॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

पञ्चत्रिंशोऽध्यायः


शङ्‌खचूडयात्रावर्णनम्


सनत्कुमार उवाच
तत्र स्थित्वा दानवेन्द्रो महान्तं दानवेश्वरम् ।
दूतं कृत्वा महाविज्ञं प्रेषयामास शंकरम् ॥ १ ॥
स तत्र गत्वा दूतश्च चन्द्रभालं ददर्श ह ।
वटमूले समासीनं सूर्यकोटिसमप्रभम् ॥ २ ॥
कृत्वा योगासनं दृष्ट्या मुद्रायुक्तं च सस्मितम् ।
शुद्धस्फटिकसङ्‌काशं ज्वलन्तं ब्रह्मतेजस ॥ ३ ॥
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरावृतम् ।
भक्तमृत्युहरं शान्तं गौरीकान्तं त्रिलोचनम् ॥ ४ ॥
तपसां फलदातारं कर्त्तारं सर्वसम्पदाम् ।
आशुतोषं प्रसन्नास्यं भक्तानुग्रहकारकम् ॥ ५ ॥
विश्वनाथं विश्वबीजं विश्वरूपं च विश्वजम् ।
विश्वम्भरं विश्वकरं विश्वसंहारकारणम् ॥ ६ ॥
कारणं कारणानां च नरकार्णवतारणम् ।
ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् ॥ ७ ॥
अवरुह्य रथाद् दूतस्तं दृष्ट्‍वा दानवेश्वरः ।
शंकरं सकुमारं च शिरसा प्रणनाम सः ॥ ८ ॥
वामतो भद्रकाली च स्कन्दं तत्पुरतः स्थितम् ।
लोकाशिषं ददौ तस्मै काली स्कन्दश्च शंकरः ॥ ९ ॥
अथासौ शङ्‌खचूडस्य दूतः परमशास्त्रवित् ।
उवाच शंकरं नत्वा करौ बद्ध्वा शुभं वचः ॥ १० ॥
दूत उवाच
शङ्‌खचूडस्य दूतोऽहं त्वत्सकाशमिहागतः ।
वर्तते ते किमिच्छाद्य तत्त्वं ब्रूहि महेश्वर ॥ ११ ॥
सनत्कुमार उवाच
इति श्रुत्वा च वचनं शङ्‌खचूडस्य शंकरः ।
प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह ॥ १२ ॥
महादेव उवाच
शृणु दूत महाप्राज्ञ वचो मम सुखावहम् ।
कथनीयमिदं तस्मै निर्विवादं विचार्य च ॥ १३ ॥
विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ।
मरीचिस्तस्य पुत्रश्च कश्यपस्तत्सुतः स्मृतः ॥ १४ ॥
दक्षः प्रीत्या ददौ तस्मै निजकन्यास्त्रयोदश ।
तास्वेका च दनुः साध्वी तत्सौभाग्यविवर्द्धिनी ॥ १५ ॥
चत्वारस्ते दनोः पुत्रा दानवास्तेजसोल्बणाः ।
तेष्वेको विप्रचित्तिस्तु महाबलपराक्रमः ॥ १६ ॥
तत्पुत्रो धार्मिको दम्भो दानवेन्द्रो महामतिः ।
तस्य त्वं तनयः श्रेष्ठो धर्मात्मा दानवेश्वरः ॥ १७ ॥
पुरा त्वं पाषर्दो गोपो गोपेष्वेव च धार्मिकः ।
अधुना राधिकाशापाज्जातस्त्वं दानवेश्वरः ॥ १८ ॥
दानवीं योनिमायातस्तत्त्वतो न हि दानवः ।
निजवृतं पुरा ज्ञात्वा देववैरं त्यजाधुना ॥ १९ ॥
द्रोहं न कुरु तैः सार्द्धं स्वपदं भुङ्‌क्ष्व सादरम् ।
नाधिकं सविकारं च कुरु राज्यं विचार्य च ॥ २० ॥
देहि राज्यं च देवानां मत्प्रीतिं रक्ष दानव ।
निजराज्ये सुखं तिष्ठ तिष्ठन्तु स्वपदे सुराः ॥ २१ ॥
अलं भूतविरोधेन देवद्रोहेण किं पुनः ।
कुलीनाः शुद्धकर्माणः सर्वे कश्यपवंशजाः ॥ २२ ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
ज्ञातिद्रोहजपापस्य कलां नार्हन्ति षोडशीम् ॥ २३ ॥
सनत्कुमार उवाच
इत्यादिबहुवार्त्तां च श्रुतिस्मृतिपरां शुभाम् ।
प्रोवाच शंकरः तस्मै बोधयन् ज्ञानमुत्तमम् ॥ २४ ॥
शिक्षितः शङ्‌खचूडेन स दूतस्तर्कवित्तमः ।
उवाच वचनं नम्रो भवितव्यविमोहितः ॥ २५ ॥
दूत उवाच
त्वया यत्कथितं देव नान्यथा तत्तथा वचः ।
तथ्यं किञ्चिद्यथार्थं च श्रूयतां मे निवेदनम् ॥ २६ ॥
ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना च यत् ।
तत्किमीशासुराणां च न सुराणां वद प्रभो ॥ २७ ॥
सर्वेषामिति चेत्तद्वै तदा वच्मि विचार्य च ।
निर्णयं ब्रूहि तत्राद्य कुरु सन्देहभञ्जनम् ॥ २८ ॥
मधुकैटभयोर्दैत्यवरयोः प्रलयार्णवे ।
शिरश्छेदं चकारासौ कस्माच्चक्री महेश्वर ॥ २९ ॥
त्रिपुरैःसह संयुद्धं भस्मत्वकरणं कुतः ।
भवाञ्चकार गिरिश सुरपक्षीति विश्रुतम् ॥ ३० ॥
गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः ।
सुतलादि समुद्धर्तुं तद्‌द्वारे च गदाधरः ॥ ३१ ॥
सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ।
शुम्भादयोऽसुराश्चैव कथं देवैर्निपातिताः ॥ ३२ ॥
पुरा समुद्रमथने पीयूषं भक्षितं सुरैः ।
क्लेशभाजो वयं तत्र ते सर्वे फलभोगिनः ॥ ३३ ॥
क्रीडाभाण्डमिदं विश्वं कालस्य परमात्मनः ।
स ददाति यदा यस्मै तस्यैश्वर्यं भवेत्तदा ॥ ३४ ॥
देवदानवयोर्वैरं शश्वनैमित्तिकं सदा ।
पराजयो जयस्तेषां कालाधीनः क्रमेण च ॥ ३५ ॥
तवानयोर्विरोधे च गमनं निष्फलं भवेत् ।
समसम्बन्धिनां तद्वै रोचते नेश्वरस्य ते ॥ ३६ ॥
सुरासुराणां सर्वेषामीश्वरस्य महात्मनः ।
इयं ते रहिता लज्जा स्पर्द्धास्माभिःसहाधुना ॥ ३७ ॥
यतोऽधिका चैव कीर्तिर्हानिश्चैव पराजये ।
तवैतद्विपरीतं च मनसा संविचार्य ताम् ॥ ३८ ॥
सनत्कुमार उवाच
इत्येतद्वचनं श्रुत्वा सम्प्रहस्य त्रिलोचनः ।
यथोचितं च मधुरमुवाच दानवेश्वरम् ॥ ३९ ॥
महेश उवाच
वयं भक्तपराधीना न स्वतन्त्राः कदापि हि ।
तदिच्छया तत्कर्माणो न कस्यापि च पक्षिणः ॥ ४० ॥
पुरा विधिप्रार्थनया युद्धमादौ हरेरपि ।
मधुकैटभयोर्देत्यवरयोः प्रलयार्णवे ॥ ४१ ॥
देवप्रार्थनया तेन हिरण्यकशिपोः पुरा ।
प्रह्रादार्थं वधोऽकारि भक्तानां हितकारिणा ॥ ४२ ॥
त्रिपुरैःसह संयुद्धं भस्मत्वकरणं ततः ।
देवप्रार्थनयाकारि मयापि च पुरा श्रुतम् ॥ ४३ ॥
सर्वेश्वर्याः सर्वमातुर्देवप्रार्थनया पुरा ।
आसीच्छुम्भादिभिर्युद्धं वधस्तेषां तया कृतः ॥ ४४ ॥
अद्यापि त्रिदशाः सर्वे ब्रह्माणं शरणं ययुः ।
स सदेवो हरिर्मां च देवः शरणमागतः ॥ ४५ ॥
हरिब्रह्मादिकानां च प्रार्थनावशतोऽप्यहम् ।
सुराणामीश्वरो दूत युद्धार्थमगमं खलु ॥ ४६ ॥
पार्षदप्रवरस्त्वं हि कृष्णस्य च महात्मनः ।
ये ये हताश्च दैतेया नहि केपि त्वया समाः ॥ ४७ ॥
का लज्जा महती राजन् मम युद्धे त्वया सह ।
देवकार्यार्थमीशोऽहं विनयेन च प्रेषितः ॥ ४८ ॥
गच्छ त्वं शङ्‌खचूडं वै कथनीयं च मे वचः ।
स च युक्तं करोत्वत्र सुरकार्यं करोम्यहम् ॥ ४९ ॥
इत्युक्त्वा शंकरस्तत्र विरराम महेश्वरः ।
उत्तस्थौ शङ्‌खचूडस्य दूतोऽगच्छत्तदन्तिकम् ॥ ५० ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे
युद्धखण्डे शङ्‌खचूडवधे शिवदूतसंवादो नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP