|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
अष्टत्रिंशोऽध्यायः
शङ्खचूडवधे कालीयुद्धवर्णनम्
सनत्कुमार उवाच
सा च गत्वा हि सङ्ग्रामं सिंहनादं चकार ह । देव्याश्च तेन नादेन मूर्च्छामापुश्च दानवाः ॥ १ ॥ अट्टाट्टहासमशिवं चकार च पुनः पुनः । तदा पपौ च माध्वीकं ननर्त रणमूर्द्धनि ॥ २ ॥ उग्रदंष्ट्रा चोग्रदण्डा कोटवी च पपौ मधु । अन्याश्च देव्यस्तत्राजौ ननृतुर्मधु सम्पपुः ॥ ३ ॥ महान् कोलाहलो जातो गणदेवदले तदा । जहृषुर्बहुगर्जन्तः सर्वे सुरगणादयः ॥ ४ ॥ दृष्ट्वा कालीं शङ्खचूडः शीघ्रमाजौ समाययौ । दानवाश्च भयं प्राप्ता राजा तेभ्योऽभयं ददौ ॥ ५ ॥ काली चिक्षेप वह्निं च प्रलयाग्निशिखोपमम् । राजा जघान तं शीघ्रं वैष्णवाङ्कितलीलया ॥ ६ ॥ नारायणास्त्रं सा देवी चिक्षेप तदुपर्यरम् । वृद्धिं जगाम तच्छस्त्रं दृष्ट्वा वामं च दानवम् ॥ ७ ॥ तं दृष्ट्वा शङ्खचूडश्च प्रलयाग्निशिखोपमम् । पपात दण्डवद्भूमौ प्रणनाम पुनःपुनः ॥ ८ ॥ निवृत्तिं प्राप तच्छ्स्त्रं दृष्ट्वा नम्रं च दानवम् । ब्रह्मास्त्रमथ सा देवी चिक्षेप मन्त्रपूर्वकम् ॥ ९ ॥ तं दृष्ट्वा प्रज्ज्वलन्तं च प्रणम्य भुवि संस्थितः । ब्रह्मास्त्रेण दानवेन्द्रो विनिवारं चकार ह ॥ १० ॥ अथ क्रुद्धो दानवेन्द्रो धनुराकृष्य रंहसा । चिक्षेप दिव्यान्यस्त्राणि देव्यै वै मन्त्रपूर्वकम् ॥ ११ ॥ आहारं समरे चक्रे प्रसार्य मुखमायतम् । जगर्ज साट्टहासं च दानवा भयमाययुः ॥ १२ ॥ काल्यै चिक्षेप शक्तिं स शतयोजनमायताम् । देवी दिव्यास्त्रजालेन शतखण्डं चकार सा ॥ १३ ॥ स च वैष्णवमस्त्रं च चिक्षेप चण्डिकोपरि । माहेश्वरेण काली च विनिवारं चकार सा ॥ १४ ॥ एवं चिरतरं युद्धमन्योऽन्यं सम्बभूव ह । प्रेक्षका अभवन् सर्वे देवाश्च दानवा अपि ॥ १५ ॥ अथ कुद्धा महादेवी काली कालसमा रणे । जग्राह मन्त्रपूतं च शरं पाशुपतं रुषा ॥ १६ ॥ क्षेपात्पूर्वं तन्निषेद्धुं वाग्बभूवाशरीरिणी । न क्षिपास्त्रमिदं देवि शङ्खचूडाय वै रुषा ॥ १७ ॥ मृत्युः पाशुपतान्नास्त्यमोघादपि च चण्डिके । शङ्खचूडस्य वीरस्योपायमन्यं विचारय ॥ १८ ॥ इत्याकर्ण्य भद्रकाली न चिक्षेप तदस्त्रकम् । शतलक्षं दानवानां जघास लीलया क्षुधा ॥ १९ ॥
अत्तुं जगाम वेगेन शङ्खचूडं भयङ्करी । दिव्यास्त्रेण च रौद्रेण वारयामास दानवः ॥ २० ॥ अथ क्रुद्धो दानवेन्द्रः खड्गं चिक्षेप सत्वरम् । ग्रीष्मसूर्योपमं तीक्ष्णधारमत्यन्तभीकरम् ॥ २१ ॥ सा काली तं समालोक्यायान्तं प्रज्वलितं रुषा । प्रसार्य मुखमाहारं चक्रे तस्य च पश्यतः ॥ २२ ॥ दिव्यान्यस्त्राणि चान्यानि चिच्छेद दानवेश्वरः । प्राप्तानि पूर्वतश्चक्रे शतखण्डानि तानि च ॥ २३ ॥ पुनरत्तुं महादेवी वेगतस्तं जगाम ह । सर्वसिद्धेश्वरः श्रीमानन्तर्धानं चकार सः ॥ २४ ॥ वेगेन मुष्टिना काली तमदृष्ट्वा च दानवम् । बभञ्ज च रथं तस्य जघान किल सारथिम् ॥ २५ ॥ अथागत्य द्रुतं मायी चक्रं चिक्षेप वेगतः । भद्रकाल्यै शङ्खचूडः प्रलयाग्निशिखोपमम् ॥ २६ ॥ सा देवी तं तदा चक्रं वामहस्तेन लीलया । जग्राह स्वमुखेनैवाहारं चक्रे रुषा द्रुतम् ॥ २७ ॥ मुष्ट्या जघान तं देवी महाकोपेन वेगतः । बभ्राम दानवेन्द्रोपि क्षणं मूर्च्छामवाप सः ॥ २८ ॥ क्षणेन चेतनां प्राप्य स चोत्तस्थौ प्रतापवान् । न चक्रे बाहु युद्धं च मातृबुद्ध्या तया सह ॥ २९ ॥ गृहीत्वा दानवं देवी भ्रामयित्वा पुनः पुनः । ऊर्ध्वं च प्रापयामास महाकोपेन वेगतः ॥ ३० ॥ उत्पपात च वेगेन शङ्खचूडः प्रतापवान् । निपत्य च समुत्तस्था प्रणम्य भद्रकालिकाम् ॥ ३१ ॥ रत्नेन्द्रसारनिर्माणविमानं सुमनोहरम् । आरुरोह स हृष्टात्मा न भ्रान्तोपि महारणे ॥ ३२ ॥ दानवानां हि क्षतजं सा पपौ कालिका क्षुधा । एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ॥ ३३ ॥ लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना । उद्धतं गुञ्जतां सार्द्धं ततस्त्वं भुङ्क्ष्व चेश्वरि ॥ ३४ ॥ सङ्ग्रामे दानवेन्द्रं च हन्तुं न कुरु मानसम् । अवध्योयं शङ्खचूडस्तव देवीति निश्चयम् ॥ ३५ ॥ तच्छुत्वा वचनं देवी निःसृतं व्योममण्डलात् । दानवानां बहूनां च मांसं च रुधिरं तथा ॥ ३६ ॥ भुक्त्वा पीत्वा भद्रकाली शंकरान्तिकमाययौ । उवाच रणवृत्तान्तं पौर्वापर्येण सक्रमम् ॥ ३७ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे कालीयुद्धवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥ श्रीगौरीशंकरार्पणमस्तु |