|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
अष्टचत्वारिंशोऽध्यायः
शुक्रनिगीर्णनम्
व्यास उवाच
शुक्रे निगीर्णे रुद्रेण किमकार्षुश्च दानवाः । अन्धकेशा महावीरा वद तत्त्वं महामुने ॥ १ ॥ सनत्कुमार उवाच काव्ये निगीर्णे गिरिजेश्वरेण दैत्या जयाशारहिता बभूवुः । हस्तैर्विमुक्ता इव वारणेन्द्राः शृङ्गैर्विहीना इव गोवृषाश्च ॥ २ ॥ शिरो विहीना इव देवसङ्घा द्विजा यथा चाध्ययनेन हीनाः । निरुद्यमाः सत्त्वगणा यथा वै यथोद्यमा भाग्यविवर्जिताश्च ॥ ३ ॥ पत्या विहीनाश्च यथैव योषा यथा विपक्षाः खलु मार्गणौघाः । आयूंषि हीनानि यथैव पुण्यै- र्व्रतैर्विहीनानि यथा श्रुतानि ॥ ४ ॥ विना यथा वैभवशक्तिमेकां भवन्ति हीनाःस्वफलैः क्रियौघाः । यथा विशूराः खलु क्षत्रियाश्च सत्यं विना धर्मगणो यथैव ॥ ९ ॥ नन्दिना चा हृते शुक्रे गिलिते च विषादिना । विषादमगमन्दैत्या यतमानरणोत्सवाः ॥ ६ ॥ तान् वीक्ष्य विगतोत्साहानन्धकः प्रत्यभाषत । दैत्यांस्तु हुण्डहुण्डादीन्महाधीरपराक्रमः ॥ ७ ॥ अन्धक उवाच कविं विक्रम्य नयता नन्दिना वञ्चिता वयम् । तनूर्विना कृताः प्राणाःसर्वेषामद्य नो ननु ॥ ८ ॥ धैर्यं वीर्यं गतिः कीर्तिः सत्त्वं तेजः पराक्रमः । युगपन्नो हृतं सर्वमेकस्मिन् भार्गवे हृते ॥ ९ ॥ धिगस्मान् कुलपूज्यो यैरेकोपि कुलसत्तमः । गुरुःसर्वसमर्थश्च त्राता त्रातो न चापदि ॥ १० ॥ तद्यूयमविलम्ब्येह युध्यध्वमरिभिः सह । वीरैस्तैः प्रमथैवीराः स्मृत्वा गुरुपदाम्बुजम् ॥ ११ ॥ गुरोः काव्यस्य सुखदौ स्मृत्वा चरणपङ्कजौ । सूदयिष्याम्यहं सर्वान् प्रमथान् सह नन्दिना ॥ १२ ॥ अद्यैतान् विवशान् हत्वा सहदेवैः सवासवैः । भार्गवं मोचयिष्यामि जीवं योगीव कर्मतः ॥ १३ ॥ स चापि योगी योगेन यदि नाम स्वयं प्रभुः । शरीरात्तस्य निर्गच्छेदस्माकं शेषपालिता ॥ १४ ॥ सनत्कुमार उवाच इत्यन्धकवचः श्रुत्वा दानवा मेघनिःस्वनाः । प्रमथान् निर्दयाः प्राहुर्मर्तव्ये कृतनिश्चयाः ॥ १५ ॥ सत्यायुषि न नो जातु शक्ताः स्युः प्रमथा बलात् । असत्यायुषि किं गत्वा त्यक्त्वा स्वामिनमाहवे ॥ १६ ॥ ये स्वामिनं विहायातो बहुमानधना जनाः । यान्ति ते यान्ति नियतमन्धतामिस्रमालयम् ॥ १७ ॥ अयशस्तमसा ख्यातिं मलिनीकृत्य भूरिशः । इहामुत्रापि सुखिनो न स्युर्भग्ना रणाजिरे ॥ १८ ॥ किं दानै किं तपोभिश्च किं तीर्थपरिमज्जनैः । धारातीर्थे यदि स्नानं पुनर्भवमलापहे ॥ १९ ॥ सम्प्रधार्येति तद्वाक्यं दैत्यास्ते दनुजास्तथा । ममन्थुः प्रमथानाजौ रणभेरीं निनाद्य च ॥ २० ॥ तत्र बाणासिवज्रौघैः कठिनैश्च शिलामयैः । भुशुण्डिभिन्दिपालैश्च शक्ति भल्लपरश्वधैः ॥ २१ ॥ खट्वाङ्गैः पट्टिशैः शूलैर्लकुटैर्मुसलैरलम् । परस्परमभिघ्नन्तः प्रचक्रुः कदनं महत् ॥ २२ ॥ कार्मुकाणां विकृष्टानां पततां च पतत्त्रिणाम् । भिन्दिपालभुशुण्डीनां क्ष्वेडितानां रवोऽभवत् ॥ २३ ॥ रणतूर्य्यनिनादैश्च गजानां बहुबृंहितैः । ह्रेषारवैर्हयानांश्च महान्कोलाहलोऽभवत् ॥ २४ ॥ अतिस्वनैरवापूरि द्यावाभूम्योर्यदन्तरम् । अभीरूणां च भीरूणां महारोमोद्गमोऽभवत् ॥ २५ ॥
गजवाजिमहारावस्फुटशब्दग्रहाणि च । भग्नध्वजपताकानि क्षीणप्रहरणानि च ॥ २६ ॥ रुधिरोद्गारचित्राणि व्यश्वहस्तिरथानि च । पिपासितानि सैन्यानि मुमूर्च्छुरुभयत्र वै ॥ २७ ॥ अथ ते प्रमथा वीरा नन्दिप्रभृतयस्तदा । बलेन जघ्नुरसुरान्सर्वान्प्रापुर्जयं मुने ॥ २८ ॥ दृष्ट्वा सैन्यं च प्रमथेर्भज्यमानमितस्ततः । दुद्राव रथमास्थाय स्वयमेवान्धको गणान् ॥ २९ ॥ शरावारप्रयुक्तैस्तैर्वज्रपातैर्नगा इव । प्रमथा नेशिरे चास्त्रैर्निस्तोया इव तोयदाः ॥ ३० ॥ यान्तमायान्तमालोक्य दूरस्थं निकटस्थितम् । प्रत्येकं रोमसङ्ख्याभिर्विव्याधेषुभिरन्धकः ॥ ३१ ॥ दृष्ट्वा सैन्यं भज्यमानमन्धकेन बलीयसा । स्कन्दो विनायको नन्दी सोमनन्द्यादयः परे ॥ ३२ ॥ प्रमथा प्रबला वीराः शंकरस्य गणा निजाः । चुक्रुधुःसमरं चक्रुर्विचित्रं च महाबलाः ॥ ३३ ॥ विनायकेन स्कन्देन नन्दिना सोमनन्दिना । वीरेण नैगमेयेन वैशाखेन बलीयसा ॥ ३४ ॥ इत्याद्यैस्तु गणैरुग्रैरन्धकोप्यधकीकृतः । त्रिशूलशक्तिबाणौघधारासम्पातपातिभिः ॥ ३५ ॥ ततः कोलाहलो जातः प्रमथासुरसैन्ययोः । तेन शब्देन महता शुक्रः शम्भूदरे स्थितः ॥ ३६ ॥ छिद्रान्वेषी भ्रमन्सोथ विनिकेतो यथानिलः । सप्तलोकान्सपातालान् रुद्रदेहे व्यलोकयत् ॥ ३७ ॥ ब्रह्मनारायणेन्द्राणां सादित्याप्सरसां तथा । भुवनानि विचित्राणि युद्धं च प्रमथासुरम् ॥ ३८ ॥ स वर्षाणां शतं कुक्षौ भवस्य परितो भ्रमन् । न तस्य ददृशे रन्ध्रं शुचे रन्ध्रं खलो यथा ॥ ३९ ॥ शाम्भवेनाथ योगेन शुक्ररूपेण भार्गवः । इमं मन्त्रवरं जप्त्वा शम्भोर्जठरपञ्जरात् ॥ ४० ॥ निष्क्रान्तं लिङ्गमार्गेण प्रणनाम ततः शिवम् । गौर्य्या गृहीतः पुत्रार्थं तदविघ्नेश्वरीकृतः ॥ ४१ ॥ अथ काव्यं विनिष्क्रातं शुक्रमार्गेण भार्गवम् । दृष्ट्वोवाच महेशानो विहस्य करुणानिधिः ॥ ४२ ॥ महेश्वर उवाच शुक्रवन्निःसृतो यस्माल्लिङ्गान्मे भृगुनन्दन । कर्मणा तेन शुक्लत्वं मम पुत्रोऽसि गम्यताम् ॥ ४३ ॥ सनत्कुमार उवाच इत्येवमुक्तो देवेन शुक्रोऽर्कसदृशद्युतिः । प्रणनाम शिवं भूयस्तुष्टाव विहिताञ्जलिः ॥ ४४ ॥ शुक्र उवाच अनन्तपादस्त्वमनन्तमूर्ति- रनन्तमूर्द्धान्तकरः शिवश्च । अनन्तबाहुः कथमीदृशं त्वां स्तोष्ये ह नुत्यं प्रणिपत्य मूर्ध्ना ॥ ४५ ॥ त्वमष्टमूर्तिस्त्वमनन्तमूर्ति- स्त्वमिष्टदः सर्वसुरासुराणाम् । अनिष्टदृष्टश्च विमर्दकश्च स्तोष्ये ह नुत्यं कथमीदृशं त्वाम् ॥ ४६ ॥ सनत्कुमार उवाच इति स्तुत्वा शिवं शुक्रः पुनर्नत्वा शिवाज्ञया । विवेश दानवानीकं मेघमालां यथा शशी ॥ ४७ ॥ निगीर्णनमिति प्रोक्तं शंकरेण कवे रणे । शृणु मन्त्रं च तं जप्तो यः शम्भोः कविनोदरे ॥ ४८ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां पञ्चमे युद्धखण्डे शुक्रनिगीर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥ श्रीगौरीशंकरार्पणमस्तु |