॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

षट्स्त्रिंशोऽध्यायः


शङ्‌खचूडवधे परस्परयुद्धवर्णनम्


सनत्कुमार उवाच
स दूतस्तत्र गत्वा च शिववाक्यं जगाद ह ।
सविस्तरं यथार्थं च निश्चयं तस्य तत्त्वतः ॥ १ ॥
तच्छुत्वा शङ्‌खचूडोऽसौ दानवेन्द्रः प्रतापवान् ।
अङ्‌गीचकार सुप्रीत्या रणमेव स दानवः ॥ २ ॥
समारुरोह यानं च सहामात्यैश्च सत्वरः ।
आदिदेश स्वसैन्यं च युद्धार्थं शंकरेण च ॥ ३ ॥
शिवःस्वसैन्यं देवांश्च प्रेरयामास सत्वरः ।
स्वयमप्यखिलेशोपि सन्नद्धोभूच्च लीलया ॥ ४ ॥
युद्धारम्भो बभूवाशु नेदुर्वाद्यानि भूरिशः ।
कोलाहलश्च सञ्जातो वीरशब्दस्तथैव च ॥ ५ ॥
देवदानवयोर्युद्धं परस्परमभून्मुने ।
धर्मतो युयुधे तत्र देवदानवयोर्गणः ॥ ६ ॥
स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा ।
भास्करो युयुधे विप्रचित्तिना सह धर्मतः ॥ ७ ॥
दम्भेन सह विष्णुश्च चकार परमं रणम् ।
कालासुरेण कालश्च गोकर्णेन हुताशनः ॥ ८ ॥
कुबेरः कालकेयेन विश्वकर्मा मयेन च ।
भयङ्‌करेण मृत्युश्च संहारेण यमस्तथा ॥ ९ ॥
कालम्बिकेन वरुणश्चञ्चलेन समीरणः ।
बुधश्च घटपृष्ठेन रक्ताक्षेण शनैश्चरः ॥ १० ॥
जयन्तो रत्नसारेण वसवो वर्चसां गणैः ।
अश्विनौ दीप्तिमद्‌भ्यां च धूम्रेण नलकूबरः ॥ ११ ॥
धुरन्धरेण धर्मश्च गणकाक्षेण मंगलः ।
शोभाकरेण वैश्वानः पिपिटेन च मन्मथः ॥ १२ ॥
गोकामुखेन चूर्णेन खड्गनाम्नाऽसुरेण च ।
धूम्रेण संहलेनापि विश्वेन च प्रतापिना ॥ १३ ॥
द्वादशाऽर्का पलाशेन युयुधुर्धर्मतः परे ।
असुरैरमराः सार्द्धं शिवसाहाय्यशालिनः ॥ १४ ॥
एकादश महारुद्राश्चैकादशभयङ्‌करैः ।
असुरैर्युयुधुर्वीरैर्मैहाबलपराक्रमैः ॥ १५ ॥
महामणिश्च युयुधे चोग्रचण्डादिभिः सह ।
राहुणा सह चन्द्रश्च जीवः शुक्रेण धर्मतः ॥ १६ ॥
नन्दीश्वरादयः सर्वे दानवप्रवरैः सह ।
युयुधुश्च महायुद्धे नोक्ता विस्तरतः पृथक् ॥ १७ ॥
वटमूले तदा शम्भुस्तस्थौ काल्याः सुतेन च ।
सर्वे च युयुधुःसैन्यसमूहाः सततं मुने ॥ १८ ॥
रत्नसिंहासने रम्ये कोटिदानवसंयुतः ।
उवास शङ्‌खचूडश्च रत्नभूषणभूषितः ॥ १९ ॥
महायुद्धो बभूवाथ देवासुरविमर्दनः ।
नानायुधानि दिव्यानि चलन्ति स्म महामृधे ॥ २० ॥
गदर्ष्टिपट्टिशाश्चक्रभुशुण्डिप्रासमुद्‌गराः ।
निस्त्रिंशभल्लपरिघाः शक्त्युन्मुखपरश्वधाः ॥ २१ ॥
शरतोमरखड्गाश्च शतघ्न्यश्च सहस्रशः ।
भिन्दिपालादयश्चान्ये वीरहस्तेषु शोभिताः ॥ २२ ॥
शिरांसि चिच्छिदुश्चैभिर्वीरास्तत्र महोत्सवाः ।
वीराणामुभयोश्चैव सैन्ययोर्गर्जतो रणे ॥ २३ ॥
गजास्तुरङ्‌गा बहवः स्यन्दनाश्च पदातयः ।
सारोहवाहा विविधास्तत्रासन् सुविखण्डिताः ॥ २४ ॥
निकृत्तबाहूरुकरकटिकर्णयुगाङ्‌घ्रयः ।
सञ्छिन्नध्वजबाणासितनुत्र वरभूषणाः ॥ २५ ॥
समुद्धतकिरीटैश्च शिरोभिः सह कुण्डलैः ।
महाभुजैः साभरणैःसञ्छिन्नैः सायुधैस्तथा ।
अङ्‌गैरन्यैश्च सहसा पटलैर्वा ससारघैः ॥ २७ ॥
मृधे भटाः प्रधावन्तः कबन्धान् स्वशिरोक्षिभिः ।
पश्यन्तस्तत्र चोत्पेतुरुद्यतायुधसद्‌भुजैः ॥ २८ ॥
वल्गन्तोऽतितरां वीरा युयुधुश्च परस्परम् ।
शस्त्रास्त्रैर्विविधैस्तत्र महाबलपराक्रमाः ॥ २९ ॥
केचित्स्वर्णमुखैर्बाणैर्विनिहत्य भटान्मृधे ।
व्यनदन् वीरसन्नादं सतोया इव तोयदाः ॥ ३० ॥
सर्वतः शरकूटेन वीरः सरथसारथिम् ।
वीरं सञ्छादयामास प्रावृट्सूर्यमिवाम्बुदः ॥ ३१ ॥
अन्योन्यमभिसंसृत्य युयुधुर्द्वन्द्वयोधिनः ।
आह्वयन्तो विशन्तोऽग्रे क्षिपन्तो मर्मभिर्मिथः ॥ ३२ ॥
सर्वतो वीरसङ्‌घाश्च नानाबाहुध्वजायुधाः ।
व्यदृश्यन्त महासङ्‌ख्ये कुर्वन्तः सिंहसंरवम् ॥ ३३ ॥
महारवान् स्वशङ्‌खांश्च विदध्मुर्वै पृथक् पृथक् ।
वल्गनं चक्रिरे तत्र महावीराः प्रहर्षिताः ॥ ३४ ॥
एवं चिरतरं कालं देवदानवयोर्महत् ।
बभूव युद्धं विकटं करालं वीरहर्षदम् ॥ ३५ ॥
महाप्रभोश्च लीलेयं शंकरस्य परात्मनः ।
यया समीहितं सर्वं सदेवासुरमानुषम् ॥ ३६ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे
युद्धखण्डे शङ्‌खचूडवधे परस्परयुद्धवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP