॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

एकोनचत्वारिंशोऽध्यायः


शङ्‌खचूडसैन्यवधवर्णनम्


व्यास उवाच
श्रुत्वा काल्युक्तमीशानो किं चकार किमुक्तवान् ।
तत्त्वं वद महाप्राज्ञ परं कौतूहलं मम ॥ १ ॥
सनत्कुमार उवाच
काल्युक्तं वचनं श्रुत्वा शंकरः परमेश्वरः ।
महालीलाकरः शम्भुर्जहासाश्वासयञ्च ताम् ॥ २ ॥
व्योमवाणीं समाकर्ण्य तत्त्वज्ञानविशारदः ।
ययौ स्वयं च समरे स्वगणैःसह शंकरः ॥ ३ ॥
महावृषभमारूढो वीरभद्रादिसंयुतः ।
भैरवैः क्षेत्रपालैश्च स्वसमानैः समन्वितः ॥ ४ ॥
रणं प्राप्तो महेशश्च वीररूपं विधाय च ।
विरराजाधिकं तत्र रुद्रो मूर्त इवान्तकः ॥ ५ ॥
शङ्‌खचूडः शिवं दृष्ट्‍वा विमानादवरुह्य सः ।
ननाम परया भक्त्या शिरसा दण्डवद्‌भुवि ॥ ६ ॥
तं प्रणम्य तु योगेन विमानमारुरोह सः ।
तूर्णं चकार सन्नाहं धनुर्जग्राह सेषुकम् ॥ ७ ॥
शिवदानवयोर्युद्धं शतमब्दं बभूव ह ।
बाणवर्षमिवोग्रं तद्वर्षतोर्मोघयोस्तदा ॥ ८ ॥
शङ्‌खचूडो महावीरः शरांश्चिक्षेप दारुणान् ।
चिच्छेद शंकरस्तान्वै लीलया स्वशरोत्करैः ॥ ९ ॥
तदङ्‌गेषु च शस्त्रोघैस्ताडयामास कोपतः ।
महारुद्रो विरूपाक्षो दुष्टदण्डः सतां गति ॥ १० ॥
दानवो निशितं खड्गं चर्म चादाय वेगवान् ।
वृषं जघान शिरसि शिवस्य वरवाहनम् ॥ ११ ॥
ताडिते वाहने रुद्रस्तं क्षुरप्रेण लीलया ।
खड्गं चिच्छेद तस्याशु चर्म चापि महोज्ज्वलम् ॥ १२ ॥
छिन्नेऽसौ चर्मणि तदा शक्तिं चिक्षेप सोऽसुरः ।
द्विधा चक्रे स्वबाणेन हरस्तां संमुखागताम् ॥ १३ ॥
कोपाध्मातः शङ्‌खचूडः चक्रं चिक्षेप दानवः ।
मुष्टिपातेन तच्चाप्यचूर्णयत्सहसा हरः ॥ १४ ॥
गदामाविध्य तरसा सञ्चिक्षेप हरं प्रति ।
शम्भुना सापि सहसा भिन्ना भस्मत्वमागता ॥ १५ ॥
ततः परशुमादाय हस्तेन दानवेश्वरः ।
धावति स्म हरं वेगाच्छङ्‌खचूडः क्रुधाकुलः ॥ १६ ॥
समाहृत्य स्वबाणौघैरपातयत शंकरः ।
द्रुतं परशुहस्तं तं भूतले लीलयासुरम् ॥ १७ ॥
ततः क्षणेन सम्प्राप्य सञ्ज्ञामारुह्य सद्‌रथम् ।
धृतदिव्यायुधशरो बभौ व्याप्याखिलं नभः ॥ १८ ॥
आयान्तं तं निरीक्ष्यैव डमरुध्वनिमादरात् ।
चकार ज्यारवं चापि धनुषो दुःसहं हर ॥ १९ ॥
पूरयामास ककुभः शृङ्‌गनादेन च प्रभुः ।
स्वयं जगर्ज गिरिशस्त्रासयन्नसुरांस्तदा ॥ २० ॥
त्याजितेभमहागर्वैर्महानादैर्वृषेश्वरः ।
पूरयामास सहसा खं गां वसुदिशस्तथा ॥ २१ ॥
महाकालः समुत्पत्य ताडयद्‌ गां तथा नभः ।
कराभ्यां तन्निनादेन क्षिप्ता आसन्पुरा रवाः ॥ २२ ॥
अट्टाट्टहासमशिवं क्षेत्रपालश्चकार ह ।
भैरवोऽपि महानादं स चकार महाहवे ॥ २३ ॥
महाकोलाहलो जातो रणमध्ये भयङ्‌करः ।
वीरशब्दो बभूवाथ गणमध्ये समन्ततः ॥ २४ ॥
सन्त्रेसुर्दानवाःसर्वे तैः शब्दैर्भयदैः खरैः ।
चुकोपातीव तच्छ्रुत्वा दानवेन्द्रो महाबलः ॥ २५ ॥
तिष्ठतिष्ठेति दुष्टात्मन् व्याजहार यदा हरः ।
देवैर्गणैश्च तैः शीघ्रमुक्तं जय जयेति च ॥ २६ ॥
अथागत्य स दम्भस्य तनयःसुप्रतापवान् ।
शक्तिं चिक्षेप रुद्राय ज्वालामालातिभीषणाम् ॥ २७ ॥
वह्निकूटप्रभा यान्ती क्षेत्रपालेन सत्वरम् ।
निरस्तागत्य साजौ वै मुखोत्पन्नमहोल्कया ॥ २८ ॥
पुनः प्रववृते युद्धं शिवदानवयोर्महत् ।
चकम्पे धरणी द्यौश्च सनगाब्धिजलाशया ॥ २९ ॥
दाम्भिमुक्तान् सरान् शम्भुः शरांस्तत्प्रहितान्स च ।
सहस्रशः शरैरुग्रैश्चिच्छेद शतशस्तदा ॥ ३० ॥
ततः शम्भुस्त्रिशूलेन सङ्‌कुद्धस्तं जघान ह ।
तत्प्रहारमसह्याशु कौ पपात स मूर्च्छितः ॥ ३१ ॥
ततः क्षणेन सम्प्राप सञ्ज्ञां स च तदासुरः ।
आजघान शरै रुद्रं तान्सर्वानात्तकार्मुकः ॥ ३२ ॥
बाहूनागयुतं कृत्वा छादयामास शंकरम् ।
चक्रायुतेन सहसा शङ्‌खचूडः प्रतापवान् ॥ ३३ ॥
ततो दुर्गापतिः क्रुद्धो रुद्रो दुर्गार्तिनाशनः ।
तानि चक्राणि चिच्छेद स्वशरैरुत्तमै द्रुतम् ॥ ३४ ॥
ततो वेगेन सहसा गदामादाय दानवः ।
अभ्यधावत वै हन्तुं बहुसेनावृतो हरम् ॥ ३५ ॥
गदां चिच्छेद तस्याश्वापततः सोऽसिना हरः ।
शितधारेण सङ्‌क्रुद्धो दुष्टगर्वापहारकः ॥ ३६ ॥
छिन्नायां स्वगदायां च चुकोपातीव दानवः ।
शूलं जग्राह तेजस्वी परेषां दुःसहं ज्वलत् ॥ ३७ ॥
सुदर्शनं शूलहस्तमायान्तं दानवेश्वरम् ।
स्वत्रिशूलेन विव्याध हृदि तं वेगतो हरः ॥ ३८ ॥
त्रिशूलभिन्नहृदयान्निष्क्रान्तः पुरुषः परः ।
तिष्ठतिष्ठेति चोवाच शङ्‌खचूडस्य वीर्यवान् ॥ ३९ ॥
निष्क्रामतो हि तस्याशु प्रहस्य स्वनवत्ततः ।
चिच्छेद च शिरो भीममसिना सोऽपतद्‌भुवि ॥ ४० ॥
ततः कालीं चखादोग्रं दंष्ट्राक्षुण्णशिरोधरान् ।
असुरांस्तान् बहून् क्रोधात् प्रसार्य स्वमुखं तदा ॥ ४१ ॥
क्षेत्रपालश्चखादान्यान्बहून्दैत्यान्क्रुधाकुलः ।
केचिन्नेशुर्भैरवास्त्रच्छिन्ना भिन्नास्तथापरे ॥ ४२ ॥
वीरभद्रोऽपरान् वीरान् बहून् क्रोधादनाशयत् ।
नन्दीश्वरो जघानान्यान् बहूनमरमर्दकान् ॥ ४३ ॥
एवं बहुगणा वीरास्तदा संनह्य कोपतः ।
व्यनाशयन्बहून्दैत्यानसुरान् देव मर्दकान् ॥ ४४ ॥
इत्थं बहुतरं तत्र तस्य सैन्यं ननाश तत् ।
विद्रुताश्चापरे वीरा बहवो भयकातराः ॥ ४५ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे
युद्धखण्डे शङ्‌खचूडसैन्यवधवर्णनं नाम नवत्रिंशोऽध्यायः ॥ ३९ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP