|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
सप्तत्रिंशोऽध्यायः
शङ्खचूडवधे ससैन्यशङ्खचूडयुद्धवर्णनम्
सनत्कुमार उवाच
तदा देवगणाः सर्वे दानवैश्च पराजिताः । दुद्रुवुर्भयभीताश्च शस्त्रास्त्रक्षतविग्रहाः ॥ १ ॥ ते परावृत्य विश्वेशं शंकरं शरणं ययुः । त्राहि त्राहीति सर्वेशेत्यूचुर्विह्वलया गिरा ॥ २ ॥ दृष्ट्वा पराजयं तेषां देवादीनां स शंकरः । सभयं वचनं श्रुत्वा कोपमुच्चैश्चकार ह ॥ ३ ॥ निरीक्ष्य स कृपादृष्ट्या देवेभ्यश्चाभयं ददौ । बलं च स्वगणानां वै वर्द्धयामास तेजसा ॥ ४ ॥ शिवाज्ञप्तस्तदा स्कन्दो दानवानां गणैःसह । युयुधे निर्भयःसङ्ख्ये महावीरो हरात्मजः ॥ ५ ॥ कृत्वा क्रोधं वीरशब्दं देवो यस्तारकान्तकः । अक्षौहिणीनां शतकं समरे स जघान ह ॥ ६ ॥ रुधिरं पातयामास काली कमललोचना । तेषां शिरांसि सञ्छिद्य बभक्ष सहसा च सा ॥ ७ ॥ पपौ रक्तानि तेषां च दानवानां समं ततः । युद्धं चकार विविधं सुरदानवभीषणम् ॥ ८ ॥ शतलक्षं गजेन्द्राणां दानवानां तथा रणे। समादायैकहस्तेन मुखे चिक्षेप लीलया ॥ ९ ॥ कबन्धानां सहस्रं च सन्ननर्त रणे बहु । महान् कोलाहलो जातः क्लीबानां च भयङ्करः ॥ १० ॥ पुनः स्कन्दः प्रकुप्योच्चैः शरवर्षाञ्चकार ह । पातयामास क्षयतः कोटिशोऽसुरनायकान् ॥ ११ ॥ दानवाः शरजालेन स्कन्दस्य क्षतविग्रहाः । भीताः प्रदुद्रुवुःसर्वे शेषा मरणतस्तदा ॥ १२ ॥ वृषपर्वा विप्रचित्तिर्दण्डश्चापि विकम्पनः । स्कन्देन युयुधुः सार्द्धं तेन सर्वे क्रमेण च ॥ १३ ॥ महामारी च युयुधे न बभूव पराङ्मुखी । बभूवुस्ते क्षताङ्गाश्च स्कन्दशक्तिप्रपीडिताः ॥ १४ ॥ महामारीस्कन्दयोश्च विजयोभूत्तदा मुने । नेदुर्दुन्दुभयः स्वर्गे पुष्पवृष्टिः पपात ह ॥ १५ ॥ स्कन्दस्य समरं दृष्ट्वा महारौद्रं तमद्भुतम् । दानवानां क्षयकरं यथा प्रकृतिकल्पकम् ॥ १६ ॥ महामारीकृतं तच्चोपद्रवं क्षयहेतुकम् । चुकोपातीव सहसा सनद्धोऽभूत्स्वयं तदा ॥ १७ ॥ वरं विमानमारुह्य नानाशस्त्रास्त्रसंयुतम् । अभयं सर्ववीराणां नानारत्नपरिच्छदम् ॥ १८ ॥ महावीरैः शङ्खचूडो जगाम रथमध्यतः । धनुर्विकृष्य कर्णान्तं चकार शरवर्षणम् ॥ १९ ॥ तस्य सा शरवृष्टिश्च दुर्निवार्य्या भयङ्करी । महाघोरान्धकारश्च वधस्थाने बभूव ह ॥ २० ॥ देवाः प्रदुद्रुवुः सर्वे येऽन्ये नन्दीश्वरादयः । एक एव कार्त्तिकेयस्तस्थौ समरमूर्द्धनि ॥ २१ ॥ पर्वतानां च सर्पाणां नागानां शाखिनां तथा । राजा चकार वृष्टिं च दुर्निवार्या भयङ्करीम् ॥ २२ ॥ तद्दृष्ट्या प्रहतः स्कन्दो बभूव शिवनन्दनः । नीहारेण च सान्द्रेण संवृतौ भास्करौ यथा ॥ २३ ॥
नानाविधां स्वमायां च चकार मयदर्शिताम् । तां नाविदन् सुराः केपि गणाश्च मुनिसत्तम ॥ २४ ॥ तदैव शङ्खचूडश्च महामायी महाबलः । शरेणैकेन दिव्येन धनुश्चिच्छेद तस्य वै ॥ २५ ॥ बभञ्ज तद्रथं दिव्यं चिच्छेद रथरक्षकान् । मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः ॥ २६ ॥ शक्तिं चिक्षेप सूर्याभां तस्य वक्षसि घातिनीम् । मूर्च्छामवाप सहसा तत्प्रहारेण स क्षणम् ॥ २७ ॥ पुनश्च चेतनां प्राप्य कार्तिकः परवीरहा । रत्नेन्द्रसारनिर्माणमारुरोह स्ववाहनम् ॥ २८ ॥ स्मृत्वा पादौ महेशस्य साम्बिकस्य च षण्मुखः । शस्त्रास्त्राणि गृहीत्वैव चकार रणमुल्बणम् ॥ २९ ॥ सर्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा । सर्वांश्चिच्छेद कोपेन दिव्यास्त्रेण शिवात्मजः ॥ ३० ॥ वह्निं निवारयामास पार्जन्येन शरेण ह । रथं धनुश्च चिच्छेद शङ्खचूडस्य लीलया ॥ ३१ ॥ सन्नाहं सर्ववाहांश्च किरीटं मुकुटोज्ज्वलम् । वीरशब्दं चकारासौ जगर्ज च पुनः पुनः ॥ ३२ ॥ चिक्षेप शक्तिं सूर्याभां दानवेन्द्रस्य वक्षसि । तत्प्रहारेण सम्प्राप मूर्च्छां दीर्घतमेन च ॥ ३३ ॥ मुहूर्तमात्रं तत्क्लेशं विनीय स महाबलः । चेतनां प्राप्य चोत्तस्थौ जगर्ज हरिवर्च सः ॥ ३४ ॥ शक्त्या जघान तं चापि कार्तिकेयं महाबलम् । स पपात महीपृष्ठेऽमोघां कुर्वन् विधिप्रदाम् ॥ ३५ ॥ काली गृहीत्वा तं क्रोडे निनाय शिवसन्निधौ । ज्ञानेन तं शिवश्चापि जीवयामास लीलया ॥ ३६ ॥ ददौ बलमनन्तं च समुत्तस्थौ प्रतापवान् । गमनाय मतिं चक्रे पुनस्तत्र शिवात्मजः ॥ ३७ ॥ एतस्मिन्नन्तरे वीरो वीरभद्रो महाबलः । शङ्खचूडेन युयुधे समरे बलशालिना ॥ ३८ ॥ ववर्ष समरेऽस्त्राणि यानियानि च दानवः । चिच्छेद लीलया वीरस्तानितानि निजैः शरैः ॥ ३९ ॥ दिव्यान्यस्त्राणि शतशो मुमुचे दानवेश्वरः । तानि चिच्छेद तं बाणैर्वीरभद्रः प्रतापवान् ॥ ४० ॥ अथातीव चुकोपोच्चैः शङ्खचूडः प्रतापवान् । शक्त्या जघानोरसि तं स चकम्पे पपात कौ ॥ ४१ ॥ क्षणेन चेतनां प्राप्य समुत्तस्थौ गणेश्वरः । जग्राह च धनुर्भूयो वीरभद्रो गणाग्रणीः ॥ ४२ ॥ एतस्मिन्नन्तरे काली जगाम समरं पुनः । भक्षितुं दानवान् स्वांश्च रक्षितुं कार्तिकेच्छया ॥ ४३ ॥ वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः । सर्वे देवाश्च गन्धर्वा यक्षा रक्षांसि पन्नगाः ॥ ४४ ॥ वाद्यभाण्डाश्च बहुशः शतशो मधुवाहकाः । पुनः समुद्यताश्चासन् वीरा उभयतोऽखिलाः ॥ ४५ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे ससैन्यशङ्खचूडयुद्धवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ श्रीगौरीशंकरार्पणमस्तु |