|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
त्रिचत्वारिंशोऽध्यायः
गणाधिपत्यप्राप्त्यन्धकजन्म हिरण्यनेत्रहिरण्यकशिपुवधवर्णनम्
व्यास उवाच
सनत्कुमार सर्वज्ञ हते तस्मिन्सुरद्रुहि । किमकार्षीत्ततस्तस्य ज्येष्ठभ्राता महासुरः ॥ १ ॥ कुतूहलमिति श्रोतुं ममास्तीह मुनीश्वर । तच्छ्रावय कृपां कृत्वा ब्रह्मपुत्र नमोस्तु ते ॥ २ ॥ ब्रह्मोवाच इत्याकर्ण्य वचस्तस्य व्यासस्य स मुनीश्वरः । सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम् ॥ ३ ॥ सनत्कुमार उवाच भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना । हिरण्यकशिपुर्व्यास पर्यतप्यद्रुषा शुचा ॥ ४ ॥ ततः प्रजानां कदनं विधातुं कदनप्रियान् । निर्दिदेशाऽसुरान्वीरान्हरि वैरप्रियो हि सः ॥ ५ ॥ अथ ते भर्तृसन्देशमादाय शिरसाऽसुराः । देवप्रजानां कदनं विदधुः कदनप्रियाः ॥ ६ ॥ ततो विप्रकृते लोकेऽसुरैस्तैर्दुष्टमानसैः । दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥ ७ ॥ हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः । कृत्वा करोदकादीनि तत्कलत्राद्यसान्त्वयत् ॥ ८ ॥ ततःस दैत्यराजेन्द्रो ह्यजेयमजरामरम् । आत्मानमप्रतिद्वन्द्वमेकराज्यं व्यधित्सत ॥ ९ ॥ स तेपे मन्दरद्रोण्यां तपः परमदारुणम् । ऊर्ध्वबाहुर्नभोदृष्टिः षादाङ्गुष्ठाश्रितावनिः ॥ १० ॥ तस्मिंस्तपस्तप्यमाने देवाःसर्वे बलान्विताः । दैत्यान्सर्वान्विनिर्जित्य स्वानि स्थानानि भेजिरे ॥ ११ ॥ तस्य मूर्ध्नः समुद्भूतः सधूमोग्निस्तपोमयः । तिर्यगूर्ध्वमधोलोकानतपद्विष्वगीरितः ॥ १२ ॥ तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुःसुराः । धात्रे विज्ञापयामासुस्तत्तपोविकृताननाः ॥ १३ ॥ अथ विज्ञापितो देवैर्व्यास तैरात्मभूर्विधिः । परीतो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् ॥ १४ ॥ प्रताप्य लोकानखिलांस्ततोऽसौ समागतं पद्मभवं ददर्श । वरं हि दातुं तमुवाच धाता वरं वृणीष्वेति पितामहोपि ॥ निशम्य वाचं मधुरां विधातु- र्वचोऽब्रवीदेव ममूढबुद्धिः ॥ १५ ॥ हिरण्यकशिपुरुवाच मृत्योर्भयं मे भगवन्प्रजेश पितामहाभून्न कदापि देव । शास्त्रास्त्रपाशाशनिशुष्कवृक्ष- गिरीन्द्रतोयाग्निरिपुप्रहारैः ॥ १६ ॥ देवैश्च दैत्यैर्मुनिभिश्च सिद्धैः त्वत्सृष्टजीवैर्बहुवाक्यतः किम् । स्वर्गे धरण्यां दिवसे निशायां नैवोर्ध्वतो नाप्यधतः प्रजेश ॥ १७ ॥ सनत्कुमार उवाच तस्यैतदीदृग्वचनं निशम्य दैत्येन्द्र तुष्टोऽस्मि लभस्व सर्वम् । प्रणम्य विष्णुं मनसा तमाह दयान्वितोऽसाविति पद्मयोनिः ॥ १८ ॥ अलं तपस्ते परिपूर्ण कामः समाः सहस्राणि च षण्णवत्य । उत्तिष्ठ राज्यं कुरु दानवानां श्रुत्वा गिरं तत्सुमुखो बभूव ॥ १९ ॥ राज्याभिषिक्तः प्रपितामहेन त्रैलोक्यनाशाय मतिं चकार । उत्साद्य धर्मान् सकलान्प्रमत्तो जित्वाहवे सोपि सुरान्समस्तान् ॥ २० ॥ ततो भयादिन्द्रमुखाश्च देवाः पितामहाज्ञां समवाप्य सर्वे । उपद्रुता दैत्यवरेण जाताः क्षीरोदधिं यत्र हरिस्तु शेते ॥ २१ ॥ आराधयामासुरतीव विष्णुं स्तुत्वा वचोभिः सुखदं हि मत्वा । निवेदयामासुरथो प्रसन्नं दुःखं स्वकीयं सकलं हि ते ते ॥ २२ ॥
श्रुत्वा तदीयं सकलं हि दुःखं तुष्टो रमेशः प्रददौ वरांस्तु । उत्थाय तस्माच्छयनादुपेन्द्रो निजानुरूपैर्विविधैर्वचोभिः ॥ २३ ॥ आश्वास्य देवानखिलान्मुनीन्वा उवाच वैश्वानरतुल्यतेजाः । दैत्यं हनिष्ये प्रसभं सुरेशाः प्रयात धामानि निजानि तुष्टाः ॥ २४ ॥ श्रुत्वा रमेशस्य वचःसुरेशाः शक्रादिकास्ते निखिलाः सुतुष्टाः । ययुः स्वधामानि हिरण्यनेत्रा- नुजं च मत्वा निहतं मुनीश ॥ २५ ॥ आश्रित्य रूपं जटिलं करालं दंष्ट्रायुधं तीक्ष्णनखं सुनासम् । सैंहं च नारं सुविदारितास्यं मार्तण्डकोटिप्रतिमं सुघोरम् ॥ २६ ॥ युगान्तकालाग्निसमप्रभावं जगन्मयं किं बहुभिर्वचोभिः । अस्तं रवौसोऽपि हि गच्छतीशो गतोऽसुराणां नगरीं महात्मा ॥ २७ ॥ कृत्वा च युद्धं प्रबलैःस दैत्यै- र्हत्वाथ तान्दैत्यगणान्गृहीत्वा । बभ्राम तत्राद्भुतविक्रमश्च बभञ्ज तांस्तानसुरान्नृसिंहः ॥ २८ ॥ दृष्टःस दैत्यैरतुलप्रभाव- स्ते रेभिरे ते हि तथैव सर्वे । सिंहं च तं सर्वमयं निरीक्ष्य प्रह्लादनामा दितिजेन्द्रपुत्रः । उवाच राजानमयं मृगेन्द्रो जगन्मयः किं समुपागतश्च ॥ २९ ॥ प्रह्लाद उवाच एष प्रविष्टो भगवाननन्तो नृसिंहमात्रो नगरं त्वदन्तः । निवृत्य युद्धाच्छ रणं प्रयाहि पश्यामि सिंहस्य करालमूर्त्तिम् ॥ ३० ॥ यस्मान्न योद्धा भुवनत्रयेऽपि कुरुष्व राज्यं विनमन्मृगेन्द्रम् । श्रुत्वा स्वपुत्रस्य वचो दुरात्मा तमाह भीतोऽसि किमत्र पुत्र ॥ ३१ ॥ उक्त्वेति पुत्रं दितिजाधिनाथो दैत्यर्षभान्वीरवरान्स राजा । गृह्णन्तु वै सिंहममुं भवन्तो वीरा विरूपभ्रुकुटीक्षणं तु ॥ ३२ ॥ तस्याज्ञया दैत्यवरास्ततस्ते ग्रहीतुकामा विविशुर्मृगेन्द्रम् । क्षणेन दग्धाः शलभा इवाग्निं रूपाभिलाषात्प्रविविक्षवो वै ॥ ३३ ॥ दैत्येषु दग्धेष्वपि दैत्यराज- श्चकार युद्धं स मृगाधिपेन । शस्त्रैःसमग्रैरखिलैस्तथास्त्रैः शक्त्यर्ष्टिपाशाङ्कुशपावकाद्यैः ॥ ३४ ॥ संयुध्यतोरेव तयोर्जगाम ब्राह्मं दिनं व्यास हि शस्त्रपाण्योः । प्रवीरयोर्वीररवेण गर्जतोः परस्परं क्रोधसुयुक्तचेतसोः ॥ ३५ ॥ ततः स दैत्यःसहसा बहूंश्च कृत्वा भुजाञ्छस्त्रयुतान्निरीक्ष्य । नृसिंहरूपं प्रययौ मृगेन्द्र संयुध्यमानं सहसा समन्तात् ॥ ३६ ॥ ततःसुयुद्धं त्वतिदुःसहं तु शस्त्रैःसमस्तैश्च तथाखिलास्त्रैः । कृत्वा महादैत्यवरो नृसिंहं क्षयं गतैः शूल धरोऽभ्युपायात् ॥ ३७ ॥ ततो गृहीतः स मृगाधिपेन भुजैरनेकैर्गिरिसारवद्भि । निधाय जानौ स भुजान्तरेषु नखाङ्कुरैर्दानवमर्मभिद्भिः ॥ ३८ ॥ नखास्त्रहृत्पद्ममसृग्विमिश्र- मुत्पाद्य जीवाद्विगतः क्षणेन । त्यक्तस्तदानीं स तु काष्ठभूतः पुनः पुनश्चूर्णितसर्वगात्रः ॥ ३९ ॥ तस्मिन्हते देवरिपौ प्रसन्नः प्रह्लादमामन्त्र्य कृतप्रणामम् । राज्येऽभिषिच्याद्भुतवीर्यविष्णु- स्ततः प्रयातो गतिमप्रतर्क्याम् ॥ ४० ॥ ततोऽतिहृष्टाःसकलाः सुरेशाः प्रणम्य विष्णुं दिशि विप्र तस्याम् । ययुः स्वधामानि पितामहाद्याः कृतस्वकार्यं भगवन्तमीड्यम् ॥ ४१ ॥ प्रवर्णितं त्वन्धकजन्म रुद्राद् हिरण्यनेत्रस्य मृतिर्वराहात् । नृसिंहतस्तत्सहजस्य नाशः प्रह्लादराज्याप्तिरिति प्रसङ्गात् ॥ ४२ ॥ शृणु त्विदानीं द्विजवर्य मत्तोऽ- न्धकप्रभावं भवकृत् प्रलब्धम् । हरेण युद्धं खलु तस्य पश्चाद् गणाधिपत्यं गिरिशस्य तस्य ॥ ४३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे गणाधिपत्यप्राप्त्यन्धकजन्म हिरण्यनेत्रहिरण्यकशिपुवधवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥ श्रीगौरीशंकरार्पणमस्तु |