॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

द्वात्रिंशोऽध्यायः


शङ्‌खचूडवधे दूतगमनम्


सनत्कुमार उवाच
अथेशानो महारुद्रो दुष्टकालःसतां ‌गतिः ।
शङ्‌खचूडवधं चित्ते निश्चिकाय सुरेच्छया ॥ १ ॥
दूतं कृत्वा चित्ररथं गन्धर्वेश्वरमीप्सितम् ।
शीघ्रं प्रस्थापयामास शङ्‌खचूडान्तिके मुदा ॥ २ ॥
सर्वेश्वराज्ञया दूतो ययौ तन्नगरं च सः ।
महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम् ॥ ३ ॥
गत्वा ददर्श तन्मध्ये शङ्‌खचूडालयं वरम् ।
राजितं द्वादशैर्द्वारैर्द्वारपालसमन्वितम् ॥ ४ ॥
स दृष्ट्‍वा पुष्पदन्तस्तु वरं द्वारं ददर्श सः ।
कथयामास वृत्तान्तं द्वारपालाय निर्भयः ॥ ५ ॥
अतिक्रम्य च तद् द्वारं जगामाभ्यन्तरे मुदा ।
अतीव सुन्दरं रम्यं विस्तीर्णं समलङ्‌कृतम् ॥ ६ ॥
स गत्वा शङ्‌खचूडं तं ददर्श दनुजाधिपम् ।
वीरमण्डल मध्यस्थं रत्नसिंहासनस्थितम् ॥ ७ ॥
दानवेन्द्रैः परिवृतं सेवितं च त्रिकोटिभिः ।
शतः कोटिभिरन्यैश्च भ्रमद्‌भिः शस्त्रपाणिभिः ॥ ८ ॥
एवम्भूतं च तं दृष्ट्‍वा पुष्पदन्तः सविस्मयः ।
उवाच रणवृत्तान्तं यदुक्तं शंकरेण च ॥ ९ ॥
पुष्पदन्त उवाच
राजेन्द्र शिवदूतोऽहं पुष्पदन्ताभिधः प्रभो ।
यदुक्तं शंकरेणैव तच्छृणु त्वं ब्रवीमि ते ॥ १० ॥
शिव उवाच
राज्यं देहि च देवानामधिकारं हि साम्प्रतम् ।
नोचेत्कुरु रणं सार्द्धं परेण च मया सताम् ॥ ११ ॥
देवा मां शरणापन्ना देवेशं शंकरं सताम् ।
अहं क्रुद्धो महारुद्रस्त्वां वधिष्याम्यसंशयम् ॥ १२ ॥
हरोऽस्मि सर्वदेवेभ्यो ह्यभयं दत्तवानहम् ।
खलदण्डधरोऽहं वै शरणागतवत्सलः ॥ १३ ॥
राज्यं दास्यसि किं वा त्वं करिष्यसि रणं च किम् ।
तत्त्वं ब्रूहि द्वयोरेकं दानवेन्द्र विचार्य वै ॥ १४ ॥
पुष्पदन्त उवाच
इत्युक्तं यन्महेशेन तुभ्यं तन्मे निवेदितम् ।
वितथं शम्भुवाक्यं न कदापि दनुजाधिप ॥ १५ ॥
अहं स्वस्वामिनं गन्तुमिच्छामि त्वरितं हरम् ।
गत्वा वक्ष्यामि किं शम्भुं तथा त्वं वद मामिह ॥ १६ ॥
सनत्कुमार उवाच
इत्थं च पुष्पदन्तस्य शिवदूतस्य सत्पतेः ।
आकर्ण्य वचनं राजा हसित्वा तमुवाच सः ॥ १७ ॥
शङ्‌खचूड उवाच
राज्यं दास्ये न देवेभ्यो वीरभोग्या वसुन्धरा ।
रणं दास्यामि ते रुद्र देवानां पक्षपातिने ॥ १८ ॥
यस्योपरि प्रयायी स्यात्स वीरो भुवेनऽधमः।
अतः पूर्वमहं रुद्र त्वां गमिष्याम्यसंशयम् ॥ १९ ॥
प्रभात आगमिष्यामि वीरयात्रा विचारतः ।
त्वं गच्छाचक्ष्व रुद्राय हीदृशं वचनं मम ॥ २० ॥
इति श्रुत्वा शङ्‌खचूडवचनं सुप्रहस्य सः ।
उवाच दानवेन्द्रं स शम्भुदूतस्तु गर्वितम् ॥ २१ ॥
अन्येषामपि राजेन्द्र गणानां शंकरस्य च ।
न स्थातुं संमुखे योग्यः किं पुनस्तस्य संमुखम् ॥ २२ ॥
स त्वं देहि च देवानामधिकाराणि सर्वशः ।
त्वमरे गच्छ पातालं यदि जीवितुमिच्छसि ॥ २३ ॥
सामान्यममरं तं नो विद्धि दानवसत्तम ।
शंकरः परमात्मा हि सर्वेषामीश्वरेश्वरः ॥ २४ ॥
इन्द्राद्याःसकला देवा यस्याज्ञावर्तिनः सदा ।
सप्रजापतयःसिद्धा मुनयश्चाप्यहीश्वराः ॥ २५ ॥
हरेर्विधेश्च स स्वामी निर्गुणःसगुणः स हि ।
यस्य भ्रूभङ्‌गमात्रेण सर्वेषां प्रलयो भवेत् ॥ २६ ॥
शिवस्य पूर्णरूपश्च लोकसंहारकारकः ।
सतां गतिर्दुष्टहन्ता निर्विकारः परात्परः ॥ २७ ॥
ब्रह्मणोधिपतिः सोऽपि हरेरपि महेश्वरः ।
अवमान्या न वै तस्य शासना दानवर्षभ ॥ २८ ॥
किं बहूक्तेन राजेन्द्र मनसा संविचार्य च ।
रुद्रं विद्धि महेशानं परं ब्रह्म चिदात्मकम् ॥ २९ ॥
देहि राज्यं हि देवानामधिकारांश्च सर्वशः ।
एवं ते कुशलं तात भविष्यत्यन्यथा भयम् ॥ ३० ॥
सन्त्कुमार उवाच
इति श्रुत्वा दानवेन्द्रः शङ्‌खचूडः प्रतापवान् ।
उवाच शिवदूतं तं भवितव्यविमोहितः ॥ ३१ ॥
शङ्‌खचूड उवाच
स्वतो राज्यं न दास्यामि नाधिकारान् विनिश्चयात् ।
विना युद्धं महेशेन सत्यमेतद्‌ब्रवीम्यहम् ॥ ३२ ॥
कालाधीनं जगत्सर्वं विज्ञेयं सचराचरम् ।
कालाद्‌भवति सर्वं हि विनश्यति च कालतः ॥ ३३ ॥
त्वं गच्छ शंकरं रुद्रं मयोक्तं वद तत्त्वत ।
स च युक्तं करोत्वेवं बहुवार्तां कुरुष्व नो ॥ ३४ ॥
सनत्कुमार उवाच
इत्युक्त्वा शिवदूतोऽसौ जगाम स्वामिनं निजम् ।
यथार्थं कथयामास पुष्पदन्तश्च सन्मुने ॥ ३५ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे
युद्धखण्डे शङ्‌खचूडवधे दूतगमनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP