|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
सप्तविंशोऽध्यायः
शङ्खचूडोत्पत्तिवर्णनम्
सनत्कुमार उवाच
अथान्यच्छम्भुचरितं प्रेमतः शृणु वै मुने । यस्य श्रवणमात्रेण शिवभक्तिर्दृढा भवेत् ॥ १ ॥ शङ्खचूडाभिधो वीरो दानवो देवकंटकः । यथा शिवेन निहतो रणमूर्ध्नि त्रिशूलतः ॥ २ ॥ तच्छम्भुचरितं दिव्यं पवित्रं पापनाशनम् । शृणु व्यास सुसम्प्रीत्या वच्मि सुस्नेहतस्तव ॥ ३ ॥ मरीचेस्तनयो धातुः पुत्रो यः कश्यपो मुनिः । स धर्मिष्ठःसृष्टिकर्त्ता विद्याज्ञप्तः प्रजापतिः ॥ ४ ॥ दक्षः प्रीत्या ददौ तस्मै निजकन्यास्त्रयोदश । तासां प्रसूतिः प्रसभं न कथ्या बहुविस्तृताः ॥ ५ ॥ यत्र देवादिनिखिलं चराचरमभूज्जगत् । विस्तरात्तत्प्रवक्तुं च कः क्षमोऽस्ति त्रिलोकके ॥ ६ ॥ प्रस्तुतं शृणु वृत्तान्तं शम्भुलीलान्वितं च यत् । तदेव कथयाम्यद्य शृणु भक्तिप्रवर्द्धनम् ॥ ७ ॥ तासु कश्यपत्नीषु दनुस्त्वेका वराङ्गना । महारूपवती साध्वी पतिसौभाग्यवर्द्धिता ॥ ८ ॥ आसंस्तस्या दनोः पुत्रा बहवो बलवत्तराः । तेषां नामानि नोच्यन्ते विस्तारभयतो मुने ॥ ९ ॥ तेष्वेको विप्रचित्तिस्तु महाबलपराक्रमः । तत्पुत्रो धार्मिको दम्भो विष्णुभक्तो जितेन्द्रियः ॥ १० ॥ नासीत्तत्तनयो वीरस्ततश्चिन्तापरोऽभवत् । शुक्राचार्यं गुरुं कृत्वा कृष्णमन्त्रमवाप्य च ॥ ११ ॥ तपश्चकार परमं पुष्करे लक्षवर्षकम् । कृष्णमन्त्रं जजापैव दृढं बद्धासनं चिरम् ॥ १२ ॥ तपः प्रकुर्वतस्तस्य मूर्ध्नो निःसृत्य प्रज्वलत् । विससार च सर्वत्र तत्तेजो हि सुदुःसहम् ॥ १३ ॥ तेन तप्ताः सुराःसर्वे मुनयो मनवस्तथा । सुनासीरं पुरस्कृत्य ब्रह्माणं शरणं ययुः ॥ १४ ॥ प्रणम्य च विधातारं दातारं सर्वसम्पदाम् । तुष्टुवुर्विकलाः प्रोचुः स्ववृत्तान्तं विशेषतः ॥ १५ ॥ तदाकर्ण्य विधातापि वैकुण्ठं तैर्ययौ सह । तदेव विज्ञापयितुं निखिलेन हि विष्णवे ॥ १६ ॥ तत्र गत्वा त्रिलोकेशं विष्णुं रक्षाकरं परम् । प्रणम्य तुष्टुवुःसर्वे करौ बद्ध्वा विनम्रकाः ॥ १७ ॥ देवा ऊचुः देवदेव न जानीमो जातं किं कारणं त्विह । सन्तप्ताः सकला जातास्तेजसा केन तद्वद ॥ १८ ॥ तप्तात्मनां त्वमविता दीनबन्धोऽनुजीविनाम् । रक्षरक्ष रमानाथ शरण्यः शरणागतान् ॥ १९ ॥
सनत्कुमार उवाच इति श्रुत्वा वचो विष्णुर्ब्रह्मादीनां दिवौकसाम् । उवाच विहसन्प्रेम्णा शरणागतवत्सलः ॥ २० ॥ विष्णुरुवाच सुस्वस्था भवताव्यग्रा न भयं कुरुतामराः । नोपप्लवा भविष्यन्ते लयकालो न विद्यते ॥ २१ ॥ दानवो दम्भनामा हि मद्भक्तः कुरुते तपः । पुत्रार्थी शमयिष्यामि तमहं वरदानतः ॥ २२ ॥ सनत्कुमार उवाच इत्युक्तास्ते सुराःसर्वे धैर्यमालम्ब्य वै मुने । ययुर्ब्रह्मादयःसुस्थाः स्वस्वधामानि सर्वशः ॥ २३ ॥ अच्युतोऽपि वरं दातुं पुष्करं सञ्जगाम ह । तपश्चरति यत्रासौ दम्भनामा हि दानवः ॥ २४ ॥ तत्र गत्वा वरं ब्रूहीत्युवाच परिसान्त्वयन् । गिरा सूनृतया भक्तं जपन्तं स्वमनुं हरिः ॥ २५ ॥ तच्छ्रुत्वा वचनं विष्णोर्दृष्ट्वा तं च पुरः स्थितम् । प्रणनाम महाभक्त्या तुष्टाव च पुनः पुनः ॥ २६ ॥ दम्भ उवाच देवदेव नमस्तेऽस्तु पुण्डरीकविलोचन । रमानाथ त्रिलोकेश कृपां कुरु ममोपरि ॥ २७ ॥ स्वभक्तं तनयं देहि महाबल पराक्रमम् । त्रिलोकजयिनं वीरमजेयं च दिवौकसाम् ॥ २८ ॥ सनत्कुमार उवाच इत्युक्तो दानवेन्द्रेण तं वरं प्रददौ हरिः । निवर्त्य चोग्रतपसस्ततःसोन्तरधान्मुने ॥ २९ ॥ गते हरौ दानवेन्द्रः कृत्वा तस्यै दिशे नमः । जगाम स्वगृहं सिद्धतदाः पूर्ण मनोरथः ॥ ३० ॥ कालेनाल्पेन तत्पत्नी सगर्भा भाग्यवत्यभूत् । रराज तेजसात्यन्तं रोचयन्ती गृहान्तरम् ॥ ३१ ॥ सुदामानाम गोपो यो कृष्णस्य पार्षदाग्रणीः । तस्या गर्भे विवेशासौ राधाशप्तश्च यन्मुने ॥ ३२ ॥ असूत समये साध्वी सुप्रभं तनयं ततः । जातकं सुचकारासौ पिताऽऽहूय मुनीन्बहून् ॥ ३३ ॥ उत्सवःसुमहानासीत्तस्मिञ्जाते द्विजोत्तम । नाम चक्रे पिता तस्य शङ्खचूडेति सद्दिने ॥ ३४ ॥ पितुर्गेहे स ववृधे शुक्लपक्षे यथा शशी । शैशवेभ्यस्तविद्यस्तु स बभूव सुदीप्तिमान् ॥ ३५ ॥ स बालक्रीडया नित्यं पित्रोर्हर्षं ततान ह । प्रियो बभूव सर्वेषां कुलजानां विशेषतः ॥ ३६ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडोत्पत्तिवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥ श्रीगौरीशंकरार्पणमस्तु |