|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
एकचत्वारिंशोऽध्यायः
शङ्खचूडवधोपाख्यानम्
व्यास उवाच
नारायणश्च भगवान् वीर्याधानं चकार ह । तुलस्याः केन यत्नेन योनौ तद्वक्तुमर्हसि ॥ १ ॥ सनत्कुमार उवाच नारायणो हि देवानां कार्यकर्ता सतां गतिः । शङ्खचूडस्य रूपेण रेमे तद्रमया सह ॥ २ ॥ तदेव शृणु विष्णोश्च चरितं प्रमुदावहम् । शिवशासनकर्तुश्च मातुश्च जगतां हरेः ॥ ३ ॥ रणमध्ये व्योमवचः श्रुत्वा देवेन शम्भुना । प्रेरितः शङ्खचूडस्य गृहीत्वा कवचं परम् ॥ ४ ॥ विप्ररूपेण त्वरितं मायया निजया हरिः । जगाम शङ्खचूडस्य रूपेण तुलसीगृहम् ॥ ५ ॥ दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ । जयशब्दं च तत्रैव बोधयामास सुन्दरीम् ॥ ६ ॥ तच्छ्रुत्वा चैव सा साध्वी परमानन्दसंयुता । राजमार्गं गवाक्षेण ददर्श परमादरात् ॥ ७ ॥ ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मंगलम् । द्रुतं चकार शृङ्गारं ज्ञात्वाऽऽयातं निजं पतिम् ॥ ८ ॥ अवरुह्य रथाद्विष्णुस्तद्देव्या भवनं ययौ । शङ्खचूडस्वरूपः स मायावी देवकार्यकृत् ॥ ९ ॥ दृष्ट्वा तं च पुरः प्राप्तं स्वकान्तं सा मुदान्विता । तत्पादौ क्षालयामास ननाम च रुरोद च ॥ १० ॥ रत्नसिंहासने रम्ये वासयामास मंगलम् । ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥ ११ ॥ अद्य मे सफलं जन्म जीवनं सम्बभूव ह । रणे गतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे ॥ १२ ॥ इत्युक्त्वा सकटाक्षं सा निरीक्ष्य सस्मितं मुदा । पप्रच्छ रणवृत्तान्तं कान्तं मधुरया गिरा ॥ १३ ॥ तुलस्युवाच असङ्ख्यविश्वसंहर्ता स देवप्रवरः प्रभुः । यस्याज्ञावर्त्तिनो देवा विष्णुब्रह्मादयः सदा ॥ १४ ॥ त्रिदेवजनकः सोऽत्र त्रिगुणात्मा च निर्गुणः । भक्तेच्छया च सगुणो हरिब्रह्मप्रवर्तकः ॥ १५ ॥ कुबेरस्य प्रार्थनया गुणरूपधरो हरः । कैलासवासी गणपः परब्रह्म सतां गतिः ॥ १६ ॥ यस्यैकपलमात्रेण कोटिब्रह्माण्डसङ्क्षयः । विष्णुब्रह्मादयोऽतीता बहवः क्षणमात्रतः ॥ १७ ॥ कर्तुं सार्द्धं च तेनैव समरं त्वं गतः प्रभो । कथं बभूव सङ्ग्रामस्तेन देवसहायिना ॥ १८ ॥ कुशली त्वमिहायातस्तं जित्वा परमेश्वरम् । कथं बभूव विजयस्तव ब्रूहि तदेव मे ॥ १९ ॥ श्रुत्वेत्थं तुलसीवाक्यं स विहस्य रमापतिः । शङ्खचूडरूपधरस्तामुवाचामृतं वचः ॥ २० ॥ भगवानुवाच यदाहं रणभूमौ च जगाम समरप्रियः । कोलाहलो महान् जातः प्रवृत्तोऽभून्महारणः ॥ २१ ॥ देवदानवयोर्युद्धं सम्बभूव जयैषिणोः । दैत्याः पराजितास्तत्र निर्जरैर्बलगर्वितैः ॥ २२ ॥ तदाहं समरं तत्राकार्षं देवैर्बलोत्कटैः । पराजिताश्च ते देवाः शंकरं शरणं ययुः ॥ २३ ॥ रुद्रोऽपि तत्सहायार्थमाजगाम रणं प्रति । तेनाहं वै चिरं कालमयौत्सं बलदर्पितः ॥ २४ ॥ आवयोः समरः कान्ते पूर्णमब्दं बभूव ह । नाशो बभूव सर्वेषामसुराणां च कामिनि ॥ २५ ॥ प्रीतिं च कारयामास ब्रह्मा च स्वयमावयोः । देवानामधिकाराश्च प्रदत्ता ब्रह्मशासनात् ॥ २६ ॥ मयागतं स्वभवनं शिवलोकं शिवो गतः । सर्वस्वास्थ्यमतीवाप दूरीभूतो ह्युपद्रवः ॥ २७ ॥ सनत्कुमार उवाच इत्युक्त्वा जगतां नाथः शयनं च चकार ह । रेमे रमापतिस्तत्र रमया स तया मुदा ॥ २८ ॥ सा साध्वी सुखसम्भावाकर्षणस्य व्यतिक्रमात् । सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा ॥ २९ ॥ तुलस्युवाच को वा त्वं वद मामाशु भुक्ताहं मायया त्वया । दूरीकृतं यत्सतीत्वमथ त्वां वै शपाम्यहम् ॥ ३० ॥ सनत्कुमार उवाच तुलसीवचनं श्रुत्वा हरिः शापभयेन च । दधार लीलया ब्रह्मन्स्वमूर्तिं सुमनोहराम् ॥ ३१ ॥ तद्दृष्ट्वा तुलसी रूपं ज्ञात्वा विष्णुं तु चिह्नतः । पातिव्रत्यपरित्यागात् क्रुद्धा सा तमुवाच ह ॥ ३२ ॥
तुलस्युवाच हे विष्णो ते दया नास्ति पाषाणसदृशं मनः । पतिधर्मस्य भङ्गेन मम स्वामी हतः खलु ॥ ३३ ॥ पाषाणसदृशस्त्वं च दयाहीनो यतः खलः । तस्मात्पाषाणरूपस्त्वं मच्छापेन भवाधुना ॥ ३४ ॥ ये वदन्ति दयासिन्धुं त्वां भ्रान्तास्ते न संशयः । भक्तो विनापराधेन परार्थे च कथं हतः ॥ ३५ ॥ सनत्कुमार उवाच इत्युक्त्वा तुलसी सा वै शङ्खचूडप्रिया सती । भृशं रुरोद शोकार्ता विललाप भृशं मुहुः ॥ ३६ ॥ ततस्तां रुदतीं दृष्ट्वा स विष्णुः परमेश्वरः । सस्मार शंकरं देवं येन संमोहितं जगत् ॥ ३७ ॥ ततः प्रादुर्बभूवाथ शंकरो भक्तवत्सलः । हरिणा प्रणतश्चासीत्संनुतो विनयेन सः ॥ ३८ ॥ शोकाकुलं हरिं दृष्ट्वा विलपन्तीं च तत्प्रियाम् । नयेन बोधयामास तं तां कृपणवत्सलाम् ॥ ३९ ॥ शंकर उवाच मा रोदीस्तुलसि त्वं हि भुङ्क्ते कर्मफलं जनः । सुखदुःखदो न कोप्यस्ति संसारे कर्मसागरे ॥ ४० ॥ प्रस्तुतं शृणु निर्दुःखं शृणोति सुमना हरिः । द्वयोः सुखकरं यत्तद् ब्रवीमि सुखहेतवे ॥ ४१ ॥ तपस्त्वया कृतं भद्रे तस्यैव तपसः फलम् । तदन्यथा कथं स्याद्वै जातं त्वयि तथा च तत् ॥ ४२ ॥ इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च । रमस्व हरिणा नित्यं रमया सदृशी भव ॥ ४३ ॥ तवेयं तनुरुत्सृष्टा नदीरूपा भवेदिह । भारते पुण्यरूपा सा गण्डकीति च विश्रुता ॥ ४४ ॥ कियत्कालं महादेवि देवपूजनसाधने । प्रधानरूपा तुलसी भविष्यति वरेण मे ॥ ४५ ॥ स्वर्गं मर्त्ये च पाताले तिष्ठ त्वं हरिसन्निधौ । भव त्वं तुलसीवृक्षो वरा पुष्पेषु सुन्दरि ॥ ४६ ॥ वृक्षाधिष्ठातृदेवी त्वं वैकुण्ठे दिव्यरूपिणी । सार्द्धं रहसि हरिणा नित्यं क्रीडां करिष्यसि ॥ ४७ ॥ नद्यधिष्ठातृदेवी या भारते बहु पुण्यदा । लवणोदस्य पत्नी सा हर्यंशस्य भविष्यसि ॥ ४८ ॥ हरिर्वै शैलरूपी च गण्डकी तीरसंनिधौ । सङ्करिष्यत्यधिष्ठानं भारते तव शापतः ॥ ४९ ॥ तत्र कोट्यश्च कीटाश्च तीक्ष्णदंष्ट्रा भयङ्कराः । तच्छित्त्वा कुहरे चक्रं करिष्यन्ति तदीयकम् ॥ ५० ॥ शालग्रामशिला सा हि तद्भेदादतिपुण्यदा । लक्ष्मीनारायणाख्यादिश्चक्रभेदाद्भविष्यति ॥ ५१ ॥ शालग्रामशिला विष्णो तुलस्यास्तव सङ्गमः । सदा सादृश्यरूपा या बहुपुण्यविवर्द्धिनी ॥ ५२ ॥ तुलसीपत्रविच्छेदं शालग्रामे करोति यः । तस्य जन्मान्तरे भद्रे स्त्रीविच्छेदो भविष्यति ॥ ५३ ॥ तुलसीपत्रविच्छेदं शङ्खं हित्वा करोति यः । भार्याहीनो भवेत्सोपि रोगी स्यात्सप्तजन्मसु ॥ ५४ ॥ शालग्रामश्च तुलसी शङ्खं चैकत्र एव हि । यो रक्षति महाज्ञानी स भवेच्छ्रीहरिप्रियः ॥ ५५ ॥ त्वं प्रियः शङ्खचूडस्य चैकमन्वन्तरावधि । शङ्खेन सार्द्धं त्वद्भेदः केवलं दुःखदस्तव ॥ ५६ ॥ सनत्कुमार उवाच इत्युक्त्वा शंकरस्तत्र माहात्म्यमूचिवांस्तदा । शालग्रामशिलायाश्च तुलस्या बहुपुण्यदम् ॥ ५७ ॥ ततश्चान्तर्हितो भूत्वा मोदयित्वा हरिं च ताम् । जगाम स्वालयं शम्भुः शर्मदो हि सदा सताम् ॥ ५८ ॥ इति श्रुत्वा वचः शम्भोः प्रसन्ना तु तुलस्यभूत् । तद्देहं च परित्यज्य दिव्यरूपा बभूव ह ॥ ५९ ॥ प्रजगाम तया सार्द्धं वैकुण्ठं कमलापतिः । सद्यस्तद्देहजाता च बभूव गण्डकी नदी ॥ ६० ॥ शैलोभूदच्युतः सोऽपि तत्तीरे पुण्यदो नृणाम् । कुर्वन्ति तत्र कीटाश्च छिद्रं बहुविधं मुने ॥ ६१ ॥ जले पतन्ति यास्तत्र शिलास्तास्त्वतिपुण्यदाः । स्थलस्था पिङ्गला ज्ञेयाश्चोपतापाय चैव हि ॥ ६२ ॥ इत्येवं कथितं सर्वं तव प्रश्नानुसारतः । चरितं पुण्यदं शम्भोः सर्वकामप्रदं नृणाम् ॥ ६३ ॥ आख्यानमिदमाख्यातं विष्णुमाहात्म्यमिश्रितम् । भुक्तिमुक्तिप्रदं पुण्यं किं भूयः श्रोतुमिच्छसि ॥ ६४ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडव धोपाख्याने तुलसीशापवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥ श्रीगौरीशंकरार्पणमस्तु |