|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
षड्विंशोऽध्यायः
जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनम्
व्यास उवाच
ब्रह्मपुत्र नमस्तेऽस्तु धन्यस्त्वं शैवसत्तम । यच्छ्राविता महादिव्या कथेयं शाङ्करी शुभा ॥ १ ॥ इदानीं ब्रूहि सुप्रीत्या चरितं वैष्णवं मुने । स वृन्दां मोहयित्वा तु किमकार्षीत्कुतो गतः ॥ २ ॥ सनत्कुमार उवाच शृणु व्यास महाप्राज्ञ शैवप्रवर सत्तम । वैष्णवं चरितं शम्भुचरिताढ्यं सुनिर्मलम् ॥ ३ ॥ मौनीभूतेषु देवेषु ब्रह्मादिषु महेश्वरः । सुप्रसन्नोऽवदच्छम्भुः शरणागतवत्सलः ॥ ४ ॥ शम्भुरुवाच ब्रह्मन्देववराः सर्वे भवदर्थे मया हतः । जलन्धरो मदंशोपि सत्यं सत्यं वदाम्यहम् ॥ ५ ॥ सुखमापुर्न वा ताताः सत्यं ब्रूतामराः खलु । भवत्कृते हि मे लीला निर्विकारस्य सर्वदा ॥ ६ ॥ सनत्कुमार उवाच अथ ब्रह्मादयो देवा हर्षादुत्फुल्ललोचनाः । प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम् ॥ ७ ॥ देवा ऊचुः महादेवा त्वया देव रक्षिताः शत्रुजाद् भयात् । किञ्चिदन्यत्समुद्भूतं तत्र किं करवामहै ॥ ८ ॥ वृन्दां विमोहिता नाथ विष्णुना हि प्रयत्नतः । भस्मीभूता द्रुतं वह्नौ परमां गतिमागता ॥ ९ ॥ वृन्दालावण्यसम्भ्रान्तो विष्णुस्तिष्ठति मोहितः । तच्चिताभस्मसन्धारी तव मायाविमोहितः ॥ १० ॥ स सिद्धमुनिसङ्घैश्च बोधितोऽस्माभिरादरात् । न बुध्यते हरिः सोथ तव मायाविमोहितः ॥ ११ ॥ कृपां कुरु महेशान विष्णुं बोधय बोधय । त्वदधीनमिदं सर्वं प्राकृतं सचराचरम् ॥ १२ ॥ सनत्कुमार उवाच इत्याकर्ण्य महेशो हि वचनं त्रिदिवौकसाम् । प्रत्युवाच महालीलः स्वच्छन्दस्तान्कृताञ्जलीन् ॥ १३ ॥ महेश उवाच हे ब्रह्मन्हे सुराःसर्वे मद्वाक्यं शृणुतादरात् । मोहिनी सर्वलोकानां मम माया दुरत्यया ॥ १४ ॥ तदधीनं जगत्सर्वं यद्देवासुरमानुषम् । तयैव मोहितो विष्णुः कामाधीनोऽभवद्धरिः ॥ १५ ॥ उमाख्या सा महादेवी त्रिदेवजननी परा । मूलप्रकृतिराख्याता सुरामा गिरिजात्मिका ॥ १६ ॥ गच्छध्वं शरणा देवा विष्णुमोहापनुत्तये । शरण्यां मोहिनीं मायां शिवाख्यां सर्वकामदाम् ॥ १७ ॥ स्तुतिं कुरुत तस्याश्च मच्छक्तेस्तोषकारिणीम् । सुप्रसन्ना यदि च सा सर्वकार्यं करिष्यति ॥ १८ ॥ सनत्कुमार उवाच इत्युक्त्वा तान्सुरान् शम्भुः पञ्चास्यो भगवान्हरः । अन्तर्दधे द्रुतं व्यास सर्वैश्च स्वगणैः सह ॥ १९ ॥ देवाश्च शासनाच्छम्भोर्ब्रह्माद्या हि सवासवाः । मनसा तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम् ॥ २० ॥ देवा ऊचुः यदुद्भवाःसत्त्वरजस्तमोगुणाः सर्गस्थितिध्वंसविधानकारका । यदिच्छया विश्वमिदं भवाभवौ तनोति मूलप्रकृतिं नताः स्म ताम् ॥ २१ ॥ पाहि त्रयोविंशगुणान् सुशब्दितान् जगत्यशेषे समधिष्ठिता परा । यद्रूपकर्माणिजगत्त्रयोऽपि ते विदुर्न मूलप्रकृतिं नताः स्म ताम् ॥ २२ ॥ यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्र्यमोहात्ययसम्भवादीन् । न प्राप्नुवन्त्येव हि भक्तवत्सलां सदैव मूलप्रकृतिं नताः स्म ताम् ॥ २३ ॥ कुरु कार्यं महादेवि देवानां नः परेश्वरि । विष्णुमोहं ह शिवे दुर्गे देवि नमोऽस्तु ते ॥ २४ ॥ जलन्धरस्य शम्भोश्च रणे कैलासवासिनः । प्रवृत्ते तद्वधार्थाय गौरीशासनतः शिवे ॥ २५ ॥ वृन्दा विमोहिता देवि विष्णुना हि प्रयत्नतः । स्ववृषात्त्याजिता वह्नौ भस्मीभूता गतिं गता ॥ २६ ॥ जलन्धरो हतो युद्धे तद्भयान्मोचिता वयम् । गिरिशेन कृपां कृत्वा भक्तानुग्रहकारिणा ॥ २७ ॥ तदाज्ञया वयं सर्वे शरणं ते समागताः । त्वं हि शम्भुर्युवां देवि भक्तोद्धारपरायणौ ॥ २८ ॥ वृन्दालावण्यसम्भ्रातो विष्णुस्तिष्ठति तत्र वै । तच्चिताभस्मसन्धारी ज्ञानभ्रष्टो विमोहितः ॥ २९ ॥ संसिद्धसुरसङ्घैश्च बोधितोऽपि महेश्वरि । न बुध्यते हरिःसोथ तव मायाविमोहितः ॥ ३० ॥ कृपां कुरु महादेवि हरिं बोधय बोधय । यथा स्वलोकं पायात्स सुचित्तः सुरकार्यकृत् ॥ ३१ ॥
इति स्तुवन्तस्ते देवाः तेजोमण्डलमास्थितम् । ददृशुर्गगने तत्र ज्वालाव्याप्तादिगन्तरम् ॥ ३२ ॥ तन्मध्याद्भारतीं सर्वे ब्रह्माद्याश्च सवासवाः । अमराः शुश्रुवुर्व्यास कामदां व्योमचारिणीम् ॥ ३३ ॥ आकाशवाण्युवाच अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः । गौरी लक्ष्मीः सुरा ज्योती रजःसत्त्वतमोगुणैः ॥ ३४ ॥ तत्र गच्छत यूयं वै तासामन्तिक आदरात् । मदाज्ञया प्रसन्नास्ता विधास्यन्ते तदीप्सितम् ॥ ३५ ॥ सनत्कुमार उवाच शृण्वतामिति तां वाचमन्तर्द्धानमगान्महः । देवानां विस्मयोत्फुल्लनेत्राणां तत्तदा मुने ॥ ३६ ॥ ततःसर्वेऽपि ते देवाः श्रुत्वा तद्वाक्यमादरात् । गौरीं लक्ष्मीं सुरां चैव नेमुस्तद्वाक्यचोदिताः ॥ ३७ ॥ तुष्टुवुश्च महाभक्त्या देवीस्ताः सकलाःसुराः । नानाविधाभिर्वाग्भिस्ते ब्रह्माद्या नतमस्तकाः ॥ ३८ ॥ ततोऽरं व्यास देव्यस्ता आविर्भूताश्च तत्पुरः । महाद्भुतैः स्वतेजोभिर्भासयन्त्यो दिगन्तरम् ॥ ३९ ॥ अथ ता अमरा दृष्ट्वा सुप्रसन्नेन चेतसा । प्रणम्य तुष्टुवुर्भक्त्या स्वकार्यं च न्यवेदयन् ॥ ४० ॥ ततश्चैताः सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलः । बीजानि प्रददुस्तेभ्यो वाक्यमूचुश्च सादरम् ॥ ४१ ॥ देव्य ऊचुः इमानि तत्र बीजानि विष्णुर्यत्रावतिष्ठति । निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति ॥ ४२ ॥ सनत्कुमार उवाच इत्युक्त्वा तास्ततो देव्योऽन्तर्हिता अभवन्मुने । रुद्रविष्णुविधीनां हि शक्तयस्त्रिगुणात्मिकाः ॥ ४३ ॥ ततस्तुष्टाः सुराःसर्वे ब्रह्माद्याश्च सवासवाः । तानि बीजानि सङ्गृह्य ययुर्यत्र हरिः स्थितः ॥ ४४ ॥ वृन्दाचिताभूमितले चिक्षिपुस्तानि ते सुराः । स्मृत्वा ताः संस्थितास्तत्र शिवशक्त्यंशका मुने ॥ ४५ ॥ निक्षिप्तेभ्यश्च बीजेभ्यो वनस्पत्यस्त्रयोऽभवन् । धात्री च मालती चैव तुलसी च मुनीश्वर ॥ ४६ ॥ धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता । गौरीभवा च तुलसी तमःसत्त्वरजोगुणाः ॥ ४७ ॥ विष्णुर्वनस्पतीर्दृष्ट्वा तदा स्त्रीरूपिणीर्मुने । उदतिष्ठत्तदा तासु रागातिशयविभ्रमः ॥ ४८ ॥ दृष्ट्वा स याचते मोहात्कामासक्तेन चेतसा । तं चापि तुलसी धात्री रागेणैवावलोकताम् ॥ ४९ ॥ यच्च बीजं पुरा लक्ष्म्या माययैव समर्पितम् । तस्मात्तदुद्भवा नारी तस्मिन्नीर्ष्यापराभवत् ॥ ५० ॥ अतःसा बर्बरीत्याख्यामवापातीव गर्हिताम् । धात्रीतुलस्यौ तद्रागात्तस्य प्रीतिप्रदे सदा ॥ ५१ ॥ ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु । वैकुण्ठमगमत्तुष्टः सर्वदेवैर्नमस्कृतः ॥ कार्तिके मासि विप्रेन्द्र धात्री च तुलसी सदा । सर्वदेवप्रियाज्ञेया विष्णोश्चैव विशेषतः ॥ ५३ ॥ तत्रापि तुलसी धन्यातीव श्रेष्ठा महामुने । त्यक्त्वा गणेशं सर्वेषां प्रीतिदा सर्वकामदा ॥ ५४ ॥ वैकुण्ठस्थं हरिं दृष्ट्वा ब्रह्मेन्द्राद्याश्च तेऽमराः । नत्वा स्तुत्वा महाविष्णुं स्वस्वधामानि वै ययुः ॥ ५५ ॥ वैकुण्ठोऽपि स्वलोकस्थो भ्रष्टमोहः सुबोधवान् । सुखी चाभून्मुनिश्रेष्ठ पूर्ववत्संस्मरन् शिवम् ॥ ५६ ॥ इत्याख्यानमघोघघ्नं सर्वकामप्रदं नृणाम् । सर्व कामविकारघ्नं सर्वविज्ञानवर्द्धनम् ॥ ५७ ॥ य इदं हि पठेन्नित्यं पाठयेद्वापि भक्तिमान् । शृणुयाच्छ्रावयेद्वापि स याति परमां गतिम् ॥ ५८ ॥ पठित्वा य इदं धीमानाख्यानं परमोत्तमम् । सङ्ग्रामं प्रविशेद्वीरो विजयी स्यान्न संशयः ॥ ५९ ॥ विप्राणां ब्रह्मविद्यादं सत्रियाणां जयप्रदम् । वैश्यानां सर्वधनदं शूद्राणां सुखदं त्विदम् ॥ ६० ॥ शम्भुभक्तिप्रदं व्यास सर्वेषां पापनाशनम् । इहलोके परत्रापि सदा सद्गतिदायकम् ॥ ६१ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलन्धरवधानन्तरदेवीस्तुतिविष्णुमोहविध्वंसवर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥ श्रीगौरीशंकरार्पणमस्तु |