् ॥ ३५ ॥ शुभं दृढं तत्र पुरं स कृत्वा मुदास्थितो दैत्यपतिः प्रभावात् । निवेशयामास पुनः क्रमेण अत्यद्भुतं मन्दरशैलसानौ ॥ ३६ ॥
दुर्योधनो वैधसहस्तिसञ्ज्ञौ तन्मन्त्रिणौ दानवसत्तमस्य । ते वै कदाचिद्गिरिसुस्थले हि नारीं सुरूपां ददृशुस्त्रयोऽपि ॥ ३७ ॥ ते शीघ्रगा दैत्यवरास्तु हर्षाद् द्रुतं महादैत्यपतिं समेत्य । ऊचुर्यथादृष्टमतीव प्रीत्या तथान्धकं वीरवरं हि सर्वे ॥ ३८ ॥ मन्त्रिणः ऊचुः गुहान्तरे ध्याननिमीलिताक्षो दैत्येन्द्र कश्चिन्मुनिरत्र दृष्टः । रूदान्वितश्चन्द्रकलार्द्धचूडः कटिस्थले बद्धगजेन्द्रकृत्तिः ॥ ३९ ॥ नागेन्द्रभोगावृतसर्वगात्रः कपालमालाभरणो जटालः । स शूलहस्तः शरतूणधारी महाधनुष्मान्विवृताक्षसूत्रः ॥ ४० ॥ खड्गी त्रिशूली लकुटी कपर्दी चतुर्भुजो गौरतराकृतिर्हि । भस्मानुलिप्तो विलसत्सुतेजाः तपस्विवर्योऽद्भुतसर्ववेशः ॥ ४१ ॥ तस्याविदूरे पुरुषश्च दृष्टः स वानरो घोरमुखःकरालः । सर्वायुधो रूक्षकरश्च रक्षन् स्थितो जरद्गोवृषभश्च शुक्लः ॥ ४२ ॥ तस्योपविष्टस्य तपस्विनोपि सुचारुरूपा तरुणी मनोज्ञा । नारी शुभा पार्श्वगता हि तस्य दृष्टा च काचिद्भुवि रत्नभूता ॥ ४३ ॥ प्रवालमुक्तामणि हेमरत्न- वस्त्रावृता माल्यशुभोपगूढा । सा येन दृष्टा स च दृष्टिमान्स्याद् दृष्टेन चान्येन किमत्र कार्यम् ॥ ४४ ॥ मान्या महेशस्य च दिव्यनारी भार्या मुनेः पुण्यवतः प्रिया सा । योग्या हि द्रष्टुं भवतश्च सम्य- गानाय्य दैत्येन्द्र सुरत्नभोक्तः ॥ ४५ ॥ सनत्कुमार उवाच श्रुत्वेति तेषां वचनानि तानि कामातुरो घूर्णितसर्वगात्रः । विसर्जयामास मुनेः सकाशं दुर्योधनादीन्सहसा स दैत्यः ॥ ४६ ॥ आसाद्य ते तं मुनिमप्रमेयं बृहद्व्रतं मन्त्रिवरा हि तस्य । सुराजनीतिप्रवणा मुनीश प्रणम्य तं दैत्यनिदेशमाहुः ॥ ४७ ॥ मन्त्रिण ऊचुः हिरण्यनेत्रस्य सुतो महात्मा दैत्याधिराजोऽन्धकनामधेयः । त्रैलोक्यनाथो भवकृन्निदेशा- दिहोपविष्टोऽद्य विहारशाली ॥ ४८ ॥ तन्मन्त्रिणो वै वयमङ्गवीरा- स्तवोपकण्ठं च समागताः स्मः । तत्प्रेषितास्त्वां यदुवाच तद्वै शृणुष्व सन्दत्तमनास्तपस्विन् ॥ ४९ ॥ त्वं कस्य पुत्रोऽसि किमर्थमत्र सुखोपविष्टो मुनिवर्य धीमन् । कस्येयमीदृक्तरुणी सुरूपा देया शुभा दैत्यपतेर्मुनीन्द्र ॥ ५० ॥ क्वेदं शरीरं तव भस्मदिग्धं कपालमालाभरणं विरूपम् । तूणीरसत्कार्मुकबाणखड्ग- भुशुण्डिशूलाशनितोमराणि ॥ ५१ ॥ क्व जाह्नवी पुण्यतमा जटाग्रे क्वायं शशी वा कुणपास्थिखण्डम् । विषानलो दीर्घमुखः क्व सर्पः क्व सङ्गमः पीनपयोधरायाः ॥ ५२ ॥ जरद्गवारोहणमप्रशस्तं क्षमावतस्तस्य न दर्शनं च । सन्ध्याप्रणामः क्वचिदेष धर्मः क्व भोजनं लोकविरुद्धमेतत् ॥ ५३ ॥ प्रयच्छ नारीं सम सान्त्वपूर्वं स्त्रिया तपः किं कुरुषे विमूढ । अयुक्तमेतत्त्वयि नानुरूपं यस्मादहं रत्नपतिस्त्रिलोके ॥ ५४ ॥ विमुञ्च शस्त्राणि मयाद्य चोक्तः कुरुष्व पश्चात्तप एव शुद्धम् । उल्लङ्घ्य मच्छासनमप्रधृष्यं विमोक्ष्यसे सर्वमिदं शरीरम् ॥ ५५ ॥ मत्वान्धकं दुष्टमतिप्रधानो महेश्वरो लौकिकभावशीलः । प्रोवाच दैत्यं स्मितपूर्वमेव- माकर्ण्य सर्वं त्वथ दूतवाक्यम् ॥ ५६ ॥ शिव उवाच यद्यस्मि रुद्रस्तव किं मया स्यात् किमर्थमेवं वदसीति मिथ्या । शृणु प्रभावं मम दैत्यनाथ न्याय्यं न वक्तुं वचनं त्वयैवम् ॥ ५७ ॥ नाहं क्वचित्स्वं पितरं स्मरामि गुहान्तरे घोरमनन्यचीर्णम् । एतद् व्रतं पशुपातं चरामि न मातरं त्वज्ञतमो विरूपः ॥ ५८ ॥ अमूलमेतन्मयि तु प्रसिद्धं सुदुस्त्यजं सर्वमिदं ममास्ति । भार्या ममेयं तरुणी सुरूपा सर्वंसहा सर्वगतस्य सिद्धिः ॥ ५९ ॥ एतर्हि यद्यद्रुचितं तवास्ति गृहाण तद्वै खलु राक्षस त्वम् । एतावदुक्त्वा विरराम शम्भुः तपस्विवेषः पुरतस्तु तेषाम् ॥ ६० ॥ सनत्कुमार उवाच गम्भीरमेतद्वचनं निशम्य ते दानवास्तं प्रणिपत्य मूर्ध्ना । जग्मुस्ततो दैत्यवरस्य सूनुं त्रैलोक्यनाशाय कृतप्रतिज्ञम् ॥ ६१ ॥ बभाषिरे दैत्यपतिं प्रमत्तं प्रणम्य राजानमदीनसत्त्वाः । ते तत्र सर्वे जयशब्दपूर्वं रुद्रेण यत्तत्स्मितपूर्वमुक्तम् ॥ ६२ ॥ मन्त्रिण उचुः निशाचरश्चञ्चलशौर्यधैर्यः क्व दानवः कृपणः सत्त्वहीनः । क्रूरः कृतघ्नश्च सदैव पापी क्व दानवः सूर्यसुताद्बिभेति ॥ ६३ ॥ राजस्त्वमुक्तोऽखिलदैत्यनाथ- स्तपस्विना तन्मुनिना विहस्य । मत्वा स्वबुद्ध्या तृणवत्त्रिलोकं महौजसा वीरवरेण नूनम् ॥ ६४ ॥ क्वाहं च शस्त्राणि च दारुणानि मृत्योश्च सन्त्रासकरं क्व युद्धम् । क्व वीरको वानरवक्त्रतुल्यो निशाचरो जरसा जर्जराङ्गः ॥ ६५ ॥ क्वायं स्वरूपः क्व च मन्दभाग्यो बलं त्वदीयं क्व च वीरुधो वा । शक्तोऽपि चेत्त्वं प्रयतस्व युद्धं कर्तुं तदा ह्येहि कुरुष्व किञ्चित् ॥ ६६ ॥ वज्राशनेस्तुल्यमिहास्ति शस्त्रं भवादृशां नाशकरं च घोरम् । क्व ते शरीरं मृदुपद्मतुल्यं विचार्य चैवं कुरु रोचते यत् ॥ ६७ ॥ इत्येवमादीनि वचांसि भद्रं तपस्विनोक्तानि च दानवेश । युक्तं न ते तेन सहात्र युद्धं त्वामाह राजन्स्मयमान एव ॥ ६८ ॥ विवस्तुशून्यैर्बहुभिः प्रलापै- रस्माभिरुक्तैर्यदि बुध्यसे त्वम् । तपोभियुक्तेन तपस्विना वै स्मर्तासि पश्चान्मुनिवाक्यमेतत् ॥ ६९ ॥ सनत्कुमार उवाच ततः स तेषां वचनं निशम्य जज्वाल रोषेण स मन्दबुद्धिः । आज्यावसिक्तस्त्विव कृष्णवर्त्मा सत्यं हितं तत्कुटिलं सुतीक्ष्णम् ॥ ७० ॥ गृहीतखड्गो वरदानमत्तः प्रचण्डवातानुकृतिं च कुर्वन् । गन्तुं च तत्र स्मरबाणविद्धः समुद्यतोऽभूद्विपरीतदेवः ॥ ७१ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे अन्धकगाणपत्यलाभोपाख्याने दूतसंवादो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥ श्रीगौरीशंकरार्पणमस्तु |