|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
त्रिंशोऽध्यायः
शङ्खचूडवधे देवदेवस्तुतिः
सनत्कुमार उवाच
गत्वा तदैव स विधिस्तदा व्यास रमेश्वरः । शिवलोकं महादिव्यं निराधारमभौतिकम् ॥ १ ॥ साह्लादोऽभ्यन्तरं विष्णुर्जगाम मुदिताननः । नानारत्नपरिक्षिप्तं विलसन्तं महोज्ज्वलम् ॥ २ ॥ सम्प्राप्य प्रथमद्वारं विचित्रं गणसेवितम् । शोभितं परया लक्ष्म्या महोच्चमतिसुन्दरम् ॥ ३ ॥ ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान् । शोभितान् श्वेतवस्त्रैश्च रत्नभूषणभूषितान् ॥ ४ ॥ पञ्चवक्त्रत्रिनयनान् गौरसुन्दरविग्रहान् । त्रिशूलादिधरान्वीरान् भस्मरुद्राक्षशोभितान् ॥ ५ ॥ सब्रह्मापि रमेशश्च तान् प्रणम्य विनम्रकः । कथयामास वृत्तान्तं प्रभुसन्दर्शनार्थकम् ॥ ६ ॥ तदाज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया । परं द्वारं महारम्यं विचित्रं परम प्रभम् ॥ ७ ॥ प्रभूपकण्ठगत्यर्थं वृत्तान्तं संन्यवेदयत् । तद्द्वारपाय चाज्ञप्तस्तेनान्यं प्रविवेश ह ॥ ८ ॥ एवं पञ्चदशद्वारान्प्रविश्य कमलोद्भवः । महाद्वारं गतस्तत्र नन्दिनं प्रददर्श ह ॥ ९ ॥ सम्यङ्नत्वा च तं स्तुत्वा पूर्ववत्तेन नन्दिना । आज्ञप्तश्च शनैर्विष्णुर्विवेशाभ्यन्तरं मुदा ॥ १० ॥ ददर्श गत्वा तत्रोच्चैः सभां शम्भोः समुत्प्रभाम् । तां पार्षदैः परिवृतां लसद्देहैः सुभूषिताम् ॥ ११ ॥ महेश्वरस्य रूपैश्च दिग्भुजैः शुभकान्तिभिः । पञ्चवक्त्रैस्त्रिनयनैः शितिकण्ठमहोज्ज्वलैः ॥ १२ ॥ सद्रत्नयुक्तरुद्राक्षभस्माभरणभूषितैः । नवेन्दुमण्डलाकारां चतुरस्रां मनोहराम् ॥ १३ ॥ मणीन्द्रहारनिर्माणहीरसारसुशोभिताम् । अमूल्यरत्नरचितां पद्मपत्रैश्च शोभिताम् ॥ १४ ॥ माणिक्यजालमालाभिर्नानाचित्रविचित्रिताम् । पद्मरागेन्द्ररचितामद्भुतां शंकरेच्छया ॥ १५ ॥ सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः । स्वर्णसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः ॥ १६ ॥ इन्द्रनीलमणिस्तम्भैर्वेष्टितां सुमनोहराम् । सुसंस्कृतां च सर्वत्र वासितां गन्धवायुना ॥ १७ ॥ सहस्रयोजनायामां सुपूर्णां बहुकिङ्करैः । ददर्श शंकरं साम्बं तत्र विष्णुः सुरेश्वरः ॥ १८ ॥ वसन्तं मध्यदेशे च यथेन्दुतारकावृतम् । अमूल्यरत्ननिर्माणचित्रसिंहासनस्थितम् ॥ १९ ॥ किरीटिनं कुण्डलिनं रत्नमालाविभूषितम् । भस्मोद्धूलितसर्वाङ्गं बिभ्रतं केलिपङ्कजम् ॥ २० ॥
पुरतो गीतनृत्यश्च पश्यन्तं सस्मितं मुदा ॥ २१ ॥ शान्तं प्रसन्नमनसमुमाकान्तं महोल्लसम् । देव्या प्रदत्तताम्बूलं भुक्तवन्तं सुवासितम् ॥ २२ ॥ गणैश्च परया भक्त्या सेवितं श्वेतचामरैः । स्तूयमानं च सिद्धैश्च भक्तिनम्रात्मकन्धरैः ॥ २३ ॥ गुणातीतं परेशानं त्रिदेवजनकं विभुम् । निर्विकल्पं निराकारं साकारं स्वेच्छया शिवम् ॥ २४ ॥ अमायमजमाद्यञ्च मायाधीशं परात्परम् । प्रकृतेः पुरुषस्यापि परमं स्वप्रभुं सदा ॥ २५ ॥ एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं समम् । विष्णुर्ब्रह्मा तुष्टुवतुः प्रणम्य सुकृताञ्जली ॥ २६ ॥ विष्णुविधी ऊचतुः देवदेव महादेव परब्रह्माखिलेश्वर ॥ त्रिगुणातीत निर्व्यग्र त्रिदेवजनक प्रभो । २७ ॥ वयं ते शरणापन्ना रक्षस्मान्दुखितान्विभो । शङ्खचूडार्दितान्क्लिष्टान्सन्नाथान्परमेश्वर ॥ २८ ॥ अयं योऽधिष्ठितो लोको गोलोक इति स स्मृतः । अधिष्ठाता तस्य विभुः कृष्णोऽयं त्वदधिष्ठितः ॥ २९ ॥ पार्षदप्रवरस्तस्य सुदामा दैवयन्त्रितः । राधाशप्तो बभूवाथ शङ्खचूडश्च दानवः ॥ ३० ॥ तेन निःसारिताः शम्भो पीड्यमानाः समन्ततः । हृताधिकारास्त्रिदशा विचरन्ति महीतले ॥ ३१ ॥ त्वां विना न स वध्यश्च सर्वेषां त्रिदिवौकसाम् । तं घातय महेशान लोकानां सुखमावह ॥ ३२ ॥ त्वमेव निर्गुणः सत्योऽनन्तोऽनन्तपराक्रमः । सगुणश्च सन्निवेशः प्रकृतेः पुरुषात्परः ॥ ३३ ॥ रजसा सृष्टिसमये त्वं ब्रह्मा सृष्टिकृत्प्रभो । सत्त्वेन पालने विष्णुस्त्रिभुवावनकारकः ॥ ३४ ॥ तमसा प्रलये रुद्रो जगत्संहारकारकः । निस्त्रैगुण्ये शिवाख्यातस्तुर्य्यो ज्योतिःस्वरूपकः ॥ ३५ ॥ त्वं दीक्षया च गोलोके त्वं गवां परिपालकः । त्वद्गोशालामध्यगश्च कृष्णः क्रीडत्यहर्निशम् ॥ ३६ ॥ त्वं सर्वकारणं स्वामी विधिर्विष्ण्वीश्वरः परम् । निर्विकारी सदा साक्षी परमात्मा परेश्वरः ॥ ३७ ॥ दीनानाथसहायी च दीनानां प्रतिपालकः । दीनबन्धुस्त्रिलोकेशः शरणागतवत्सलः ॥ ३८ ॥ अस्मानुद्धर गौरीश प्रसीद परमेश्वरः । त्वदधीना वयं नाथ यदिच्छसि तथा कुरु ॥ ३९ ॥ सनत्कुमार उवाच इत्युक्त्वा तौ सुरौ व्यास हरिर्ब्रह्मा च वै तदा । विरेमतुः शिवं नत्वा करौ बद्ध्वा विनीतकौ ॥ ४० ॥ इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधे देवदेवस्तुतिर्नाम त्रिंशोऽध्यायः ॥ ३० ॥ श्रीगौरीशंकरार्पणमस्तु |