॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

एकत्रिंशोऽध्यायः


शङ्‌खचूडवधे शिवोपदेशः


सनत्कुमार उवाच
अथाकर्ण्य वचः शम्भुर्हरिविध्योः सुदीनयोः ।
उवाच विहसन्वाण्या मेघनादगभीरया ॥ १ ॥
शिव उवाच
हे हरे वत्स हे ब्रह्मंस्त्यजतं सर्वशो भयम् ।
शङ्‌खचूडोद्‌भवं भद्रं सम्भविष्यत्यसंशयम् ॥ २ ॥
शङ्‌खचूडस्य वृत्तान्तं सर्वं जानामि तत्त्वतः ।
कृष्णभक्तस्य गोपस्य सुदाम्नश्च पुरा प्रभो ॥ ३ ॥
मदाज्ञया हृषीकेशो कृष्णरूपं विधाय च ।
गोशालायां स्थितो रम्ये गोलोके मदधिष्ठिते ॥ ४ ॥
स्वतन्त्रोहमिति स्वं स मोहं मत्वा गतः पुरा ।
क्रीडाःसमकरोद्‌बह्वीः स्वैरवर्तीव मोहितः ॥ ५ ॥
तं दृष्ट्‍वा मोहमत्युग्रं तस्याहं मायया स्वया ।
तेषां संहृत्य सद्‌बुद्धिं शापं दापितवान् किल ॥ ६ ॥
इत्थं कृत्वा स्वलीलां तां मायां संहृतवानहम् ।
ज्ञानयुक्तास्तदा ते तु मुक्तमोहाः सुबुद्धयः ॥ ७ ॥
समीपमागतास्ते मे दीनीभूय प्रणम्य माम् ।
अकुर्वन्सुनुतिं भक्त्या करौ बद्ध्वा विनम्रकाः ॥ ८ ॥
वृत्तान्तमवदन्सर्वं लज्जाकुलितमानसाः ।
ऊचुर्मत्पुरतो दीना रक्षरक्षेति वै गिरः ॥ ९ ॥
तदा त्वहं भवस्तेषां सन्तुष्टः प्रोक्तवान् वचः ।
भयं त्यजत हे कृष्ण यूयं सर्वे मदाज्ञया ॥ १० ॥
रक्षकोऽहं सदा प्रीत्या सुभद्रं वो भविष्यति ।
मदिच्छयाऽखिलं जातमिदं सर्वं न संशयः ॥ ११ ॥
स्वस्थानं गच्छ त्वं सार्द्धं राधया पार्षदेन च ।
दानवस्तु भवेत्सोऽयं भारतेऽत्र न संशयः ॥ १२ ॥
शापोद्धारं करिष्येऽहं युवयोः समये खलु ।
मदुक्तमिति सन्धार्य शिरसा राधया सह ॥ १३ ॥
श्रीकृष्णोऽमोददत्यन्तं स्वस्थानमगमत्सुधीः ।
न्यष्ठातां सभयं तत्र मदाराधनतत्परौ ॥ १४ ॥
मत्वाखिलं मदधीनमस्वतन्त्रं निजं च वै ।
स सुदामाऽभवद्‌राधाशापतो दानवेश्वरः ॥ १५ ॥
शङ्खचूडाभिधो देवद्रोही धर्मविचक्षणः ।
क्लिश्नाति सुबलात्कृत्स्नं सदा देवगणं कुधीः ॥ १६ ॥
मन्मायामोहितःसोतिदुष्टमन्त्रिसहायवान् ।
तद्‌भयं त्यजताश्वेव मयि शास्तरि वै सति ॥ १७ ॥
सनत्कुमार उवाच
इत्यूचिवान् शिवो यावद्धरिब्रह्मपुरः कथाम् ।
अभवत्तावदन्यच्च चरितं तन्मुने शृणु ॥ १८ ॥
तस्मिन्नेवान्तरे कृष्णो राधया पार्षदैः सह ।
सद्‌गोपैराययौ शम्भुमनुकूलयितुं प्रभुम् ॥ १९ ॥
प्रभुं प्रणम्य सद्‌भक्त्या मिलित्वा हरिमादरात् ।
संमतो विधिना प्रीत्या सन्तस्थौ शिवशासनात् ॥ २० ॥
ततः शम्भुं पुनर्नत्वा तुष्टाव विहिताञ्जलिः ।
श्रीकृष्णो मोहनिर्मुक्तो ज्ञात्वा तत्त्वं शिवस्य हि ॥ २१ ॥
श्रीकृष्ण उवाच
देवदेव महादेव परब्रह्म सताङ्‌गते ।
क्षमस्व चापराधं मे प्रसीद परमेश्वर ॥ २२ ॥
त्वत्तः शर्व च सर्वं च त्वयि सर्वं महेश्वर ।
सर्वं त्वं निखिलाधीश प्रसीद परमेश्वर ॥ २३ ॥
त्वं ज्योतिः परमं साक्षात्सर्वव्यापी सनातनः ।
त्वया नाथेन गौरीश सनाथाःसकला वयम् ॥ २४ ॥
सर्वोपरि निजं मत्वा विहरन्मोहमाश्रितः ।
तत्फलं प्राप्तवानस्मि शापं प्राप्तः सवामकः ॥ २५ ॥
पार्षदप्रवरो यो मे सुदामा नाम गोपकः ।
स राधाशापतः स्वामिन्दानवीं योनिमाश्रितः ॥ २६ ॥
अस्मानुद्धर दुर्ग्गेश प्रसीद परमेश्वर ।
शापोद्धारं कुरुष्वाद्य पाहि नः शरणागतान् ॥ २७ ॥
इत्युक्त्वा विररामैव श्रीकृष्णो राधया सह ।
प्रसन्नोऽभूच्छिवस्तत्र शरणागतवत्सलः ॥ २८ ॥
श्रीशिव उवाच
हे कृष्ण गोपिकानाथ भयं त्यज सुखी भव ।
मयानुगृह्णता तात सर्वमाचरितं त्विदम् ॥ २९ ॥
सम्भविष्यति ते भद्रं गच्छ स्वस्थानमुत्तमम् ।
स्थातव्यं स्वाधिकारे च सावधानतया सदा ॥ ३० ॥
विहरस्व यथाकामं मां विज्ञाय परात्परम् ।
स्वकार्यं कुरु निर्व्यग्रं राधया पार्षदैः खलु ॥ ३१ ॥
वाराहे प्रवरे कल्पे तरुण्या राधया सह ।
शापप्रभावं भुक्त्वा वै पुनरायास्यति स्वकम् ॥ ३२
सुदामा पार्षदो यो हि तव कृष्ण प्रियप्रियः ।
दानवीं योनिमाश्रित्येदानीं क्लिश्नाति वै जगत् ॥ ३३ ॥
शापप्रभावाद्‌राधाया देवशत्रुश्च दानवः ।
शङ्खचूडाभिधःसोऽति दैत्यपक्षी सुरद्रुहः ॥ ३४ ॥
तेन निःसारिता देवाः सेन्द्रा नित्यं प्रपीडिताः ।
हृताधिकारा विकृताः सर्वे याता दिशो दश ॥ ३५ ॥
ब्रह्माच्युतौ तदर्थे ही हागतौ शरणं मम ।
तेषां क्लेशविनिर्मोक्षं करिष्ये नात्र संशयः ॥ ३६ ॥
सनत्कुमार उवाच
इत्युक्त्वा शंकरः कृष्णं पुनः प्रोवाच सादरम् ।
हरिं विधिं समाभाष्य वचनं क्लेशनाशनम् ॥ ३७ ॥
शिव उवाच
हे हरे हे विधे प्रीत्या ममेदं वचनं शृणु ।
गच्छतं त्वरितं तातौ देवानन्दाय निर्भयम् ॥ ३८ ॥
कैलासवासिनं रुद्रं मद्‌रूपं पूर्णमुत्तमम् ।
देवकार्यार्थमुद्‌भूतं पृथगाकृतिधारिणम् ॥ ३९ ॥
एतदर्थे हि मद्‌रूपः परिपूर्णतमः प्रभुः ।
कैलासे भक्तवशतः सन्तिष्ठति गिरौ हरे ॥ ४० ॥
मत्तस्त्वत्तो न भेदोऽस्ति युवयोः सेव्य एव सः ।
चराचराणां सर्वेषां सुरादीनां च सर्वदा ॥ ४१ ॥
आवयोभेदकर्ता यः स नरो नरकं व्रजेत् ।
इहापि प्राप्नुयात्कृष्टं पुत्रपौत्रविवर्जितः ॥ ४२ ॥
इत्युक्तवन्तं दुर्गेशं प्रणम्य च मुहुर्मुहुः ।
राधया सहितः कृष्णः स्वस्थानं सगणो ययौ ॥ ४३ ॥
हरिर्ब्रह्मा च तौ व्यास सानन्दौ गतसाध्वसौ ।
मुहुर्मुहुः प्रणम्येशं वैकुण्ठं ययतुर्द्रुतम् ॥ ४४ ॥
तत्रागत्याखिलं वृत्तं देवेभ्यो विनिवेद्य तौ ।
तानादाय ब्रह्मविष्णू कैलासं ययतुर्गिरिम् ॥ ४५ ॥
तत्र दृष्ट्‍वा महेशानं पार्वतीवल्लभं प्रभुम् ।
दीनरक्षात्तदेहं च सगुणं देवनायकम् ॥ ४६ ॥
तुष्टुवुः पूर्ववत्सर्वे भक्त्या गद्‌गदया गिरा ।
करौ बद्ध्वा नतस्कन्धा विनयेन समन्विताः ॥ ४७ ॥
देवा ऊचुः
देवदेव महादेव गिरिजानाथ शंकर ।
वयं त्वां शरणापन्ना रक्ष देवान्भयाकुलान् ॥ ४८ ॥
शङ्‌खचूडदानवेन्द्रं जहि देवनिषूदनम् ।
तेन विक्लाविता देवाः सङ्‌ग्रामे च पराजिताः ॥ ४९ ॥
हृताधिकाराः कुतले विचरन्ति यथा नराः ।
देवलोको हि दुर्दृश्यस्तेषामासीच्च तद्‌भयात् ॥ ५० ॥
दीनोद्धर कृपासिन्धो देवानुद्धर सङ्‌कटात् ।
शक्रं भयान्महेशान हत्वा तं दानवाधिपम् ॥ ५१ ॥
इति श्रुत्वा वचः शम्भुर्देवानां भक्तवत्सलः ।
उवाच विहसन् वाण्या मेघनादगभीरया ॥ ५२ ॥
श्रीशंकर उवाच
हे हरे हे विधे देवाः स्वस्थानं गच्छत धुवम् ।
शङ्‌खचूडं वधिष्यामि सगणं नात्र संशयः ॥ ५३ ॥
सनत्कुमार उवाच
इत्याकर्ण्य महेशस्य वचः पीयूषसंनिभम् ।
ते सर्वे प्रमुदा ह्यासन्नष्टं मत्वा च दानवम् ॥ ५४ ॥
हरिर्जगाम वैकुण्ठं सत्यलोके विधिस्तदा ।
प्रणिपत्य महेशं च सुराद्याः स्वपदं ययुः ॥ ५५ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे
युद्धखण्डे शङ्‌खचूडवधे शिवोपदेशो नामैकत्रिंशोऽध्यायः ॥ ३१ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP