|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
चत्वारिंशोऽध्यायः
शङ्खचूडवधोपाख्यानम्
सनत्कुमार उवाच
स्वबलं निहतं दृष्ट्वा मुख्यं बहुतरं ततः । तथा वीरान् प्राणसमान् चुकोपातीव दानवः ॥ १ ॥ उवाच वचनं शम्भुं तिष्ठाम्याजौ स्थिरो भव । किमेतैर्निहतैर्मेऽद्य संमुखे समरं कुरु ॥ २ ॥ इत्युक्त्वा दानवेन्द्रोऽसौ सन्नद्धः समरे मुने । अगच्छन्निश्चयं कृत्वाऽभिमुखं शंकरस्य च ॥ ३ ॥ दिव्यान्यस्त्राणि चिक्षेप महारुद्राय दानवः । चकार शरवृष्टिं च तोयवृष्टिं यथा घनः ॥ ४ ॥ मायाश्चकार विविधा अदृश्या भयदर्शिताः । अप्रतर्क्याः सुरगणैर्निखिलैरपिः सत्तमैः ॥ ५ ॥ तां दृष्ट्वा शंकरस्तत्र चिक्षेपास्त्रं च लीलया । माहेश्वरं महादिव्यं सर्वमायाविनाशनम् ॥ ६ ॥ तेजसा तस्य तन्माया नष्टाश्चासन् द्रुतं तदा । दिव्यान्यस्त्राणि तान्येव निस्तेजांस्यभवन्नपि ॥ ७ ॥ अथ युद्धे महेशानस्तद्वधाय महाबलः । शूलं जग्राह सहसा दुर्निवार्यं सुतेजसाम् ॥ ८ ॥ तदैव तन्निषेद्धुं च वाग्बभूवाशरीरिणी । क्षिप शूलं न चेदानीं प्रार्थनां शृणु शंकर ॥ ९ ॥ सर्वथा त्वं समर्थो हि क्षणाद् ब्रह्माण्डनाशने । किमेकदानवस्येश शङ्खचूडस्य साम्प्रतम् ॥ १० ॥ तथापि वेदमर्यादा न नाश्या स्वामिना त्वया । तां शृणुष्व महादेव सफलं कुरु सत्यतः ॥ ११ ॥ यावदस्य करेऽत्युग्रं कवचं परमं हरेः । यावत्सतीत्वमस्त्येव सत्या अस्य हि योषितः ॥ १२ ॥ तावदस्य जरामृत्युः शङ्खचूडस्य शंकर । नास्तीत्यवितथं नाथ विधेहि ब्रह्मणो वचः ॥ १३ ॥ इत्याकर्ण्य नभोवाणीं तथेत्युक्ते हरे तदा । हरेच्छयागतो विष्णुस्तं दिदेश सतां गतिः ॥ १४ ॥ वृद्धब्राह्मणवेषेण विष्णुर्मायाविनां वरः । शङ्खचूडोपकण्ठं च गत्वोवाच स तं तदा ॥ १५ ॥ वृद्धब्राह्मण उवाच देहि भिक्षां दानवेन्द्र मह्यं प्राप्ताय साम्प्रतम् ॥ १६ ॥ नेदानीं कथयिष्यामि प्रकटं दीनवत्सलम् । पश्चात्त्वां कथयिष्यामि पुनः सत्यं करिष्यसि ॥ १७ ॥ ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः । कवचार्थी जनश्चाहमित्युवाचेति सच्छलात् ॥ १८ ॥ तच्छ्रुत्वा दानवेन्द्रोसौ ब्रह्मण्यः सत्यवाग्विभुः । तद् ददौ कवचं दिव्यं विप्राय प्राणसंमतम् ॥ १९ ॥ मायायेत्थं तु कवचं तस्माज्जग्राह वै हरिः । शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ॥ २० ॥ गत्वा तत्र हरिस्तस्या योनौ मायाविशारदः । वीर्याधानं चकाराशु देवकार्यार्थमीश्वरः ॥ २१ ॥ एतस्मिन्नन्तरे शम्भुमीरयन् स्ववचः प्रभुः । शङ्खचूडवधार्थाय शूलं जग्राह प्रज्वलत् ॥ २२ ॥
तच्छूलं विजयं नाम शङ्करस्य परमात्मनः । सञ्चकाशे दिशः सर्वा रोदसी सम्प्रकाशयन् ॥ २३ ॥ कोटिमध्याह्नमार्तण्डप्रलयाग्निशिखोपमम् । दुर्निवार्यं च दुर्द्धर्षमव्यर्थं वैरिघातकम् ॥ २४ ॥ तेजसां चक्रमत्युग्रं सर्वशस्त्रास्त्रसायकम् । सुरासुराणां सर्वेषां दुःसहं च भयङ्करम् ॥ २५ ॥ संहर्तुं सर्वब्रह्माडमवलम्ब्य च लीलया । संस्थितं परमं तत्र एकत्रीभूय विज्वलत् ॥ २६ ॥ धनुःसहस्रं दीर्घेण प्रस्थेन शतहस्तकम् । जीवब्रह्मस्वरूपं च नित्यरूपमनिर्मितम् ॥ २७ ॥ विभ्रमद् व्योम्नि तच्छूलं शङ्ख चूडोपरि क्षणात् । चकार भस्म तच्छीघ्रं निपत्य शिवशासनात् ॥ २८ ॥ अथ शूलं महेशस्य द्रुतमावृत्य शंकरम । ययौ विहायसा विप्र मनोयायि स्वकार्यकृत् ॥ २९ ॥ नेदुर्दुन्दुभयः स्वर्गे जगुर्गन्धर्वकिन्नराः । तुष्टुवुर्मुनयो देवा ननृतुश्चाप्सरोगणाः ॥ ३० ॥ बभूव पुष्पवृष्टिश्च शिवस्योपरि सन्ततम् । प्रशशंस हरिर्ब्रह्मा शक्राद्या मुनयस्तथा ॥ ३१ ॥ शङ्खचूडो दानवेन्द्रः शिवस्य कृपया तदा । शाप मुक्तो बभूवाथ पूर्वरूपमवाप ह ॥ ३२ ॥ अस्थिभिः शङ्खचूडस्य शङ्खजातिर्बभूव ह । प्रशस्तं शङ्खतोयं च सर्वेषां शंकरं विना ॥ ३३ ॥ विशेषेण हरेर्लक्ष्म्याः शङ्खतोयं महाप्रियम् । सम्बन्धिनां च तस्यापि न हरस्य महामुने ॥ ३४ ॥ तमित्थं शंकरो हत्वा शिवलोकं जगाम सः । सुप्रहृष्टो वृषारूढः सोमस्कन्दगणैर्वृतः ॥ ३५ ॥ हरिर्जगाम वैकुण्ठं कृष्णःस्ववस्थो बभूव ह । सुराःस्वविषयं प्रापुः परमानन्दसंयुताः ॥ ३६ ॥ जगत्स्वास्थ्यमतीवाप सर्वनिर्विघ्नमापकम् । निर्मलं चाभवद्व्योम क्षितिः सर्वा सुमंगला ॥ ३७ ॥ इति प्रोक्तं महेशस्य चरितं प्रमुदावहम् । सर्वदुःखहरं श्रीदं सर्वकामप्रपूरकम् ॥ ३८ ॥ धन्यं यशस्यमायुष्यं सर्वविघ्ननिवारणम् । भुक्तिदं मुक्तिदं चैव सर्वकामफलप्रदम् ॥ ३९ ॥ य इदं शृणुयान्नित्यं चरितं शशिमौलिनः । श्रावयेद्वा पठेद्वापि पाठयेद्वा सुधीर्नरः ॥ ४० ॥ धनं धान्यं सुतं सौख्यं लभेतात्र न संशयः । सर्वान्कामानवाप्नोति शिवभक्तिं विशेषतः ॥ ४१ ॥ इदमाख्यानमतुलं सर्वोपद्रवनाशनम् । परमज्ञानजननं शिवभक्तिविवर्द्धनम् ॥ ४२ ॥ ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् । धनाढ्यो वैश्यजः शूद्रः शृण्वन् सत्तमतामियात् ॥ ४३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखडे शङ्खचूडवधोपाख्यानं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥ श्रीगौरीशंकरार्पणमस्तु |